संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
दशाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - दशाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


नाभागाख्यानवर्णनम्
मार्कण्डेय उवाच
कारुषाः क्षत्रियाः शूराः करुषस्याभवन्सुताः ।
ते तु सप्तशतं वीरास्तेभ्यश्चान्ये सहस्रशः ॥१॥
दिष्टपुत्रस्तु नाभागः स्थितः प्रथमयौवने ।
ददर्श वैश्यतनयामतीव सुमनोहराम् ॥२॥
तस्यां संदृष्टमात्रायां मदनाक्षिप्तमानसः ।
बभूव भूपतनयो निःश्वासाक्षेपतत्परः ॥३॥
तस्याः स गत्वा जनकं वव्रे तां वैश्यकन्यकाम् ।
ततोऽनङ्गपराधीनमनोवृत्तिं नृपात्मजम् ॥४॥
तं चाह स पिता तस्या राजपुत्रं कृताञ्जलिः ।
बिभ्यत्तस्य पितुर्विप्र प्रश्रयावनतं वचः ॥५॥
भवन्तो भूभुजो भृत्या वयं वः करदायकाः ।
कथं सम्बन्धमसमैरस्माभिरभिवाच्छसि ॥६॥
राजपुत्र उवाच
साम्यं मानुषदेहस्य काममोहादिभिः कृतम् ।
तथापि काले तैरेव योज्यते मानुषं वपुः ॥७॥
तथैव चोपकाराय जायन्ते तस्य तान्यपि ।
अन्यानि चान्ये जीवन्ति भिन्नजातिमतां सताम् ॥८॥
तथान्यान्यप्ययोग्यानि योग्यतां यान्ति कालतः ।
योग्यान्ययोग्यतां यान्ति कालवश्या हि योग्यता ॥९॥
आप्याय्यते यच्छरीरमाहारादिभिरीप्सितैः ।
कालं ज्ञात्वा तथा भुक्तं तदेव परिशिष्यते ॥१०॥
इत्थं ममैषाभिमता तनया दीयतां त्वया ।
अन्यथा मच्छरीरस्य विपत्तिरुपलक्ष्यते ॥११॥
वैश्य उवाच
परतन्त्रा वयं त्वं च परतन्त्रो महीभुजः ।
पित्रा तेनाभ्यनुज्ञातस्त्वं गृहाण ददाम्यहम् ॥१२॥
राजपुत्र उवाच
प्रष्टव्या सर्वकार्येषु गुरवो गुरुवर्तिभिः ।
न त्वीदृशेष्वकार्येषु गुरूणां वाक्यगोचरः ॥१३॥
क्व मन्मथ कथालापो गुरूणां श्रवणं क्व च ।
विरुद्धमेतदन्यत्र प्रष्टव्या गुरवो नृभिः ॥१४॥
वैश्य उवाच
एवमेतत्स्मरालापस्तवायं पृच्छ मा गुरुम् ।
अहं पृच्छामि नालापो मम कामकथाश्रयः ॥१५॥
मार्कण्डेय उवाच
इत्युक्तः सोऽभवन्मौनी राजपुत्रः स चापि तत् ।
तत्पित्रे सर्वमाचष्ट राजपुत्रस्य यन्मतम् ॥१६॥
ततस्तस्य पिता विप्रानृचीकादीन्द्विजोत्तमान् ।
प्रवेश्य राजपुत्रं च यथाख्यानं न्यवेदयत् ॥१७॥
निवेद्य च ततः प्राह मुनीनेवं व्यवस्थिते ।
यत्कर्तव्यं तदादेष्टुमर्हन्ति द्विजसत्तमाः ॥१८॥
ऋषयः ऊचु
राजपुत्रानुरागस्ते यद्यस्यां वैश्यसन्ततौ ।
तदस्तु धर्म एवैष किं तु न्यायक्रमेण सः ॥१९॥
मूर्धाभिषिक्ततनयापाणिग्राहोत्सवः पुरा ।
भवत्वनन्तरं चेयं तव भार्या भविष्यति ॥२०॥
एवं न दोषो भवति तथेमामुपभुञ्जतः ।
अन्यथाऽभ्येति ते जातिरुत्कृष्टा बालकानयात् ॥२१॥
मार्कण्डेय उवाच
इत्युक्तस्तदपास्येव वचस्तेषां महात्मनाम् ।
विनिष्क्रम्य गृहीत्वा तामुद्यतासिरथाब्रवीत् ॥२२॥
राक्षसेन विवाहेन मया वैश्यसुता हृता ।
यस्य सामर्थ्यमत्रास्ति स एतां मोचयत्विति ॥२३॥
ततः स वैश्यस्तां दृष्ट्वा गृहीतां तनयां द्रुतम् ।
त्राहीति पितरं तस्य प्रययौ शरणं द्विज ॥२४॥
ततस्तस्य पिता क्रुद्ध आदिदेश बलं महत् ।
हन्यतां हन्यतां दुष्टो नाभागो धर्मदूषकः ॥२५॥
ततस्तद्युयुधे सैन्यं तेन भूभृत्सुतेन वै ।
कृतास्त्रेण तदास्त्रेण तत्प्राचुर्येण पातितम् ॥२६॥
स श्रुत्वा निहतं सैन्यं राजपुत्रेण भूपतिः ।
स्वयमेव ययौ योद्धुं स्वसैन्यपरिवारितः ॥२७॥
ततो युद्धमभूत्तस्य भूभुजः स्वसुतेन यत् ।
राजपुत्रेण शस्त्रास्त्रैस्तत्रातिशयितः पिता ॥२८॥
ततोऽन्तरिक्षादागत्य परिव्राट् सहसा मुनिः ।
प्रत्युवाच महीपालं विरमस्वेति संयुगात् ॥२९॥
त्वत्पुत्रस्य महाभाग विधर्मोऽयं महात्मनः ।
तवापि वैश्येन सह न युद्धं धर्मवन्नृप ॥३०॥
ब्राह्मण्या ब्राह्मणः पूर्वं कुर्वन्दारपरिग्रहम् ।
ब्राह्मण्यात्सर्ववर्णेषु न हानिमुपगच्छति ॥३१॥
तथैव क्षत्रियसुतां क्षत्रियः पूर्वमुद्वहन् ।
इतरे च ततो राजंश्च्यवते न स्वधर्मतः ॥३२॥
पूर्वं वैश्यस्तथा वैश्यां पश्चाच्छूद्रकुलोद्भवाम् ।
न हीयते वैश्यकुलादयं न्यायः क्रमोदितः ॥३३॥
ब्राह्मणः क्षत्रिया वैश्याः सवर्णापाणिसंग्रहम् ।
अकृत्वाऽन्यभवापाणेः पतन्ति नृप संग्रहात् ॥३४॥
यस्या यस्या हि हीनाया कुरुते पाणिसंग्रहम् ।
अकृत्वा वर्णसयोगं सोऽपि तद्वर्णभाग्भवेत् ॥३५॥
सोऽयं वैश्यत्वमापन्नस्तव पुत्रः सुमन्दधीः ।
नास्याधिकारो युद्धाय क्षत्रियेण त्वया सह ॥३६॥
वयमेतन्न जानीमः कारणं नृपनन्दन ।
यथा भविष्यतीदं च निवर्त्त रणकर्मतः ॥३७॥
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते नाभागाख्यानं नाम दशाधिकशततमोऽध्यायः । ११० ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP