संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
त्रयस्त्रिंशदधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - त्रयस्त्रिंशदधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः
वपुष्मद्वधवर्णनम्
मार्कण्डेय उवाच
इति प्रतिज्ञाय तदा नरिष्यन्तसुतो दमः ।
कोपामर्षविवृत्ताक्षः श्भश्रुमावृत्य पाणिना ॥१॥
हा हतोऽस्मीति पितरं ध्यात्वा देवं विनिंद्य च ।
प्रोवाच मंत्रिणः सर्वानानिनाय पुरोहितम् ॥२॥
दम उवाच
यदत्र कृत्यं तद्ब्रूत ताते प्राप्ते सुरालयम् ।
श्रुतं भवद्भिर्यत्प्रोक्तं तेन शूद्रतपस्विना ॥३॥
वृद्धस्तपस्वी स नृपो वानप्रस्थव्रते स्थितः ।
मौनव्रतधरोऽशस्त्रो मन्मात्रा चेन्द्रसेनया ॥४॥
प्रोक्तं संसृष्टया स्वात्म्याद्याथातथ्यं वपुष्मते ।
तेनापि खड्गमाकृष्य जटां सव्येन पाणिना ॥५॥
धृत्वा जघान दुष्टात्मा लोकनाथमनाथवत् ।
माता च संदिश्य हि मां धिक्छब्दं ब्रुवती सती ॥६॥
मन्दभाग्यं च निःश्रीकं प्रविष्टा हव्यवाहनम् ।
तमालिंग्य नरिष्यन्तं प्रयाता त्रिदशालयम् ॥७॥
सोऽहमद्य करिष्यामि यन्मे मातुरुदीरितम् ।
हस्त्यश्वरथपादातं सैन्यं च परिकल्प्यताम् ॥८॥
अनिर्याप्य पितुर्वैरमहत्वा पितृघातकम् ।
अकृत्वा च वचो मातुर्जीवितुं किमिहोत्सहे ॥९॥
मार्कण्डेय उवाच
मन्त्रिणस्तद्वचः श्रुत्वा हाहेत्युक्त्वा तथा च तत् ।
कृतवन्तो विमनसः सभृत्यबलवाहनाः ॥१०॥
निर्ययुः सपरीवाराः पुरस्कृत्य दमं नृपम् ।
गृहीत्वा चाशिषो विप्रात्त्रिकालज्ञात्पुरोधसः ॥११॥
अहिराडिव निःश्वस्य दमः प्रायाद्वपुष्मतम् ।
सीमापालादिसामन्तान्निघ्नन्याम्यां दिश त्वरा ॥१२॥
निरीक्ष्य तं समायान्तं वपुष्मान्मर्षपूरितः ।
संक्रन्दनसुतेनापि दमो ज्ञातो वपुष्मता ॥
आयातः सपरीवारः सामात्यः सपरिच्छदः ॥१३॥
अकंपितेन मनसा ससैन्यानि दिदेश ह ।
दूतं च प्रेषयामास निर्गम्य नगराद्बहिः ॥१४॥
त्वं शीघ्रतरमागच्छ नरिष्यन्तः प्रतीक्षते ।
सभार्यक्षत्रबन्धो त्वं समायाहि ममान्तिकम् ॥१५॥
इमे मद्बाहुनिर्मुक्ताः शिता बाणाः पिपासिताः ।
भित्त्वा शरीरं सङ्ग्रामे पास्यन्ति रुधिरं तव ॥१६॥
श्रुत्वा दमस्तु तत्सर्वं दूतप्रोक्तं ययौ त्वरन् ।
स्मृत्वा प्रतिज्ञां पूर्वोक्तां निःश्वसमुरगो यथा ॥१७॥
आहूतसमरे चैव पुमान्सेनाविकत्थनः ।
ततो युद्धमतीवासीद्दमस्य च वपुष्मतः ॥१८॥
रथी च रथिना नागी नागिना हयिना हयी ।
अयुध्यन्त च विप्रर्षे तद्युद्धं तुमुलं ह्यभूत् ॥१९॥
पश्यतां सर्वदेवानां सिद्धगन्धर्वरक्षसाम् ।
चकम्पे वसुधा ब्रह्मन्युध्यमाने दमे युधि ॥२०॥
न गजो न रथी नाश्वस्तस्य बाणसहस्तु यः ।
ततो दमेन युयुधे सेनाध्यक्षो वपुष्मतः ॥२१॥
हृदि विव्याध च दम इषुणागाद्यमान्तिकम् ।
तस्मिन्निपतिते सैन्यं पलायनपरं ह्यभूत् ॥२२॥
स स्वामिनं ततः प्राह दमः शत्रुं दमस्तथा ।
क्व यासि दुष्ट पितरं घातयित्वा तपस्विनम् ॥२३॥
अशस्त्रं च तपस्यन्तं क्षत्रियोऽसि निवर्तताम् ।
ततो निवृत्य स दमं योधयामास सानुजः ॥२४॥
स पुत्रः सह सम्बन्धिबान्धवैर्युयुधे रथी ।
ततः शरासनान्मुक्तबाणैर्व्याप्तास्ततो दिशः ॥२५॥
दमं च सरथं चाशु शरजालैरपूरयत् ।
ततः पितृवधोत्थेन कोपेन स दमस्तथा ॥२६॥
चिच्छेद ताञ्छरान्स्तेषां विव्याधान्यैश्च तानपि ।
एकेनैकेन बाणेन सप्त पुत्रान्स्तथा द्विज ॥२७॥
सम्बन्धिबान्धवान्मित्रान्निनाय यमसादनम् ।
वपुष्मान्स रथी क्रोधान्निहतात्मजबान्धवः ॥२८॥
युयुधे च स तेनाजौ शरैराशीविषोपमैः ।
चिच्छेद तस्य तान्बाणान्स दमश्च महामुने ॥२९॥
युयुधाते च संरब्धौ परस्परजयैषिणौ ।
परस्परशराघातविच्छिन्नधनुषौ त्वरा ॥३०॥
गृहीतखड्गावुत्तीर्य चिक्रीडाते महाबलौ ।
दमः क्षणं नृपं ध्यात्वा पितरं निहतं वने ॥३१
केशेष्वाकृष्य चाक्रम्य निपात्य धरणीतले ।
शिरोधरायां पादेन भुजमुद्यम्य चाब्रवीत् ॥३२॥
पश्यन्तु देवताः सर्वा मानुषाः पन्नगाः खगाः ।
पाट्यमानं च हृदयं क्षत्रबन्धोर्वपुष्मतः ॥३३॥
एवमुक्त्वा च स दमो हदयं च व्यदारयत् ।
पातुकामश्च स सुरैः क्षतजेन निवारितः ॥३४॥
ततश्चकार तातस्य रक्तेनैवोदकक्रियाम् ।
आनृण्यं प्राप्य स पितुः पुनः प्रायात्स्वमन्दिरम् ॥३५॥
वपुष्मतश्च मांसेन पिण्डदानं चकार ह ।
ब्राह्मणान्भोजयामास रक्षः कुलसमुद्भवान् ॥३६॥
एवंविधा हि राजानो बभूवुः सूर्यवंशजाः ।
अन्येऽपि सुधियः शूरा यज्विनो धर्मकोविदाः ॥३७॥
वेदान्तपारगास्ताञ्च न संख्यातुमिहोत्सहे ।
एतेषां चरितं श्रुत्वा नरः पापैः प्रमुच्यते ॥३८॥
इति श्रीमार्कण्डेयपुराणे दमचरिते वपुष्मद्वधो नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः । १३३ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP