संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
त्रयोदशाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - त्रयोदशाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


भलन्दनवत्सप्रीचरितवर्णनम्
मार्कण्डेय उवाच
इति तस्या वचः श्रुत्वा पुत्रस्य स च पार्थिवः ।
पुनः प्रोवाच धर्मज्ञस्तां पत्नीं तनयं तथा ॥१॥
यन्मया पितुरादेशात्त्यक्तं राज्यं न तत्पुनः ।
ग्रहीष्यामि वृथोक्तेन किमात्मा क्लिश्यते त्वया ॥२॥
अहं ते सम्प्रदास्यामि करं वैश्यव्रते स्थितः ।
भुङ्क्ष्व राज्यमशेषं त्वमिच्छया वा परित्यज ॥३॥
इत्युक्तः स तदा पित्रा राजपुत्रो भलनन्दनः ।
चकार राज्यं धर्मेण तद्वद्दारपरिग्रहम् ॥४॥
अव्याहतं तस्य चक्रं पृथिव्यामभवद्द्विज ।
न चाधर्मे मनो भूपास्तस्य सर्वेऽभवन्वशे ॥५॥
तेनेष्टो विधिवद्यज्ञः सम्यक्शास्ति वसुन्धराम् ।
स एवैकोऽभवद्भर्त्ता पृथिव्यामरिशासनः ॥६॥
अजायत सुतस्तस्य वत्सप्रीरिति नामतः ।
पितातिशयितो येन गुणौघेन महात्मना ॥७॥
तस्यापि भार्या सौनन्दा विदूरथसुताऽभवत् ।
पतिव्रता महाभागा सा प्राप्ता तेन शौर्यतः ॥
हत्वा पुरन्दररिपुं कुजंभं दितिजेश्वरम् ॥८॥
क्रौष्टुकिरुवाच
भगवंस्तेन सम्प्राप्ता कुजृंभनिधनात्कथम् ।
एतदाख्यानमाख्याहि प्रसन्नेनान्तरात्मना ॥९॥
मार्कण्डेय उवाच
विदूरथोनाम नृपः ख्यातकीर्तिरभूद्भुवि ।
तस्य पुत्रद्वयं जातं सुनीतिः सुमतिस्तथा ॥१०॥
एकदा तु वनं यातो मृगयां स विदूरथः ।
ददर्श गर्तं सुमहद्भूमेर्मुखमिवोद्गतम् ॥११॥
तं दृष्ट्वा चिन्तयामास किमेतदिति भैरवम् ।
पातालविवरं मन्ये नैतद्मूमेश्चिरन्तनम् ॥१२॥
चिन्तयन्निति तत्रासौ ददर्श विजने वने ।
ब्राह्मणं सुव्रतं नाम तपस्विनमुपागतम् ॥१३॥
स तं पप्रच्छ च नृपः किमेतदिति विस्मितः ।
अतिगम्भीरमवनेर्दर्शितान्तर्गतोदरम् ॥१४॥
ऋषिरुवाच
किन्न वेत्सि महीपाल वागर्थस्त्वं हि मे मतः ।
ज्ञेयं सर्वं नरेन्द्रेण वर्तते यन्महीतले ॥१५॥
दानवः सुमहावीर्यो वसत्युग्रो रसातले ।
स जृम्भयति यत्पृथ्वीं कुजृम्भः प्रोच्यते ततः ॥१६॥
क्रियते तेन यत्किञ्चिद्रत्नभूतं महीतले ।
त्रिदिवे वा नरपते तं कथं वेत्ति नो भवान् ॥१७॥
सुनन्दं नाम मुशलं त्वष्ट्रा यन्निर्मितं पुरा ।
तज्जहार स दुष्टात्मा तेन हन्ति रणे रिपून् ॥१८॥
पातालान्तर्गतस्तेन भिनत्ति वसुधामिमाम् ।
ततोऽसुराणां सर्वेषां द्वाराणि कुरुतेऽसुरः ॥१९॥
तेन भिन्नात्र वसुधा सुनन्दमुशलेन तु ।
भोक्ष्यते वसुधामेतां तमजित्वा कथं भवान् ॥२०॥
यज्ञान्विध्वंसयत्युग्रो देवानामुपरोधकः ।
आप्याययति दैतेयान्स बली मुशलायुधः ॥२१॥
यद्यरिं घातयस्येनं पातालान्तरगोचरम् ।
ततः समस्तवसुधापतिस्त्वं परमेश्वरः ॥२२॥
मुशलं तस्य बलिनः सौनन्दं प्रोच्यते जनैः ।
तथा बलाबलं चैव तं वदन्ति विचक्षणाः ॥२३॥
तत्तु निर्वीर्यतां याति संस्पृष्टं योषिता नृप ।
तस्मिन्दिने द्वितीयेऽह्नि वीर्यवत्तदुदीर्यते ॥२४॥
न स वेत्ति दुराचारः प्रभावं मुशलस्य तम् ।
योषित्कराग्रसंस्पर्शे दोषं वीर्यविशातनम् ॥२५॥
एवं तस्य बलं भूप दानवस्य दुरात्मनः ।
मुशलस्य च ते प्रोक्तं यद्युक्तं तत्समाचर ॥२६॥
आसन्नमेतद्भवतः पुरस्य पृथिवीपते ।
कृतं तेन महारन्ध्रं निश्चिन्तः किं भवान्वृथा ॥२७॥
इत्युक्त्वा तु गते तस्मिन्पुरं गत्वा महीपतिः ।
मन्त्रयामास मन्त्रज्ञैः पुरमध्ये तु मन्त्रिभिः ॥२८॥
यथाश्रुतमशेषं तत्कथयामास मन्त्रिणाम् ।
मुशलस्य प्रभावं च वीर्यशातनमेव च ॥२९॥
तं मन्त्रं क्रियमाणं तु मन्त्रिभिस्तेन भूभृता ।
तत्पार्श्ववर्तिनी कन्या शुश्रावाथ मुदावती ॥३०॥
ततः कतिपयाहे तु तां कन्यां वयसान्विताम् ।
जहारोपवनाद्दैत्यः कुजृम्भः स सखीवृताम् ॥३१॥
तच्छ्रुत्वा स महीपालः क्रोधपर्याकुलेक्षणः ।
पुत्रावुवाच त्वरितं गच्छतं वनकोविदौ ॥३२॥
निर्विन्ध्यायास्तटे गर्तस्तेन गत्वा रसातलम् ।
स हन्यतां योऽपहर्ता मुदावत्याः सुदुर्मतिः ॥३३॥
मार्कण्डेय उवाच
ततस्तौ तत्सुतौ प्राप्य तं गर्त्तं तत्पदानुगौ ।
युयुधाते कुजृम्भेण स्वसैन्येनातिकोपितौ ॥३४॥
ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ।
बाणैश्चाविरतं युद्धं तेषामासीत्सुदारुणम् ॥३५॥
ततो मायाबलवता तेन दैत्येन तावुभौ ।
राजपुत्रौ रणे बद्धौ निहताशेषसैनिकौ ॥३६॥
तच्छ्रुत्वा स महीपालः प्राहेदं सर्वसैनिकान् ।
बद्धपुत्रः परामार्तिमुपेतो मुनिसत्तम ॥३७॥
यस्तं निहत्य दैतेयं मोचयिष्यति मे सुताम् ।
तस्याहं सम्प्रदास्यामि तामेवायतलोचनाम् ॥३८॥
इत्येवं घोषयांचक्रे स राजा स्वपुरे तदा ।
निराशः पुत्रतनयाबन्धमोक्षाय वै मुने ॥३९॥
ततः शुश्राव वत्सप्रीर्भलन्दनसुतो हि तत् ।
आघोष्यमाणं बलवान्कृतास्त्रः शौर्यसंयुतः ॥४०॥
स चागम्याभिवाद्यैनं प्राह पार्थिवसत्तमम् ।
विनयावनतो भूत्वा पितुर्मित्रमनुत्तमम् ॥४१॥
आज्ञापयाशु मामेव तनयौ मोचयामि ते ।
तवैव तेजसा हत्वा तं दैत्यं तनयां च ते ॥४२॥
मार्कण्डेय उवाच
स तं मुदा परिष्वज्य प्रियसख्युरथात्मजम् ।
गम्यतामिति संसिद्ध्यै वत्सेत्याह स पार्थिवः ॥४३॥
स्थाने स्थास्यति मे वत्सो यद्येवं कुरुते विधिम् ।
वत्सैतत्क्रियतामाशु यद्युत्साहि मनस्तव ॥४४॥
मार्कण्डेय उवाच
ततः सखड्गः सधनुर्बद्धगोधाङ्गुलित्रवान् ।
जगाम वीर पातालं तेन गर्तेन सत्वरः ॥४५॥
ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवात्मजः ।
येन पातालमखिलमासीदापूरितान्तरम् ॥४६॥
ततो ज्यास्वनमाकर्ण्य कुजृम्भो दानवेश्वरः ।
आजगामातिकोपेन स्वसैन्यपरिवारितः ॥४७॥
ततो युद्धमभूत्तस्य तेन पार्थिवसूनुना ।
ससैन्यस्य ससैन्येन बलिनो बलशालिना ॥४८॥
दिनानि त्रीणि स यदा योधितस्तेन दानवः ।
ततः कोपपरीतात्मा मुसलायाभ्यधावत ॥४९॥
गन्धैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ।
अन्तःपुरे महाभाग प्रजापतिविनिर्मितः ॥५०॥
ततो विज्ञातमुशलप्रभावा सा मुदावती ।
पस्पर्श मुशलश्रेष्ठमतिनम्रशिरोधरा ॥५१॥
पुनर्यावत्स गृह्णाति मुशलं तं महासुरः ।
तावत्सा वन्दनव्याजात्पस्पर्शानेकशः शुभा ॥५२॥
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ।
व्यर्था मुशलपातास्ते संजग्मुस्तेषु शत्रुषु ॥५३॥
परमास्त्रे तु निर्वीर्ये सौनन्दे मुशले मुने ।
अस्त्रैः शस्त्रैश्च दैतेयः सोऽयुध्यत रणेऽरिणा ॥५४॥
शस्त्रास्त्रैर्नः समस्तस्य राजपुत्रस्य सोऽसुरः ।
मुशलेन बलं तस्य तच्च तन्व्या निराकृतम् ॥५५॥
ततः पराजित्य स भूपसूनुरस्त्राणि शस्त्राणि च दानवस्य ।
चकार सद्यो विरथं ततश्च सचर्मखड्गः पुनरप्यधावत् ॥५६॥
तमापतन्तं रभसाऽभ्युदीर्णं विस्पष्टकोपं त्रिदशेन्द्रशत्रुम् ।
शस्त्रेण वह्नेर्भुवि राजपुत्रौ जघान कालानलसप्रभेण ॥५७॥
स पावकास्त्रेण हृदि क्षतो भृशं तत्याज देहं त्रिदशारिरात्मनः ।
बभूव सद्यश्च महोरगाणां रसातलान्तेषु महानथोत्सवः ॥५८॥
ततोऽपतत्पुष्पवृष्टिर्महीपालसुतोपरि ।
जगुर्गन्धर्वपतयो देववाद्यानि सस्वनुः ॥५९॥
स चापि राजपुत्रस्तं हत्वा तौ नृपतेः सुतौ ।
मोचयामास तन्वङ्गी तां च कन्यां मुदावतीम् ॥६०॥
तच्चापि मुसलं तस्मिन्कुजृम्भे विनिपातिते ।
जग्राह नागाधिपतिरनन्तः शेषसंज्ञितः ॥६१॥
तस्याश्च परितुष्टोऽसौ शेषः सर्वोरगेश्वरः ।
मुदावत्या मुदाध्यातमनोवृत्तिस्तपोधनः ॥६२॥
सुनन्दमुसलस्पर्शं यच्चकार पुनः पुनः ।
योषित्करतलस्पर्शप्रभावज्ञातिशोभना ॥६३॥
मुदावत्यास्ततो नाम नागराजस्तदाकरोत् ।
सुनन्दामिति सानन्दं सौनन्दगुणजं द्विज ॥६४॥
स चापि राजपुत्रस्तां भ्रातृभ्यां सहितां पितुः ।
समीपमानिनायाशु प्रणिपत्याह चैव तम् ॥६५॥
आनीतौ तनयौ तात तथैवेयं मुदावती ।
तवाज्ञया मयान्यद्यत्कर्तव्यं तत्समादिश ॥६६॥
मार्कण्डेय उवाच
ततः प्रहर्षसम्पूर्णहृदयः स महीपतिः ।
साधुसाध्वित्यथाहोच्चैर्वत्स वत्सेति शोभनम् ॥६७॥
सभाजितोऽस्मि त्रिदशैर्वत्साहं कारणैस्त्रिभिः ।
त्वं जामाता च यत्प्राप्तो यच्चारिर्विनिपातितः ॥६८॥
आगतान्यक्षतान्यत्र यच्चापत्यानि मे पुनः ।
तद्गृहाणाद्य शस्तेऽह्नि पाणिमस्या मयोदितम् ॥६९॥
त्वं राजपुत्र चार्वङ्ग्याः कन्याया दुहितुर्मम ।
मुदावत्या मुदा युक्तः सत्यवाक्यं कुरुष्व माम् ॥७०॥
राजपुत्र उवाच
तातस्याज्ञा मया कार्या यद्ब्रवीषि करोमि तत् ।
त्वमेव तात जानीषे नैवात्राधिकृता वयम् ॥७१॥
मार्कण्डेय उवाच
ततस्तयोः स राजेन्द्रश्चक्रे वैवाहिकं क्रमम् ।
मुदावत्याश्च दुहितुर्भलन्दनसुतस्य वै ॥७२॥
ततः स तया रेमे वत्सप्रीर्नवयौवनः ।
रमणीयेषु देशेषु प्रासादशिखरेषु च ॥७३॥
कालेन गच्छता वृद्धः पिता तस्य भलन्दनः ।
वनं जगाम वत्सप्रीः स बभूव महीपतिः ॥७४॥
इयाज यज्ञान्सततं प्रजा धर्मेण पालयन् ।
पुत्रवत्पाल्यमानास्तु प्रजास्तेन महात्मना ॥७५
ववृधुर्विषये तस्य न चाभूद्वर्णसङ्करः ।
न दस्युव्यालदुर्वृत्तभयमासीच्च कस्यचित् ॥
नोपसर्गभयं चैव तस्मिञ्छासति भूपतौ ॥७६॥
इति श्रीमार्कण्डेयपुराणे भलन्दनवत्सप्रीचरितं नाम त्रयोदशाधिकशततमोऽध्यायः । ११३ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP