संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
पञ्चाशोऽध्यायः

मार्कण्डेयपुराणम् - पञ्चाशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मार्कण्डेय उवाच
ततोऽभिद्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ॥१॥
क्षेत्रज्ञाः समवर्तन्त गात्रेब्यस्तस्य धीमतः ।
ते सर्वे समवर्तन्त ये मया प्रगुदाहृताः ॥२॥
देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषयाः स्मृताः ।
एवंभूतानि सृष्टानि स्थावराणि चराणि च ॥३॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान्मानसान् पुत्रानु सदृशानात्मनोऽसृजत् ॥४॥
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा ।
मरीचिं दक्षमत्रिञ्च वसिष्टञ्चैव मानसम् ॥५॥
नव ब्रह्माण इत्येते पुराणे निश्चयङ्गताः ।
ततोऽसृजत् पुनर्ब्रह्मा रुद्रं क्रोधात्मसम्भवम् ॥६॥
सङ्कल्पञ्चैव धर्मञ्च पूर्वेषामपि पूर्वजम् ।
सनन्दनादयो ये च पूर्वं सृष्टाः स्वयंभुवा ॥७॥
न ते लोकेषु सज्जन्तो निरपेक्षाः समाहिताः ।
सर्वे तेऽनागतज्ञाना वीतरागा विमत्सराः ॥८॥
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ।
ब्रह्मणोऽभून्महाक्रोधस्तत्रोत्पन्नोर्ऽकसन्निभः ॥९॥
अर्धनारीनरवपुः पुरुषोऽतिशरीरवान् ।
विभजात्मानमित्युक्त्वा स तदान्तर्दधे ततः ॥१०॥
स चोक्तो वै पृथक् स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
बिभेद पुरुषत्वञ्च दशधा चैकधा तु सः ॥११॥
सौम्यासौम्यैस्तथा शान्तैः पुंस्त्वं स्त्रीत्वञ्च स प्रभुः ।
बिभेद बहुधा देवः पुरुषैरसितैः सितैः ॥१२॥
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः ।
आत्मनः सदृशं कृत्वा प्रजापालो मनुं द्विज ॥१३॥
शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥१४॥
तस्माच्च पुरुषात् पुत्रौ शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्मभिः ॥१५॥
कन्ये द्वे च तथा ऋद्धिं प्रसूतिञ्च ततः पिता ।
ददौ प्रसूतिं दक्षाय तथा ऋद्धिं रुचेः पुरा ॥१६॥
प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणः ।
पुत्रो जज्ञे महाभाग ! दम्पतीमिथुनं ततः ॥१७॥
यज्ञस्य दक्षिणायान्तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवोऽन्तरे ॥१८॥
तस्य पुत्रास्तु यज्ञस्य दक्षिणायां सभास्वराः ।
प्रसूत्याञ्च तथा दक्षश्चतस्त्रो विंशतिस्तथा ॥१९॥
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥२०॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।
पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥२१॥
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिस्तथा क्षमा ॥२२॥
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥२३॥
पुलस्त्यः पुलहश्चैव क्रतुश्च ऋषयस्तथा ।
वसिष्ठोऽत्रिस्तथा वह्निः पितरश्च यथाक्रमम् ॥२४॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।
श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम् ॥२५॥
सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरजायत ।
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥२६॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥२७॥
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मयोनयः ।
कामादतिमुदं हर्षं धर्मपौत्रमसूयत ॥२८॥
हिंसा भार्या त्वधर्मस्य तस्यां जज्ञे तथानृतम् ।
कन्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम् ॥२९॥
माया च वेदना चैव मिथुनं द्वयमेतयोः ।
तयोर्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥३०॥
वेदनात्मसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधि-जरा-शोक-तृष्णा-क्रोधाश्च जज्ञिरे ॥३१॥
दुः खोद्भवाः स्मृता ह्येते सर्वे वाधर्मलक्षणाः ।
नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः॥ ३२॥
निरृतिश्च तथा चान्या मृत्योर्भार्याभवन्मुने ।
अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्राश्चतुर्दश ॥३३॥
अलक्ष्मीपुत्रका ह्येते मृत्योरादेशकारिणः ।
विनाशकालेषु नरान् भजन्त्येते शृणुष्व तान् ॥३४॥
इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः ।
स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति हि ॥३५॥
अथेन्द्रियाणि चाक्रम्य रागक्रोधादिभिर्नरान् ।
योजयन्ति यथा हानिं यान्त्यधर्मादिभिर्द्विज ॥३६॥
अहङ्कारगतश्चान्यस्तथान्यो बुद्धिसंस्थितः ।
विनाशाय नराः स्त्रीणां यतन्ते महोसंश्रिताः ॥३७॥
तथैवान्यो गृहे पुंसां दुः सहो नाम विश्रुतः ।
क्षुत्क्षामोऽधोमुखो नग्रश्चीरी काकसमस्वनः ॥३८॥
स सर्वान् खादितुं सृष्टो ब्रह्मणा तमसो निधिः ।
दंष्ट्राकरालमत्यर्थं विवृतास्यं सुभैरवम् ॥३९॥
तमत्तुकाममाहेदं ब्रह्मा लोकपितामहः ।
सर्वब्रह्ममयः शुद्धः कारणं जगतोऽव्ययः ॥४०॥
ब्रह्मोवाच
नात्तव्यन्ते जगदिदं जहि कोपं शमं व्रज ।
त्यजैनान्तामसी वृत्तिमपास्य रजसः कलाम् ॥४१॥
दुः सह उवाच
क्षुत्क्षामोऽस्मि जगन्नाथ ! पिपासुश्चापि दुर्बलः ।
कथं तृप्तिमियान्नाथ ! भवेयं बलवान् कथम् ।
कश्चाश्रयो ममाक्याहि वर्तेयं यत्र निर्वृतः ॥४२॥
ब्रह्मोवाच
तवाश्रयो गृहं पुंसां जनश्चाधार्मिको बलम् ।
पुष्टिं नित्यक्रियाहान्या भवान् वत्स ! गमिष्यति ॥४३॥
वृथास्फोटाश्च ते वस्त्रमाहारञ्च ददामि ते ।
क्षतं कीटावपन्नञ्च तथा श्वबिरवेक्षितम् ॥४४॥
भग्नभाणागतन्तद्वन्मुखवातोपशामितम् ।
उच्छिष्टापक्वमास्विन्नमवलीढमसंस्कृतम् ॥४५॥
भग्नासनस्थितैर्भुक्तमासन्नागतमेव च ।
विदिङ्मुखं सन्ध्ययोश्च नृत्यवाद्यस्वनाकुलम् ॥४६॥
उदक्योपहतं भुक्तमुदक्या दृष्टमेव च ।
यच्चोपघातवत् किञ्चिद् भक्ष्यं पेयमथापि वा ॥४७॥
एतानि तव पुष्ट्यर्थमन्यच्चापि ददामि ते ।
अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया ॥४८॥
यन्नाम्बुपूर्वकं क्षिप्तमनर्थोकृतमेव च ।
त्यक्तुमाविष्कृतं यत् तु दत्तं चैवातिविस्मयात् ॥४९॥
दुष्टं क्रुद्धार्तदत्तञ्च यक्ष तद्भागि तत् फलम् ।
यच्च पौनर्भवः किञ्चित् करोत्यामुष्मिकं क्रमम् ॥५०॥
यच्च पौनर्भवा योषित् तद्यक्ष ! तव तृप्तये ।
कन्याशुल्कोपधानाय समुपास्ते धनक्रियाः ॥५१॥
तथैव यक्ष ! पुष्ट्यर्थमसच्छास्त्रक्रियाश्च याः ।
यच्चार्थनिर्वृतं किञ्चिदधीतं यन्न सत्यतः ॥५२॥
तत सर्वं तव कालांश्च ददामि तव सिद्धये ।
गुर्विण्यभिगमे सन्ध्यानित्यकार्यव्यतिक्रमे ॥५३॥
असच्छास्त्रक्रियालापदूषितेषु च दुः सह ।
तवाभिभवसामर्थ्यं भविष्यति सदा नृषु ॥५४॥
पङ्क्तिभेदे वृथापाके पाकभेदे तथा क्रिया ।
नित्यञ्च गेहकलहे भविता वसतिस्तव ॥५५॥
अपोष्यमाणे च तथा भृत्ये गोवाहनादिके ।
असन्ध्याभ्युक्षितागारे काले त्वत्तो भयं नृणाम् ॥५६॥
नक्षत्रग्रहपीडासु त्रिविधोत्पातदर्शने ।
अशान्तिकपरान् यक्ष ! नरानभिभविष्यसि ॥५७॥
वृथोपवासिनो मर्त्या द्यूतस्त्रीषु सदा रताः ।
त्वद्भाषणोपकर्तारो वैडालव्रतिकाश्च ये ॥५८॥
अब्रह्मचारिणाधीतमिज्या चाविदुषा कृता ।
तपोवने ग्राम्यभुजां तथैवानिर्वजितात्मनाम् ॥५९॥
ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्च स्वकर्मतः ।
परिच्युतानां या चेष्टा परलोकार्थमीप्सताम् ॥६०॥
तस्याश्च यत् फलं सर्वं तत् ते यक्ष ! भविष्यति ।
अन्यच्च ते प्रयच्छामि पुष्ट्यर्थं सन्निबोध तत् ॥६१॥
भवतो वैश्वदेवान्ते नामोच्चारणपूर्वकम् ।
एतत् तवेति दास्यन्ति भवतो बलिमूर्जितम् ॥६२॥
यः संस्कृताशी विधिवच्छुचिरन्तस्तथा बहिः ।
अलोलुपो जितस्त्रीकस्तद्गेहमपवर्जय ॥६३॥
पूज्यन्ते हव्यकव्याभ्यां देवताः पितरस्तथा ।
यामयोऽतिथयश्चापि तद्गेहं यक्ष ! वर्जय ॥६४॥
यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च ।
तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय ॥६५॥
योषितोऽबिरता यत्र न वहिर्गमनोत्सुकाः ।
लज्जान्विताः सदा गेहं यक्ष ! तत् परिवर्जय ॥६६॥
वयः सम्बन्धयोग्यानि शयनान्यशनानि च ।
यत्र गेहे त्वया यक्ष ! तद्वर्ज्यं वचनान्मम ॥६७॥
यत्र कारुणिका नित्यं साधुकर्मण्यवस्थिताः ।
सामान्योपस्करैर्युक्तास्त्यजेथा यक्ष ! तद्गृहम् ॥६८॥
यत्रासनस्थास्तिष्ठत्सु गुरु-वृद्ध-द्विजातिषु ।
न तिष्ठन्ति गृहं तच्च वर्ज्यं यक्ष ! त्वया सदा ॥६९॥
तरुगुल्मादिभिर्धारं न विद्धं यस्य वेश्मनः ।
मर्मभेदोऽथवा पुंसस्तच्छ्रेयो भवनं न ते ॥७०॥
देवतापितृभृत्त्यानामतिथीनाञ्च वर्तनम् ।
य्सायवशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज॥ ७१॥
सत्यवाक्यान् क्षमाशीलानहिंस्त्रान्नानुतापिनः ।
पुरुषानीदृशान् यक्ष ! त्यजेथाश्चानसूयकान् ॥७२॥
भर्तृशुश्रूषणे युक्तामसत्स्त्रीसङ्गवर्जिताम् ।
कुटुम्बभर्तृशेषान्नपुष्टाञ्च त्यज योषितम् ॥७३॥
यजनाध्ययनाभ्यासदानासक्तमतिं सदा ।
याजनाध्यापनादानकृतवृत्तिं द्विजं त्यज ॥७४॥
दानाध्ययनयज्ञेषु सदोद्युक्तञ्च दुः सह ।
क्षत्रियं त्यज सच्छुल्कशस्त्राजीवात्तवेतनम् ॥७५॥
त्रिभिः पूर्वगुणैर्युक्तं पाशुपाल्य-वणिज्ययोः ।
कृषेश्चावाप्तवृत्तिञ्च त्यज वैश्यमकल्मषम् ॥७६॥
दानेझ्या-द्विजशुश्रूषा-तत्परं यक्ष ! सन्त्यज ।
शूद्रञ्च ब्राह्मणादीनांशुश्रूषावृत्तिपोषकम् ॥७७॥
श्रुतिस्मृत्यविरोधेन कृतवृत्तिर्गृहे गृही ।
यत्र तत्र च तत्पत्नि तस्यैवानुगतात्मिका ॥७८॥
यत्र पुत्रो गुरोः पूजां देवानाञ्च तथा पितुः ।
पत्नी च भर्तुः कुरुते तत्रालक्ष्मीभयं कुतः ॥७९॥
सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितम् ।
कृतपुष्पबलिं यक्ष ! न त्वं शक्नोषि वीक्षितुम् ॥८०॥
भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।
सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनम् ॥८१॥
यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः ॥८२॥
यत्र कष्टकिनो वृक्षा यत्र निष्पाववल्लरी ।
भार्या पुनर्भूर्वल्मीकस्तद्यक्ष ! तव मन्दिरम् ॥८३॥
यस्मिन् गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ।
अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव ॥८४॥
एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय ॥८५॥
कुद्दालदात्रपिटकं तद्वत् स्थाल्यादिभाजनम् ।
यत्र तत्रैव क्षिप्तानि तव दद्युः प्रतिश्रयम् ॥८६॥
मुसलोलूखले स्त्रीणामास्या तद्वदुदुम्बरे ।
अवस्करे मन्त्रणञ्च यक्षैतदुपकृत् तव ॥८७॥
लङ्घ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ।
तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चर दुः सह ॥८८॥
स्थालीपिधाने यत्राग्निर्दत्तो दर्वोफलेन वा ।
गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥८९॥
मानुषास्थि गृहे यत्र दिवारात्रं मृतस्थितिः ।
तत्र यक्ष ! तवावासस्तथान्येषाञ्च रक्षसाम् ॥९०॥
अदत्त्वा भुञ्जते ये वै बन्धोः पिण्डं तथोदकम् ।
सपिण्डान् सोदकांश्चैव तत्काले तान् नरान् भज ॥९१॥
यत्र पद्मपहापद्मौ सुरभिर्मोकाशिनी ।
वृषभैरावतौ यत्र कल्प्यन्ते तद्गृहं त्यज ॥९२॥
अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना ।
कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम् ॥९३॥
पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः ।
क्रियन्ते पूर्ववद् गेहे न त्वं तत्र गृहे चर ॥९४॥
शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः ।
नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान् ॥९५॥
देशाचारान् समयान् ज्ञातिधर्मं
जपं होपं मङ्गलं देवतेष्टिम् ।
सम्यक्शौचं विधिवल्लोकवादान्
पुंसस्त्वया कुर्वतो मास्तु सङ्गः ॥९६॥
मार्कण्डेय उवाच
इत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत ।
चकार शासनं सोऽपि तथा पङ्कजजन्मनः ॥९७॥

इति श्रीमार्कण्डेयपुराणे यक्षानुशासनो नाम पञ्चाशोऽध्यायः

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP