संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
पञ्चदशोऽध्यायः

मार्कण्डेयपुराणम् - पञ्चदशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


यमकिङ्कर उवाच

पतितात् प्रतिगृह्यार्थं खरयोनिं व्रजेद् द्विजः ।
नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥१॥

उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः ।
तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम् ॥२॥

गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।
मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥३॥

भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते ।
तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते ॥४॥

भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते ।
सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥५॥

न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ।
असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥६॥

विश्वासहन्ता च नरो मीनयोनौ प्रजायते ।
धान्यं यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान् ॥७॥

कलायान कलमान् मुद्गान् गोधूमानतसीस्तथा ।
शस्यान्यन्यानि वा हृत्वा मोहाज्जन्तुरचेतनः ॥८॥

सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ।
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥९॥

श्वा शृगालो वको गृध्रो व्याडः कङ्कस्तथा क्रमात् ।
भ्रातृभार्याञ्च दुर्बुद्धिर्यो धर्षयति पापकृत् ॥१०॥

पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः ।
सखिभार्यां गुरोर्भार्यां राजभार्याञ्च पापकृत् ॥११॥

प्रधर्षयित्वा कामात्मा शूकरो जायते नरः ।
यज्ञ-दान-विवाहानां विघ्रकर्ता भवेत् कृमिः ॥१२॥

पुनर्दात् च कन्यायाः कृमिरेवोपजायते ।
देवता-पितृ-विप्राणामदत्वा योऽन्नमश्नुते ॥१३॥

प्रमुक्तो नरकात् सोऽपि वायसः सम्प्रजायते ।
ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ॥१४॥

नरकात् सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते ।
शूद्रश्च ब्राह्मणरिं गत्वा कृमियोनौ प्रजायते ॥१५॥

तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् ।
शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥१६॥

अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।
कृतघ्रः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥१७॥

मत्स्यस्तु वायसः कूर्मः पुक्कसो जायते ततः ।
अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥१८॥

कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते ।
भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥१९॥

तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् ।
ह्त्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥२०॥

तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः ।
घृतं हृत्वा च नकुलः काको मद्गुरजामिषम् ॥२१॥

मत्स्यमांसापहृत् काकः श्येनो मार्गामिषापहृत् ।
वीचीकाकस्त्वपहृते लवणे दधनि कृमिः ॥२२॥

चोरयित्वा पयश्चापि बलाका सम्प्रजायते ।
यस्तु चोरयते तैलं तैलपायी स जायते ॥२३॥

मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।
चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥२४॥

आसवं चोरयित्वा तु तित्तिरित्वमवाप्नुयात् ।
अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥२५॥

हृते कांस्ये च हारीतः कपोतो रुप्यभाजने ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥२६॥

पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति ।
कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते ॥२७॥

दुकूले शार्ङ्गकः पापो हृते चैवांशुके शुकः ।
तथैवाजाविकं हृत्वा वस्त्रं क्षौमं च जायते ॥२८॥

कार्पासिके हृते क्रौञ्चो वाल्कहर्ता बकस्तथा ।
मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते ॥२९॥

जीवज्जीवकतां याति रक्तवस्त्रापहृन्नरः ।
छुच्छुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥३०॥

षण्ढः फलापहरणात् काष्ठस्य घुणकीटकः ।
पुष्पापहृद् दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥३१॥

शाकहर्ता च हारीतस्तोयहर्ता च चातकः ।
भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥३२॥

तृण-गुल्म-लता-वल्लि-त्वक्सारतरुतां क्रमात् ।
प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः ॥३३॥

कृमिः कीटः पतङ्गोऽथ पक्षी तोय चरो मृगः ।
गोत्वं प्राप्य च चण्डाल-पुक्कसादि जुगुप्सितम् ॥३४॥

पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः ।
मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥३५॥

अपस्मारी च भवति शूद्रत्वं च स गच्छति ।
एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ॥३६॥

विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः ।
जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् ॥३७॥

प्राप्नोति षण्ढतां मूढो यातनाभ्यः परिच्युतः ।
यः करोति नरो होममसमिद्धे विभावसौ ॥३८॥

सोऽजिर्णव्याधिदुः खार्तो मन्दाग्निः संप्रजायते ।
परनिन्दा कृतघ्रत्वं परमर्मावघट्टनम् ॥३९॥

नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ।
परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥४०॥

निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः ।
यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता ॥४१॥

उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु ।
दया भूतेषु संवादः परलोकप्रतिक्रिया ॥४२॥

सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् ।
गुरु-देवर्षि-सिद्धर्षिपूजनं साधुसङ्गमः ॥४३॥

सत्क्रियाभायसनं मैत्रीमिति बुध्यते पण्डितः ।
अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च ॥४४॥

स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् ।
एतदुद्देशतो राजन् भवतः कथितं मया ॥४५॥

स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा ।
तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना ।
त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥४६॥

पुत्र उवाच

ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः ।
ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः ॥४७॥

प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् ।
त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥४८॥

परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः ।
अपहन्ति नरव्याघ्र यदां कुर महीपते ॥४९॥

एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः ।
पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥५०॥

किं मया कर्म तत् पुण्यं मर्त्यलोके महत् कृतम् ।
आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥५१॥

यमपुरुष उवाच

पितृदेवातिथिप्रैष्य-शिष्टेनान्नेन ते तनुः ।
पुष्टिमभ्यागता यस्मात् तद्गतं च मनो यतः ॥५२॥

ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः ।
पापकर्मकृतो राजन् यातना न प्रबाधते ॥५३॥

अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः ।
ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः ॥५४॥

पीडन-च्छेद-दाहादि-महादुः खस्य हेतवः ।
मृदुत्वमागता राजन् तेजसापहतास्तव ॥५५॥

राजोवाच

न स्वर्गे ब्रह्मलोके वा तत् सुखं प्राप्यते नरैः ।
यदार्तजन्तुनिर्वाण-दानोत्थमिति मे मतिः ॥५६॥

यदि मत्सन्निधावेतान् यातना न प्रबाधते ।
ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥५७॥

यमपुरुष उवाच

एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् ।
भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम् ॥५८॥

राजोवाच

तस्मान्न तावद्यास्यामि यावदेते सुदुः खिताः ।
मत्सन्निधानात् सुखिनो भवन्ति नरकौकसः ॥५९॥

धिक् तस्य जीवनं पुंसः शरणार्थिनमातुरम् ।
यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥६०॥

यज्ञ-दान-तपांसीह परत्र च न भूतये ।
भवन्ति तस्य यस्यार्त-परित्राणे न मानसम् ॥६१॥

नरस्य यस्य कठिनं मनो बालातुरादिषु ।
वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः ॥६२॥

एतेषां सन्निकर्षात् तु यद्यग्निपरितापजम् ।
तथोग्रगन्धजं वापि दुः खं नरकसम्भवम् ॥६३॥

क्षुत्पिपासाभवं दुः खं यच्च मूर्च्छाप्रदं महत् ।
एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात् परम् ॥६४॥

प्राप्स्यन्त्यार्ता यदि सुखं बहवो दुः खिते मयि ।
किन्नु प्राप्तं मया न स्यात् तस्मात् त्वं व्रज माचिरम् ॥६५॥

यमपुरुष उवाच

एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ ।
अवश्यमस्माद् गन्तव्यं तस्मात् पार्थिव ! गम्यताम् ॥६६॥

धर्म उवाच

नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः ।
विमानमेतदारुह्य मा विलम्बस्व गम्यताम् ॥६७॥

राजोवाच

नरके मानवा धर्म पीड्यन्तेऽत्र सहस्रशः ।
त्राहीति चार्ताः क्रन्दन्ति मामतो न व्रजाम्यहम् ॥६८॥

इन्द्र उवाच

कर्मणा नरकप्राप्तिरेतेषां पापकर्मिणाम् ।
स्वर्गस्त्वयापि गन्तव्यो नृप ! पुण्येन कर्मणा ॥६९॥

राजोवाच

यदि जानासि धर्म ! त्वं त्वं वा शक्र ! शचीपते ।
मम यावत् प्रमाणन्तु शुभं तद्वक्तुमर्हथः ॥७०॥

धर्म उवाच

अब्बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः ।
यथा वा वर्षता धारा गड्गायां सिकता यथा ॥७१॥

असंख्येया महाराज यथा बिन्द्वादयो ह्यपाम् ।
तथा तवापि पुण्यस्य संख्या नैवोपपद्यते ॥७२॥

अनुकम्पामिमामद्य नारकेष्विह कुर्वतः ।
तदेव शतसाहस्त्रं संख्यामुपगतं तव ॥७३॥

तद् गच्छ त्वं नृपश्रेष्ठ तद्भाक्तुममरालयम् ।
एतेऽपि पापं नरके क्षपयन्तु स्वकर्मजम् ॥७४॥

राजोवाच

कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः ।
यदि सत्सन्निधावेषामुकत्कर्षो नोपजायते ॥७५॥

तस्माद्यत् सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप ।
तेन मुच्यन्तु नरकात् पापिनो यातनां गताः ॥७६॥

इन्द्र उवाच

एवमूर्ध्वतरं स्थानं त्वयावाप्तं महीपते ।
एतांश्च नरकात् पश्य विमुक्तान् पापकारिणः ॥७७॥

पुत्र उवाच

ततोऽपतत् पुष्पवृष्टिस्तस्योपरि महीपतेः ।
विमानञ्चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥७८॥

अहञ्चान्ये च ये तत्र यातनाभ्यः परिच्युताः ।
स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः ॥७९॥

एवमेते समाख्याता नरका द्विजसत्तम ।
येन येन च पापेन यां यां योनिमुपैति वै ॥८०॥

तत् तत् सर्वं समाख्यातं यथा दृष्टं मया पुरा ।
पुरानुभवजं ज्ञानमवाप्यावितथं तव ।
अतः परं महाभाग किमन्यत् कथयामि ते ॥८१॥

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः

N/A

References : N/A
Last Updated : March 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP