संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुःपञ्चाशोऽध्यायः

मार्कण्डेयपुराणम् - चतुःपञ्चाशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


क्रौष्टुकिरुवाच

कतिद्वीपाः समुद्रा वा पर्वता वा कति द्विज ।
कियन्ति चैव वर्षाणि तेषां नद्यश्च का मुने ॥१॥

महाभूतप्रमाणञ्च लोकालोकन्तथैव च ।
पर्यासं परिमाणञ्च गतिञ्चन्द्रार्कयोरपि ॥२॥

एतत् प्रब्रूहि मे सर्वं विस्तरेण महामुने ॥३॥

मार्कण्डेय उवाच

शतार्धकोटिविस्तारा पृथिवी कृत्स्त्रशो द्विज ।
तस्या हि स्थानमखिलं कथयामि शृणुष्व तत् ॥४॥

ये ते द्वीपा मया प्रोक्ता जम्बुद्वीपादयो द्विज ।
पुष्करान्ता महाभाग ! शृण्वेषां विस्तरं पुनः ॥५॥

द्वीपात् तु द्विगुणो द्वीपो जम्बुः प्लक्षोऽथ शाल्मलः ।
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीप एव च ॥६॥

लवणेक्षु-सुरा-सर्पिर्दधि-दुग्धःजलाब्धिभिः ।
द्विगुणैर्द्विगुणैर्वृद्ध्या सर्वतः परिवेष्टिताः ॥७॥

जम्बुद्वीपस्य संस्थानं प्रवक्ष्येऽहं निबोध मे ।
लक्षमेकं योजनानां वृत्तौ विस्तारदैर्घ्यतः ॥८॥

हिमवान् हेमकूटश्च ऋषभो मेरुरेव च ।
नीलः श्वेतस्तथा शृङ्गी सप्तास्मिन् वर्षपर्वताः ॥९॥

द्वौ लक्षयोजनायामौ मध्ये तत्र महाचलौ ।
तयोर्दक्षिणतो यौ तु यौ तथोत्तरतो गिरी ॥१०॥

दशभिर्दशभिर्न्यूनैः सहस्रैस्तैः परस्परम् ।
द्विसाहस्त्रोच्छ्रयाः सर्वे तावद्विस्तारिणश्च ते ॥११॥

समुद्रान्तः प्रविष्टाश्च षडस्मिन् वर्षपर्वताः ।
दक्षिणोत्तरतो निम्ना मध्ये तुङ्गायता क्षितिः ॥१२॥

वेद्यर्धे दक्षिमे त्रीणि त्रीणि वर्षाणि चोत्तरे ।
इलावृतं तयोर्मध्ये चन्द्रार्धाकारवत् स्थितम् ॥१३॥

ततः पूर्वेण भद्राश्वं केतुमालञ्च पश्चिमे ।
इलावृतस्य मध्ये तु मेरुः कनकपर्वतः ॥१४॥

चतुरशीतिसाहस्त्रस्तस्योच्छ्रायो महागिरेः ।
प्रविष्टः षोडशाधस्ताद्विस्तीर्णः षोडशैव तु ॥१५॥

शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
शुक्लः पीतोऽसितो रक्तः प्राच्यादिषु यथाक्रमम् ॥१६॥

विप्रो वैश्यस्तथा शूद्रः क्षत्रियश्च स्ववर्णतः ।
तस्योपरि तथैवाष्टौ पुर्यो दिक्षु यथाक्रमम् ॥१७॥

इन्द्रादिलोकपालानां तन्मध्ये ब्रह्मणः सभा ।
योजनानां सहस्राणि चतुर्दश समुच्छ्रिता ॥१८॥

अयुतोच्छ्रायास्तस्याधस्तथा विषकम्भवर्वताः ।
प्राच्यादिषु क्रमेणैव मन्दरो गन्धमादनः ॥१९॥

विपुलश्च सुपार्श्वश्च केतुपादपशोभिताः ।
कदम्बो मन्दरे केतुर्जम्बुव गन्धमादने ॥२०॥

विपुले च तथाश्वत्थः सुपार्श्वे च वटो महान् ।
एकादशशतायामा योजनानामिमे नगाः ॥२१॥

जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।
आनीलनिषधौ प्राप्तौ परस्परनिरन्तरौ ॥२२॥

निषधः पारियात्रश्च मेरोः पार्श्वे तु पश्चिमे ।
यथा पूर्वौ तथा चैतावानीलनिषधायतौ ॥२३॥

कैलासो हिमवांश्चैव दक्षिणेन महाचलौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥२४॥

शृङ्गवान् जारुधिश्चैव तथैवोत्तरपर्वतौ ।
यतैव दक्षिणे तद्वदर्णप्वान्तर्व्यवस्थितौ ॥२५॥

मर्यादापर्वता ह्येते कथ्यन्तेऽष्टौ द्विजोत्तम ।
हिमवद्धेमकूटादिपर्वतानां परस्परम् ॥२६॥

नवयोजनसाहस्त्रं प्रागुदग्दक्षिणोत्तरम् ।
मेरोरिलावृते तद्वदन्तरे वै चतुर्दिशम् ॥२७॥

फलानि यानि वै जम्ब्वाः गन्धमादनपर्वते ।
गजदेहप्रमाणानि पतन्ति गिरिमूर्धनि ॥२८॥

तेषां स्त्रावात् प्रभवति ख्याता जम्बूनदीति वै ।
यत्र जाम्बूनदं नाम कनकं सम्प्रजायते ॥२९॥

सा परिक्रम्य वै मेरुं जम्बूमूलं पुनर्नदी ।
विशति द्विजशार्दूल ! पीयमाना जनैश्च तैः ॥३०॥

भद्राश्वेऽश्वशिरा विष्णुर्भारते कूर्मसंस्थितिः ।
वराहः केतुमाले च मत्स्यरूपस्तथोत्तरे ॥३१॥

तेषु नक्षत्रविन्यासाद्विषयाः समवस्थिताः ।
चतुर्ष्वपि द्विजश्रेष्ठ ! ग्रहाभिभवपाठकाः ॥३२॥

इति श्रीमार्कण्डेयपुराणे भुवनकोशठजम्बूद्वीपवर्णनंऽ नाम चतुःपञ्चाशोऽध्याय

N/A

References : N/A
Last Updated : March 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP