संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
विंशत्यधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - विंशत्यधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
इति संग्रामसज्जास्ते भूपा भूपसुतस्तथा ।
निराकृताः सुबहुशस्तत्कालं चाप्यविक्षिता ॥१॥
ततो बभूव संग्रामस्तस्य तैः सह दारुणः ।
एकस्य बहुभिर्भूपैर्भूपपुत्रवरैर्मुने ॥२॥
तेऽसिशक्तिगदाबाणपाणयस्तं सुदुर्मदाः ।
अभिघ्नन्तो युयुधिरे तैः समस्तैरसावपि ॥३॥
स ताञ्छरशतैरुग्रैर्बिभेद नृपनन्दनः ।
कृतास्त्रो बलवान्बाणैस्ते च तं बिभिदुः शितैः ॥४॥
कस्यचिच्चिच्छिदे बाहुमन्यस्य च शिरोधराम् ।
हृदि विव्याध चैवान्यमन्यं वक्षस्यताडयत् ॥५॥
करं चिच्छेद करिणस्तुरगस्य तथा शिरः ।
रथस्येषां तथैवाश्वान्रथस्यान्यस्य सारथिम् ॥६॥
बाणानापततश्चक्रे द्विधा बाणैस्तथा द्विषाम् ।
चिच्छेदान्यस्य खड्गं च धनुरन्यस्य लाघवात् ॥७॥
तनुत्रेऽपहृते तेन ननाशान्यो नृपात्मजः ।
अविक्षिताहतश्चान्यः पदातिः प्रजहौ रणम् ॥८॥
इत्याकुलीकृते तस्मिन्समग्रे राजमण्डले ।
तस्थुः सप्तशतं वीरा मरणे कृतनिश्चयाः ॥९॥
आभिजात्यवयःशौर्यलज्जाभारसमन्विताः ।
निर्जिते सकले सैन्ये पलायनपरायणे ॥१०॥
तैः समेत्य महीपालैः स तु पुत्रो महीभृतः ।
युयुधे धर्मयुद्धेन तेन तं नातिकोपितः ॥११॥
विच्छिन्नयन्त्रकवचान्स तानपि महाबलः ।
कर्त्तुं व्यवस्थितस्ते च ततः क्रुद्धा महामुने ॥१२॥
धर्ममुत्सृज्य युयुधुर्युध्यमानेन धर्मतः ।
नरेन्द्रपुत्राः प्रस्वेदजलक्लिन्नाननाः समम् ॥१३॥
विव्याध कश्चिद्बाणौघैः कश्चिच्चिच्छेद कार्मुकम् ।
ध्वजमस्यापरो बाणैश्छित्त्वा भूमावपातयत् ॥१४॥
जघ्नुरन्ये तथैवाश्वान्बभञ्जुश्चापरे रथम् ।
गदापातेनाथ चान्ये बाणैः पृष्ठमताडयन् ॥१५॥
छिन्ने धनुषि सक्रोधः स तदा नृपतेः सुतः ।
जग्राहासिं तथा चर्म तदप्यन्योन्वपातयत् ॥१६॥
च्छिन्नासिचर्मा जग्राह स गदां गदिनां वरः ।
तामप्यन्यः क्षुरप्रेण चिच्छेद कृतहस्तवत् ॥१७॥
अन्ये शरसहस्रेण शतेनान्ये नराधिपाः ।
विव्यधुः कोष्ठकीकृत्य धर्मयुद्धपराङ्मुखाः ॥१८॥
स विह्वलः पपातोर्व्यामेको बहुभिरर्दितः ।
राजपुत्रा महाभागा बबन्धुस्ते च तं ततः ॥१९॥
तमधर्मेण ते सर्वे गृहीत्वा नृपतेः सुतम् ।
विशालेन समं राज्ञा वैदिशं विविशुः परम् ॥२०॥
हृष्टाः प्रमुदिता बद्धं समादाय नृपात्मजम् ।
स्वयंवरा च सा कन्या न्यस्ता तेन ततः पुरः ॥२१॥
पुनः पुनश्च पित्रोक्ता तथापि च पुरोधसा ।
आलम्ब्यतामिति वरो यस्ते राजसु रोचते ॥२२॥
यदा सा मानिनी कञ्चिन्न जग्राह वरं मुने ।
तदा पप्रच्छ दैवज्ञं विवाहार्थं नरेश्वरः ॥२३॥
विशिष्टतरमेतस्या विवाहाय दिनं वद ।
अद्यैतदीदृक्सञ्जातं युद्धं विघ्नोपपादकम् ॥२४॥
मार्कण्डेय उवाच
इति पृष्टो नरेन्द्रेण स दैवज्ञो विमृश्य तत् ।
दुर्मनाः प्राह विज्ञातपरमार्थो महीपतिम् ॥२५॥
भविष्यन्त्यपराणीह दिनानि पृथिवीपते ।
प्रशस्तलग्नयुक्तानि शोभनान्यचिरेण वै ॥२६॥
करिष्यसि विवाहं त्वं तेषु प्राप्तेषु मानद ।
अलमेतेन यत्रायं महाविघ्न उपस्थितः ॥२७॥
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम विंशत्यधिकशततमोऽध्यायः । १२० ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP