संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
मृगराशिं संक्रमति यदा भास्वान्द्विजोत्तमाः ॥
उत्तराशां जिगमिषुस्तदा स्यादुत्तरायणम् ॥१॥
तस्य संक्रमणार्द्धं च यावत्स्युर्विंशतिः कलाः ॥
महापुण्यतमः कालः पितृदेवद्विजप्रियः ॥२॥
तत्र स्नात्वा विधानेन र्तार्थराजजले नरः ॥
नारायणं समभ्यर्च्य कल्पवृक्षं प्रणम्य च ॥३॥
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणाम्॥
मन्त्रराजेन संपूज्य देवं श्रीपुरुषोत्तमम् ॥४॥
तथा बलं सुभद्रां च स्वमन्त्रेण प्रपूजयेत् ॥
दृष्ट्वोत्तरायणे देवं मुच्यते देहबन्धनात् ॥५॥
विधानं तस्य वक्ष्याभि शृणुध्वं पावनं महत् ॥
संक्रांतेः पूर्वदिवसे नवां शालिं सुकुट्टिताम् ॥६॥
प्रासादपूर्वदेशे च स्थापयित्वाधिवासयेत् ॥
नवेन वाससावेष्ट्य दूर्वासर्षपपुष्पकैः ॥७॥
पूजयित्वा मन्त्रयेद्वै कृष्णस्त्वामभिरक्षतु ॥
तस्मिन्नेव निशायामे व्यतीते जगदीशितुः ॥८॥
प्रत्यर्चां सन्निधौ नीत्वा भावयेदेकताधिये ॥
उपचारावशिष्टाभ्यां पूजयेद्वै समाहितः ॥९॥
ततो निर्माल्यवसनमालामस्यां निधापयेत् ॥
महासमृद्ध्या तामर्चां त्रिर्देवान्भ्रामयेत्ततः ॥१०॥
आंदोलिकायामारोप्य प्रासादद्वारमानयेत् ॥
त्रिविक्रमं त्रिक्रमेण त्रैलोक्यक्रमणं विभुम् ॥११॥
विडंबयंतं तां लीलां प्रासादं भ्रामयेच्च तम् ॥
त्रिरंते पुनरंके च सुसमृद्ध्या शनैःशनैः ॥१२॥
दीपिकाशतसंरुद्धतमसोवरणांतरे ॥
छत्रध्वजपताकाभिर्नृत्यवादित्रगीतकैः ॥१३॥
तद्दर्शनपरिक्षीणपातकानां महात्मनाम् ॥
न च चिह्नं शरीरेऽस्य नवांगे भ्रमणं ततः ॥१४॥
अनुयांति तदा ये तं महे यांतं त्रिविक्रमम् ॥
लभंते वाजिमेधस्य फलं ते वै पदे पदे ॥१५॥
प्रथमभ्रमणं दृष्ट्वा मुच्यते पञ्चपातकैः ॥
मलिनीकरणैर्मुच्येद्द्वितीयं भ्रमणं द्विजाः ॥१६॥
अपात्रीकरणैर्दृष्ट्वा तृतीयं भ्रमणं ध्रुवम् ॥
उपपातकपापैश्च चतुर्थं मुच्यते ततः ॥१७॥
पुनः प्रभाते देवेशं प्रलिंपेद्गन्धचन्दनैः ॥
वस्त्रालंकारमाल्यैश्च भूषयित्वा यथाविधि ॥१८॥
पूजयेदुपचारैस्तं यथाशक्ति समृद्धिमत् ॥
नीराजयित्वा देवेशं तंदुलानधिवासितान्  १९॥
स्थालीषु शातकुंभासु दधिखंडाज्यमिश्रितान् ॥
सनारिकेलशकलाच्छृंगवेर दलान्वितान् ॥२०॥
प्रासादं त्रिः परिभ्रम्य नयेद्देवसमीपतः ॥
पंक्तिशः स्थापयेदग्रे गन्धपुष्पाक्षतान्वितान् ॥२१॥
जीवनं सर्वभूतानां जनकस्त्वं जगत्प्रभो ॥
त्वन्मयाः शालयो ह्येते त्वयैव जनिताः प्रभो ॥२२॥
लोकानुग्रहणार्थाय गृहीतोचितविग्रह ॥
तव प्रीत्यै कृतानेतान्गृहाण परमेश्वर ॥२३॥
त्वयि तुष्टे जगत्सर्वमनेन प्रभविष्यति ॥
स्वाहाकारस्वधाकारवषट्कारा दिवौकसाम् ॥२४॥
आप्यायना भविष्यंति तैरेवाप्यायितं जगत् ॥
रक्ष सर्वं जगन्नाथ त्वन्मयं सचराचरम् ॥२५॥
इति संप्रार्थ्य देवेशं शालिस्तंबान्निवेदयेत् ॥
तन्मयान्भक्षभोज्यांश्च दधिकुंभान्सुगंधिनः ॥२६॥
कर्पूरखंडमरिचचूर्णयुक्तान्निवेदयेत् ॥
ब्राह्मणान्पूजयेद्भक्त्या देवदेवपुरःस्थितान् ॥२७॥
तेभ्यः प्रदद्याद्भक्त्या ताञ्छाल्यादीन्भगवद्धिया ॥
इमं महोत्सवं विप्राः पुरा कल्पे च कश्यपः ॥२८॥
स च सृष्टिं विनिर्माय भगवत्प्रीतयेऽकरोत् ॥
ये पश्यन्त्युत्सवं चैनं कश्यपेन विनिर्मितम् ॥२९॥
सर्वदा सर्वकामैस्ते पूर्णाः शोचंति न द्विजाः ॥
उषित्वा त्रिदशैः सार्द्धं कल्पांते मोक्षमाप्नुयुः ॥३०॥
महानसस्य संस्कारं वह्नेः संस्कारमेव च ॥
अत्रापि कुर्यान्मुनयो वैश्वदेवं दिनेदिने ॥३१॥
आधानसंस्कृते वह्नौ भगवद्भुक्तये रमा ॥
प्रत्यहं पाकमाधत्ते दिव्यरूपा तिरोहिता ॥३२॥
अस्मिन्महापुण्यतम उत्सवे परमात्मनः ॥
तुलापुरुषदानादि कोटिकोटिगुणं भवेत्॥ ३३॥
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
सर्वमक्षयतां याति ह्युत्सवे चोत्तरायणे ॥३४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये मकरसंक्रमविधिवर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : October 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP