पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
इति ब्रुवाणं राजर्षिं कश्चिदृग्वेदपारगः ॥
वेदांतविज्ज्ञानशीलो द्विजो वाक्यं मुदा जगौ ॥१॥
अहो तवायं खलु भाग्यराशिर्येनाविरासीद्भुवि दारुमूर्तिः ॥
यस्यात्युपास्तिं श्रुतिराह मुक्तिप्रदामनात्मज्ञविमोहितानाम् ॥२॥
य एष प्लवते दारुः सिंधोः पारे ह्यपौरुषम् ॥
तमुपास्य दुराराध्यं मुक्तिं यांति सुदुर्लभाम् ॥३॥
ब्रह्मज्ञाननिधिः साक्षान्नारदः प्रत्युवाच यत् ॥
न हि वेदांतवचसोऽपरस्माज्ज्ञानमस्य वै ॥४॥
न हि प्रवृत्तिर्विष्णोस्तु विना वेदं प्रवर्तते ॥
परेषां स्वस्य वा सृष्टौ श्रुतिप्रामाण्यवान्प्रभुः ॥५॥
विना श्रुतिं प्रवर्तेच्चेत्कस्तत्प्रामाण्यमृच्छति ॥
तस्माच्छ्रुतिप्रसिद्धोऽयमवतारोऽत्र भूपते ॥६॥
वेदांतवेद्यं पुरुषं गीतं तं सामगीतिषु ॥
प्रतिमां न तु जानीहि निःश्रेयसकरं नृणाम् ॥७॥
दर्शनादेव नः शांतं सुदृढं तम उत्तमम् ॥
संत्येव श्रुतयः पूर्वमेतदर्चाप्रकाशिकाः ॥८॥
एतदर्चा प्रशस्ता वै सदर्थे विनियोजिता ॥
अहो भारतवर्षस्था मनुष्याः क्षीणकल्मषाः ॥९॥
अपवर्गप्रदो येषामाविरासीज्जनार्दनः ॥
तत्राप्ययं चोढ्रदेशः सर्वेषामुत्तमोत्तमः ॥१०॥
यत्रस्थाश्चर्मनेत्रेण पश्यंति ब्रह्मरूपिणम् ॥
श्रुतिस्मृतीनां गहनः पंथा कर्मभिराकुलः ॥११॥
येन याता भ्रमंतीह घटीयंत्रवदाकुलाः ॥
निर्व्यलीकपदप्राप्तिहेतुरेष स चिन्मयः ॥१२॥
श्रुत्यादिभिर्विनोपायैः परमानंदमुक्तिदः ॥
निरंतरगतायातदुःस्थितानां दुरात्मनाम् ॥१३॥
एष दारुवपुर्विष्णुः सुखदाता सुबांधवः ॥
श्रुतिस्मृत्युक्तनियमा वर्तंते नेह पार्थिव ॥१४॥
यथा तथा दृष्टिपथमाचांडालाद्विमुक्तिदः ॥
अभक्तश्चेदमुं पश्येद्गतानुगतिको नरः ॥१५॥
अश्वमेधसहस्राणां फलं ह्यविकलं लभेत् ॥
भजेच्चेन्नियमस्थो हि भक्तिमान्दृढमानसः ॥१६॥
असंशयं स सायुज्यं ब्रह्मणा लभते नरः ॥
क्व दुःखायासबहुलमनायासविनश्वरम् ॥१७॥
अचिरस्थं क्षुद्रफलं पुनरावृत्तिलक्षणम् ॥
क्वेदं दारुमयं ब्रह्म पापराशिदवानलम् ॥१८॥
सच्चिदानंदकैवल्यमुक्तिदं दर्शनादपि ॥
वेदानुवचनादीनि दुष्कराणि दुरात्मनाम् ॥१९॥
महात्मभिस्तैर्यत्प्राप्यं तदव्यग्रमयं ददेत् ॥
अन्यक्षेत्रेषु भगवान्सुदूरो मर्त्यवासिनाम् ॥२०॥
स्वक्षेत्रेऽस्मिन्निवसति नित्यं मुक्तिप्रदो विभुः ॥
अस्मादत्र महाभाग तिष्ठ स्वबलपौरुषः ॥२१॥
विद्वत्तमोऽसि भक्तश्च सांगोपांगममुं भज ॥२२॥
॥ जैमिनिरुवाच ॥
द्विजस्य तद्वचः श्रुत्वा नारदो हृष्टमानसः ॥
साधूक्तं द्विजवर्येण श्रौतमार्गानुसारिणा ॥२३॥
सृष्ट्यादौ ब्रह्मनिश्वासैरभवद्वेदसंहतिः ॥
तत्रोपनिषदर्थोऽयं सांप्रतं व्यक्तिमागतः ॥२४॥
वेत्त्येतदर्थं भगवान्पद्मयोनिः प्रजापतिः ॥
अज्ञासिषं च भूपाल सांप्रतं तन्मुखादहम् ॥२५॥
तस्याज्ञया कृतं सर्वं यथाभिलषितं तव ॥
एनमाराध्य तिष्ठात्र याम्यहं ब्रह्मणोंऽतिकम् ॥२६॥
कृतं निवेदयिष्यामि प्रकाशं च मुरद्विषः ॥
प्रासादं कुरु भूपाल धनेन महता तथा ॥२७॥
प्रासादे नरसिंहं तु प्रतिष्ठाप्य विमुच्यसे ॥२८॥
॥ जैमिनिरुवाच ॥
तच्छ्रुत्वा स तु भूमींद्रः प्रत्युवाच मुनिं तदा ॥
महर्षेऽहं त्वया सार्द्धं यियासुर्ब्रह्मणोंऽतिकम् ॥२९॥
यत्प्रसादाज्जगन्नाथश्चकेऽयं लोचनातिथिः ॥
निवेद्य तं च प्रासादं प्रतिष्ठार्थं मुरद्विषः ॥३०॥
विज्ञापयिष्ये सान्निध्ये प्रासादस्थापनोत्सवम् ॥
यथा स्वयं समागम्य ब्रह्मलोकात्पितामहः ॥३१॥
महोत्सवं भगवतः प्रासादेऽत्र करिष्यति ॥
तन्मुने मामपि विधेः संनिधिं प्रापयस्व च ॥३२॥
गर्भप्रतिष्ठां प्रासादे समाप्येह स्थितो मुने ॥
पश्चादावां गमिष्यावः कंचित्कालं प्रतीक्ष मे ॥३३॥
ततः स नृपतिः सर्वाञ्छिल्पशास्त्रविशारदान् ॥
पाषाणखंडघटनाकर्मण्येकैकयोगतः ॥३४॥
सत्कारैर्दानमानैश्च योजयामास सादरम् ॥
दिने दिने सुघटितः प्रासादो ववृधे द्विजाः ॥३५॥
परितः पूर्यमाणस्तु शुक्लपक्षे यथा शशी ॥
एवं संवर्ध्यमानोऽपि प्रासादः परिवर्द्धितः ॥३६॥
महोच्छ्रयत्वादल्पेन न कालेनाभिलक्ष्यते ॥
पाषाणसंख्या शक्या वा कथंचिद्घटनाक्रमात् ॥३७॥
वित्तव्ययस्तु कोटीनां न संख्यातुं च शक्यते ॥
यावन्तो भारते वर्षे लोकाः समयवर्तिनः ॥३८॥
इन्द्रद्युम्नस्य नृपतेर्नियुक्तास्ते महीभृतः ॥
एकैकशो नियुक्ता ये परस्परसमन्विताः ॥३९॥
तेऽपि चान्यैर्नियुक्तास्ते सर्वे तत्र प्रवर्तिताः ॥
अजस्रं तन्नियुक्तानां यो हर्षोत्थो महारवः ॥४०॥
आकाशमश्नुवानोऽसौ दिशां भागानपूरयत् ॥
नृपतेः श्रद्धया भक्त्या सात्त्विकेन प्रसादिता ॥४१॥
श्रीः समृद्धाभवद्विप्राः कीर्त्या सह महीपतेः ॥
क्वचित्कांचनविन्यस्तनानारत्नमहोज्ज्वलः ॥४२॥
क्वचित्स्फटिकभागांतशारदाभ्रनिभच्छविः ॥
क्वचिन्नीलाश्मघटिता भित्तिः कालाभ्रमेदुरा ॥४३॥
एवं सुघटिते विष्णोः प्रासादे सुमनोहरे ॥
गर्भप्रतिष्ठां विधिवत्कृत्वा स नृपसत्तमः ॥४४॥
वज्रपातादिभंगादिवारणार्थं यथोचितम् ॥
शिल्पशास्त्रेषु मण्यादि विन्यस्य पौरुषाहृतम् ॥४५॥
पुनः प्रासादघटनासंभारोचितमेव वै ॥
बहुमूल्यं वस्तुजातं यत्नात्तत्र न्यवेशयत् ॥४६॥
ततो विरच्यमानेऽस्मिन्प्रासादे कीर्तिवर्द्धने ॥
मनसापि न संभाव्ये त्रिषु लोकेषु भूभुजाम् ॥४७॥
देवानामपि नो लक्ष्ये द्विजाः कल्पांतवासिनाम् ॥
प्रासाद ईदृशो भूमौ क्वचिच्च घटितो न हि ॥४८॥
स्वर्गे वा इत्थमादित्या आलपंति परस्परम्॥
अहो सुबुद्धिरस्योच्चैर्येयमीदृक्परीणता ॥४९॥
श्रद्धया भगवत्पादपद्मयोः साभिलाषिणी ॥
अलौकिकानि कर्माणि पश्यंति हि रचंत्यपि ॥५०॥
के वात्र भूमौ राजानो बभूवुर्नीतिशालिनः ॥
सार्वभौमास्तु साम्राज्यजेतारः सर्वविद्विषाम् ॥५१॥
वित्तानि यैः संचितानि सुबहूनि च कोटिशः ॥
अश्वमेधसहस्रं तु यत्कृतं त्रिदिवेशितुः ॥५२॥
शक्यं वा स्याद्भूभुजां तु नातः पूर्वमनुष्ठितम्॥
न दृष्टं न श्रुतं वापि वाजिमेधसहस्रकम्॥५३॥
महीक्षितानुष्ठितं वै यत्र त्रैलोक्य वासिनः॥
पृथिव्यामस्य नृपतेः सहस्था भोगभोगिनः॥५४॥
ब्रह्मलोक इवाभाति सभ यस्य च यज्विनः॥
मूर्तिमंतस्त्रयो वेदाश्चतुष्पादो वृषस्तथा ॥५५॥
सुराः संकल्पकामास्तु यत्राद्भुतधियोऽभवन् ॥
अयं प्रासादवर्यो वै बुद्धेर्विषयतां गतः ॥५६॥
मनोऽपि यत्र भवति न वा त्रैलोक्यवासिनाम् ॥
भूपतेर्दुर्लभं किं स्यात्सहायो यस्य नारदः ॥५७॥
पितामहश्च जगतां स्रष्टा सर्वामरेश्वरः ॥
अथवा विष्णुभक्तस्य नातिदूरं चिकीर्षितम् ॥५८॥
विष्णोस्तद्भक्तलोकस्य नांतरं विद्यते द्विजः ॥
ततः स नारदं प्राह प्रासादांते मुनीश्वरम् ॥५९॥
सर्वं सपन्नमासीन्मे यदशक्यं सुरासुरैः ॥
साक्षाद्भगवतो विष्णोरद्वैतोपासनारतः ॥६०॥
भगवद्वपुराभाषि प्रासादस्तु चिरं मयि ॥
इत्युक्त्वा पादयोर्मूर्ध्ना प्रणनाम स नारदम्॥ ६१॥
नारदोऽपि तमुत्थाप्य परिपूज्य नृपोत्तमम्॥
त्वत्तो न भेदो नृपते ममास्ति खलु तत्त्वतः॥६३॥
यस्तु साक्षाज्जगन्नाथ आविर्भूतः कृतेन वा॥
अवश्यमर्चयस्वैनं जीवन्मुक्तोऽसि सांप्रतम्॥६३॥
तत्पादपद्मे यादृक्ते चेतः प्र प्रवणतान्वितम्॥
भक्त्या ह्यनन्यया पुंसः किमतः परमस्ति वै॥६४॥
तीर्थैर्मंत्रैर्जपैर्दानैः क्रतुभिर्भूरिदक्षिणैः॥
व्रतैरध्ययनैर्भूप तपोभिश्च यदर्जितुम्॥ ६५॥
न शक्यं तव राजेन्द्र भक्त्या तत्करमागतम् ॥
अतः परं न शोचस्व भक्तियोगे नमोऽस्तु ते ॥६६॥
प्रकर्षं बहुराजेंद्र स्थित्वा चास्मिंश्चिरं भुवि ॥
आराधय जगन्नाथमुपचारैर्महोत्सवैः ॥६७॥
पितामहं द्रष्टुकामो गंता चेदंतिकं विभोः ॥
उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ॥६८॥
स्वयं च भगवानेव वरं तुभ्यं प्रदास्यति ॥
प्रतिष्ठापिते प्रासादे तस्मिन्काले स्वयंभुवा ॥६९॥
अहमप्यागमिष्यामि तदा सप्तर्षिभिः सह ॥
तदावां तत्र गच्छावो ब्रह्मलोकमकल्मषम् ॥७०॥
त्वां विना भुवि कः शक्तो ब्रह्मलोकगतिं प्रति ॥
इत्युक्त्वा नारदो भूपं समुत्तस्थौ नभस्तलम् ॥७०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : October 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP