मार्कण्डेयपुराणम् - अथैकोनविंशत्यधिकशततमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
अविक्षिच्चरित्रवर्णनम्
मार्कण्डेय उवाच
वीर्यचन्द्रसुता सुभूर्वीरा नाम शुभव्रता ।
स्वयंवरे सा जगृहे महाराजं करन्धमम् ॥१॥
तस्यां पुत्रं स राजेन्द्रो जनयामास वीर्यवान् ।
अविक्षितमिति ख्यातिमुपेतं जगतीतले ॥२॥
जाते तस्मिन्सुते राजा स दैवज्ञानपृच्छत ।
कच्चित्प्रशस्तनक्षत्रे शस्तलग्ने सुतो मम ॥३॥
कच्चिच्चालोकितं जन्म मम पुत्रस्य शोभनैः ।
ग्रहैः कच्चिन्न दुष्टानां ग्रहाणां दृक्पथं गतम् ॥४॥
इत्युक्तास्तेन दैवज्ञास्तमूचुर्नृपतिं ततः ।
शस्ते मुहूर्ते नक्षत्रे लग्ने चैव सुतस्तव ॥५॥
समुत्पन्नो महावीर्यो महाभागो महाबलः ।
भविष्यति महाराज महाराजस्तवात्मजः ॥६॥
अवैक्षतेमं देवानां गुरुः शुक्रश्च सप्तमः ।
सोमश्चतुर्थस्तनयं तवैनं समवैक्षत ॥७॥
उपान्तसंस्थितश्चैव सोमपुत्रोप्यवैक्षत ।
नावैक्षतेमं सविता न भौमो न शनैश्चरः ॥८॥
तव पुत्रं महाराज धन्योऽयं तनयस्तव ।
सर्वकल्याणसम्पत्ति समवेतो भविष्यति ॥९॥
मार्कण्डेय उवाच
इति दैवज्ञवचनं निशम्य वसुधाधिपः ।
हर्षपूर्णमनाः प्राह निजस्थानगतस्तदा ॥१०॥
अवैक्षतेमं देवानां गुरुः सोमः सितो बुधः ।
नावैक्षतैनमादित्यो नार्कसूनुर्न भूमिजः ॥११॥
अवैक्षतेति यत्प्रोक्तं भवद्भिर्बहुशो वचः ।
अविक्षितेति तेनास्य ख्यातं नाम भविष्यति ॥१२॥
मार्कण्डेय उवाच
अविक्षितः सुतस्तस्य वेदवेदाङ्गपारगः ।
अस्त्रग्राममशेषं स कण्वपुत्रादथाग्रहीत् ॥१३॥
स्वरूपेणातिभिषजौ देवानां पार्थिवात्मजः ।
बुद्ध्या वाचस्पतिं कान्त्या शशाङ्कं तेजसा रविम् ॥१४॥
धैर्येणाब्धिं तयोर्वीं च सहिष्णुत्वेन वीर्यवान् ।
शौर्येण न समस्तस्य कश्चिदासीन्महात्मनः ॥१५॥
स्वयंवरे तं जगृहे हेमधर्मात्मजा वरा ।
सुदेवतनया गौरी सुभद्रा बलिनः सुता ॥१६॥
लीलावती वीरसुता वीरभद्रसुता निभा ।
भीमात्मजा मान्यवती दम्भपुत्री कुमुद्वती ॥१७॥
याश्चैनं नाभिनन्दन्ति स्वयंवरकृतक्षणाः ।
ताश्चापि स बलाद्वीरो जग्राह नृपतेः सुतः ॥१८॥
निराकृत्य नृपान्सर्वांस्तासां पितृकुलानि च ।
स्वयं हि वीर्यमाश्रित्य बलवान्न बलोद्धतः ॥१९॥
एकदा तु विशालस्य विशालाधिपतेः सुताम् ।
वैशालिनीं स सुदतीं स्वयंवरकृतक्षणाम् ॥२०॥
परिभूयाखिलान्भूपान्स्वेच्छया न वृतस्तया ।
बलाज्जग्राह विप्रर्षे यथान्या बलगर्वितः ॥२१॥
ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना ।
निराकृताः सुनिर्विण्णाः प्रोचुरन्योन्यमाकुलाः ॥२२॥
क्षमतां वञ्चनामेतामेकस्माद्बलशालिनाम् ।
बहूनामेकवर्णानां जन्म धिग्वो महीभृताम् ॥२३॥
क्षत्रियो यः क्षतात्त्राणं वध्यमानस्य दुर्मदैः ।
करोति तस्य तन्नाम वृथैवान्ये हि बिभ्रति ॥२४॥
आत्मनोऽपि क्षतत्राणं दुष्टादस्मादकुर्वताम् ।
भवतां क्षत्रियकुले जातानां कीदृशी मतिः ॥२५॥
उच्चार्यते स्तुतिर्या वः सूतमागधबन्दिभिः ।
सा सत्या मा वृथा वीरा भवत्वरिविनाशनात् ॥२६॥
चरतां सा तथैवैषा भूपाश्चारैर्दिगन्तरे ।
पौरुषाश्रयिणः सर्वे विशिष्टकुलसम्भवाः ॥२७॥
बिभेति को न मरणात्को युद्धेन विनाऽमरः ।
विचिन्त्यैतन्न हातव्यं पौरुषं शस्त्रवृत्तिभिः ॥२८॥
एतन्निशम्य ते भूपा विस्पष्टामर्षपूरिताः ।
ऊचुः परस्परं सर्वे समुत्तस्थुश्च सायुधाः ॥२९॥
केचिद्रथानारुरुहुः केचिन्नागांस्तथा हयान् ।
अन्येऽमर्षपराधीनास्तमुपेताः पदातयः ॥३०॥
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नामैकोनविंशत्यधिकशततमोऽध्यायः । ११९ ।
N/A
References : N/A
Last Updated : April 17, 2023
TOP