मार्कण्डेयपुराणम् - पञ्चचत्वारिंशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
जैमिनिरुवाच
सम्यगेतन्ममाख्यातं भवदिभर्द्विजसत्तमाः ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥१॥
अहो पितृप्रसादेन भवतां ज्ञानमीदृशम् ।
येन तिर्यक्त्वमप्येतत् प्राप्य मोहस्तिरस्कृतः ॥२॥
धन्या भवन्तः संसिद्ध्यै प्रागवस्थास्थितं यतः ।
भवतां विषयोद्भूतैर्न मोहैश्चाल्यते मनः ॥३॥
दिष्ट्या भगवता तेन मार्कण्डेयेन धीमता ।
भवन्तो वै समाख्याताः सर्वसन्देहहृत्तमाः ॥४॥
संसारेऽस्मिन् मनुष्याणां भ्रमतामतिसङ्कटे ।
भवद्विधैः समं सङ्गो जायते नातपस्विनाम् ॥५॥
यद्यहं सङ्गमासाद्य भवदिभर्ज्ञानदृष्टिभिः ।
न स्यां कृतार्थस्तन्नूनं न मेऽन्यत्र कृतार्थता ॥६॥
प्रवृते च निवृत्ते च भवतां ज्ञानकर्मणि ।
मतिमस्तमलां मन्ये यथा नान्यस्य कस्यचित् ॥७॥
यदि त्वनुग्रहवती मयी बुद्धिर्द्विजोत्तमाः ।
भवतां तत्समाख्यातुमर्हतेदमशेषतः ॥८॥
कथमेतत्समुद्भूतं जगत् स्थावरजङ्गमम् ।
कथञ्च प्रलयङ्काले पुनर्यास्यति सत्तमाः ॥९॥
कथञ्च वंशाः देवर्षि-पितृभूतादिसम्भवाः ।
मन्वन्तराणि च कथं वंशानुचरितञ्च यत् ॥१०॥
यावत्यः सृष्टयश्चैव यावन्तः प्रलयास्तथा ।
यथा कल्पविभागश्च या च मन्वन्तरस्थितिः ॥११॥
यथा च क्षितिसंस्थानं यत् प्रमाणञ्च वै भुवः ।
यथास्थिति समुद्राद्रि-निम्नगाः काननानि च ॥१२॥
भूर्लोकादिस्वर्लोकानां गणः पातालसंश्रयः ।
गतिस्तथार्कसोमादि-ग्रहर्क्षज्योतिषामपि ॥१३॥
श्रोतुमिच्छाम्यहं सर्वमेतदाहूतसंप्लवम् ।
उपसंहृते च यच्छेषं जगत्यस्मिन् भविष्यति ॥१४॥
पक्षिण ऊचुः
प्रश्नभारोऽयमतुलो यस्त्वया मुनिसत्तम ।
पृष्टस्तं ते प्रवक्ष्यामस्तत् शृणुष्वेह जैमिने ॥१५॥
मार्कण्डेयेन कथितं पुरा क्रौष्टुकये यथा ।
द्विजपुत्राय शान्ताय व्रतस्त्राताय धीमते ॥१६॥
मार्कण्डेयं महात्मानमुपासीनं द्विजोत्तमैः ।
क्रौष्टुकिः परिपप्रच्छ यदेतत् पृष्टवान् प्रभो ॥१७॥
तस्य चाकथयत् प्रीत्या यन्मुनिर्भृगुनन्दनः ।
तत्ते प्रकथयिष्यामः शृणु त्वं द्विजसत्तम ॥१८॥
प्रणिपत्य जगन्नाथं पद्मयोनिं पितामहम् ।
जगद्योनिं स्थितं सृष्टौ स्थितौ विष्णुस्वरूपिणम् ।
प्रलये चान्तकर्तारं रौद्रं रुद्रस्वरूपिणम् ॥१९॥
मार्कण्डेय उवाच
उत्पन्नमात्रस्य पुरा ब्रह्मणोऽव्यक्तजन्मनः ।
पुराणमेतद्वेदाश्च मुखेभ्योऽनुविनिः सृताः ॥२०॥
पुराणसंहिताश्चक्रुर्बहुलाः परमर्षयः ।
वेदानां प्रविभागश्च कृतस्तैस्तु सहस्रशः ॥२१॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च महात्मनः ।
तस्योपदेशेन विना न हि सिद्धं चतुष्टयम् ॥२२॥
वेदान् सप्तर्षयस्तस्माज्जगृहुस्तस्य मानसाः ।
पुराणं जगृहुश्चाद्या मुनयस्तस्य मानसाः ॥२३॥
भृगोः सकाशाच्च्यवनस्तेनोक्तञ्च द्विजन्मनाम् ।
ऋषिभिश्चापि दक्षाय प्रोक्तमेतन्महात्मभिः ॥२४॥
दक्षेण चापि कथितमिदमासीत्तदा मम ।
तत्तुभ्यं कथयाम्यद्य कलिकल्मषनाशनम् ॥२५॥
सर्वमेतन्महाभग ! श्रूयतां मे समाधिना ।
यथाश्रुतं मया पूर्वं दक्षस्य गदतो मुने ॥२६॥
प्रणिपत्य जगद्योनिमजमव्ययमाश्रयम् ।
चराचरस्य जगतोधातारं परमं पदम् ॥२७॥
ब्रह्माणमादिपुरुषमुत्पत्ति-स्थिति-संयमे ।
यत्कारणमनौपम्यं यत्र सर्वं प्रतिष्ठितम् ॥२८॥
तस्मै हिरण्यगर्भाय लोकतन्त्राय धीमते ।
प्रणम्य सम्यग्वक्ष्यामि भूतवर्गमनुत्तमम् ॥२९॥
महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम् ।
प्रमाणैः पञ्चभिर्गम्यं स्त्रोतोभिः षड्भिरन्वितम् ॥३०॥
पुरुषाधिष्ठितं नित्यमनित्यमिव च स्थितम् ।
तच्छ्रूयतां महाभाग ! परमेण समाधिना ॥३१॥
प्रधानं कारणं यत्तदव्यक्ताख्यं महर्षयः ।
यदाहुः प्रकृतिं सूक्ष्मां नित्यां सदसदात्मिकाम् ॥३२॥
ध्रुवमक्षय्यमजरममेयं नान्यसंश्रयम् ।
गन्धरूपरसैर्हेनं शब्दस्पर्शविवर्जितम् ॥३३॥
अनाद्यन्तं जगद्योनि त्रिगुणप्रभवाप्ययम् ।
असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्तत ॥३४॥
प्रलयस्यानु तेनेदं व्याप्तमासीदशेषतः ।
गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितान्मुने ॥३५॥
गुणभावात् सृज्यमानात् सर्गकाले ततः पुनः ।
प्रधानं तत्त्वमुद्भूतं महान्तं तत् समावृणोत् ॥३६॥
यथा बीजं त्वचा तद्वदव्यक्तेनावृतो महान् ।
सात्त्विको राजसश्चैव तामसश्च त्रिधोदितः ॥३७॥
ततस्तस्मादहङ्कारस्त्रिविधो वै व्यजायत ।
वैकारिकस्तैजसश्च भूतादिश्च सतामसः ॥३८॥
महता चावृतः सोऽपि यथाव्यरक्तेन वै महान् ।
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकन्ततः ॥३९॥
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।
आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत्ततः ॥४०॥
स्पर्शतन्मात्रमेवेह जायते नात्र संशयः ।
बलवान् जायते वायुस्तस्य स्पर्शगुणो मतः ॥४१॥
वायुश्चापि विकुर्वाणो रुपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४२॥
स्पर्शमात्रस्तु वै वायूरूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥४३॥
सम्भवन्ति ततो ह्यापश्चासन् वै ता रसात्मिकाः ।
रसमात्रन्तु ताह्यापो रूपमात्रं समावृणोत् ॥४४॥
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे ।
सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४५॥
तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ।
अविशेषवाचकत्वादविशेषास्ततश्च ते ॥४६॥
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषतः ।
भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात् ॥४७॥
वैकारिकादहङ्कारात् सत्त्वोद्रिक्तात्तु सात्त्विकात् ।
वैकारिकः स सर्गस्तु युगपत् सम्प्रवर्तते ॥४८॥
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥४९॥
एकादशं मनस्तत्र देवा वैकारिकाः स्मृताः ।
श्रोतं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ॥५०॥
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते ।
पादौ पायुरुपस्थश्च हस्तौ वाक् पञ्चमी भवेत् ॥५१॥
गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यञ्च कर्म तत् ।
आकाशं शब्दमात्रन्तु स्पर्शमात्रं समाविशत् ॥५२॥
द्विगुणो जायते वायुस्तस्य स्पर्शो गुणो मतः ।
रूपन्तथैवाविशतः शब्दस्पर्शगुणावुभौ ॥५३॥
द्विगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् ।
शब्दः स्पर्शश्च रूपञ्च रसमात्रं समाविशत् ॥५४॥
तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः ।
शब्दः स्पर्शश्च रूपञ्च रसो गन्धं समाविशत् ॥५५॥
संहता गन्धमात्रेण आवृण्वंस्ते महीमिमाम् ।
तस्मात् पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते ॥५६॥
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद्धारयन्ति परस्परम् ॥५७॥
भूमेरन्तस्त्विदं सर्वं लोकालोकं घनावृतम् ।
विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः ॥५८॥
गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ।
नानावीर्याः पृथग्भूताः सप्तैते संहतिं विना ॥५९॥
नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ।
समेत्यान्योन्यसंयोगमन्योन्याश्रयिणश्च ते ॥६०॥
एकसङ्घातचिह्नाश्च संप्राप्यैक्यमशेषतः ।
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥६१॥
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।
जलबुद्बुदवत्तत्र क्रमाद्वै वृद्धिमागतम् ॥६२॥
भूतेभ्योऽण्डं महाबुद्धे ! वृहत्तदुदकेशयम् ।
प्राकृतेऽण्डे विवृद्धः सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥६३॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता च भूतानां ब्रह्माग्रे समवर्तत ॥६४॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।
मेरुस्तस्यानुसम्भूतो जरायुश्चापि पर्वताः ॥६५॥
समुदा गर्भसलिलं तस्याण्डस्य महात्मनः ।
तस्मिन्नण्डे जगत् सर्वं सदेवासुरमानुषम् ॥६६॥
दीपाद्यद्रिसमुद्राश्च राज्योतिर्लोकसंग्रहः ।
जलानिलानलाकाशैस्ततो भूतादिना बहिः ॥६७॥
वृतमण्डं दशगुणैरेकेकैकत्वेन तैः पुनः ।
महता तत्प्रमाणेन सहैवानेन वेष्टितः ॥६८॥
महांस्तैः सहितः सर्वैरव्यक्तेन समावृतः ।
एभिरावरणैरण्डं सप्तभैः प्राकृतैर्वृतम् ॥६९॥
अन्योन्यमावृत्य च ता अष्टौ प्रकृतयः स्थिताः ।
एषा सा प्रकृतिर्नित्या यदन्तः पुरुषश्च सः ॥७०॥
ब्रह्माख्यः कथितो यस्ते समासात् श्रू यतां पुनः ।
यथा मग्नो जले कश्चिदुन्मज्जन् जलसम्भवः ॥७१॥
जलञ्च क्षिपति ब्रह्मा स तथा प्रकृतिर्विभु ।
अव्यक्तं क्षेत्रमुदिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥७२॥
एतत्समस्तं जानीयात् क्षेत्रक्षेत्रज्ञलक्षणम् ।
इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ।
अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ॥७३॥
इति श्रीमार्कण्डेयपुराणे ब्रह्मोत्पतिर्नाम पञ्चचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : March 24, 2023
TOP