संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|पुरुषोत्तमजगन्नाथमाहात्म्यम्|

पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
अत ऊर्ध्वं प्रवक्ष्यामि महावेदीमहोत्सवम् ॥
अज्ञानतिमिरांधोऽपि येन भास्वत्पदं व्रजेत् ॥१॥
वैशाखस्यामले पक्षे तृतीया पापनाशिनी ॥
स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता ॥२॥
तस्यां संकल्प्य नृपतिराचार्यं वरयेच्छुचिः ॥
एकं त्रीनथ तक्षाणं दृष्टकर्माणमादरात्॥३॥
वृणुयाद्वनयागाय वस्त्रालंकरणादिभिः ॥
तक्ष्णा सार्द्धं वनं गत्वा साधुवृक्षगणाकुलम् ॥४॥
तन्मध्ये वह्निमाधाय मंत्रराजेन मंत्रवित्॥
अष्टोत्तरशतं हुत्वा संपाताज्यविमिश्रितम् ॥५॥
आज्यं तरूणां मूले तु प्रत्येकमभिघारयेत् ॥
दिक्पालेभ्यो बलिं दत्त्वा क्षेत्रपालपशूंस्तथा ॥६॥
वनस्पतये जुहुयात्क्षीरोदनशताहुतिम् ॥
ततः परशुमादाय वृक्षमूलेषु दिक्षु वै ॥७॥
आज्यसंस्कृतिदेशेषु आचार्यो मंत्रमुच्चरन् ॥
किंचित्किंचिच्छेदयेद्वै चिंतयन्गरुडध्वजम् ॥८॥
नदत्सु तूर्यघोषेषु गीतमंगलवादिषु ॥
नियोज्य वर्द्धकिं तत्र आचार्यः स्वगृहं व्रजेत् ॥९॥
अथवा स्थान लब्धानि दारूणि रथकर्मणि ॥
उक्तसंस्कारविधिना संस्कुर्यात्कल्पितेनले ॥१०॥
आरभेत रथं कृत्वा विघ्रराजमहोत्सवम् ॥
षोडशारैः षोडशभिश्चक्रैर्लोहमयैर्दृढैः ॥११॥
युक्तं विष्णो रथं कुर्याद्दृढाक्षं दृढकूबरम् ॥
विचित्रघटनाकक्षपुत्तलीपरिवेष्टितम् ॥१२॥
नानाविचित्रबहुलमिक्षुखण्डविराजितम्॥
चतुस्तोरणसंयुक्तं चतुर्द्वारं सुशोभनम् ॥१३॥
नानाविचित्रबहुलं हेमपट्टविराजितम् ॥
द्वाविंशतिकरोच्छ्रायं पताकाभिरलंकृतम् ॥१४॥
गारुडं च ध्वजं कुर्याद्रक्तचंदननिर्मितम् ॥
दीर्घनासं स्थूलदेहं कुण्डलाभ्यां विभूषितम् ॥१५॥
चंच्वग्रदष्टभुजगं सर्वालंकारभूषितम् ॥
वितत्य पक्षती व्योम्नि उड्डीयंतमिवोदितम् ॥१६॥
दैत्यदानवसंघस्य बलदर्पविनाशनम् ॥
सर्वांगं तस्य कनकैराच्छाद्य परिशोभयेत् ॥१७॥
रथमेव हरेः कुर्यात्स्वासनं सुपरिष्कृतम् ॥
चतुर्दशरथांगैस्तं रथं कुर्याच्च सीरिणः ॥१८॥
चक्रैर्द्वादशभिः कुर्यात्सुभद्राया रथोत्तमम् ॥
सप्तच्छदमयं कुर्यात्सीरिणो लांगलध्वजम् ॥१९॥
देव्याः पद्मध्वजं कुर्यात्पद्मकाष्ठविनिर्मितम् ॥
विरचय्य रथान्राजा प्रतिष्ठां पूर्ववच्चरेत् ॥२०॥
यथामन्त्रं यथाशास्त्रं विश्वसेद्ब्राह्मणेषु च ॥
ब्राह्मणा जगदीशस्य जंगमास्तनवः स्मृताः ॥२१॥
इत्थं सुघटितं चक्रित्रयं देवत्रयस्य वै ॥
आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे ॥२२॥
प्रतिष्ठाप्य समृद्धेन विधिना पूर्ववद्विजाः ॥
रक्षणीयं तथा तत्र नारोहेत्कश्चनाशुभः ॥२३॥
पक्षी वा मानुषो वापि मार्जारनकुलादयः ॥
ततो दिनत्रयादर्वाग्रथानामुत्तरे कृते ॥२४॥
मण्डपे उत्सवांगे वा प्रकुर्यादंकुरार्पणम् ॥
अद्भुतेष्वथ जातेषु शांतिं कुर्यात्पुरोदिताम् ॥२५॥
रथ्या सुसंस्कृता कार्या महावेदीं यथा व्रजेत् ॥
पार्श्वयोर्मंडलं कुर्यात्पथि गुल्मादिभिः फलैः ॥२६॥
सुमनस्तबकैर्माल्यैर्दुकूलैश्चामरैस्तथा ॥
यथा सुपुष्पितारण्यराजी तत्र विराजते ॥२७॥
भूमिः समा च कार्या वै निष्पंका सुखचारणा ॥
निर्मला च सुगन्धा च सुदूराद्वर्जितोत्करा ॥२८॥
धूपपात्राण्यनुपदं दिगामोदकराणि च ॥
चंदनांभः परिक्षेपो यंत्रपातोत्करस्तथा ॥२९॥
बहूनि ऋतुपुष्पाणि पुष्पवृष्ट्यर्थमेव हि ॥
नटनर्त्तकमुख्याश्च गायना बहवस्तथा ॥३०॥
वेश्या यौवनगर्वाढ्याः रूपालंकारभूषिताः ॥
मृदंगा पणवाश्चैव भेरीढक्कादयस्तथा ॥३१॥
बहवो बहुधा तत्र पताकाश्चित्रितांतराः ॥
ध्वजाश्च बहवस्तत्र स्वर्णराजतनिर्मिताः ॥३२॥
वैजयंत्यो बहुविधा भूमिगा वाहनास्तथा ॥
हस्तिनश्च हयाश्चैव सुसन्नद्धाः स्वलंकृताः ॥३३॥
एवं संभृतसंभारः क्षितिपालः शुचिव्रतः ॥
मुदा भक्त्या च परया युक्तः कुर्यान्महोत्सवम् ॥३४॥
आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ॥
अरुणोदयवेलायां तस्यां देवं प्रपूजयेत् ॥३५॥
ब्राह्मणैर्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः ॥
विज्ञापयेद्देवदेवं यात्रायै संस्कृतांजलिः ॥३६॥
इन्द्रद्युम्नं क्षितिभुजं यथाज्ञासीः पुरा विभो ॥
विजयस्व रथे नाथ गुंडिचामण्डपं प्रति ॥३७॥
तवापांगविलोकेन प्रपुनंतु दिशो दश ॥
निःश्रेयसपदं यांतु स्थावराणि चराणि च ॥३८॥
अवतारः कृतो ह्येष लोकानुग्रहकाम्यया ॥
तदेहि भगवन्प्रीत्या चरणं न्यस्य भूतले ॥३९॥
ततः कर्पूरचूर्णैश्च सुमनोभिरवाकिरेत् ॥
पथि शाकुनसूक्तानि प्रपठंति द्विजातयः ॥४०॥
केचिन्मंगलगाथाश्च केचिज्जय जयेति च ॥
जितं त इति मन्त्रं वै केचिदुच्चैर्जपंति च ॥४१॥
सूतमागधमुख्याश्च कीर्तिं पुण्यां मुदा जगुः ॥
स्वर्णदंडप्रकीर्णानां श्रेणी चोभयपार्श्वयोः ॥४२॥
लीलयांदोलयंति स्म रणत्कंकणमंजुलम् ॥
स्वर्णपात्रपरिक्षिप्तकृष्णागुरुसुधूपितैः ॥४३॥
सुरभीकृतसर्वाशा मुखे व्योमांगणे तथा ॥
चर्चरीझर्झरीवेणुवीणामाधुरिकादयः ॥
शब्दायंते सुमधुरं गोविंदविजयांतरे ॥४४॥
एवं प्रवृत्ते समये कृष्णं रामपुरःसरम्॥
नयंति विप्रा भद्रां च क्षत्रियाश्च विशस्तथा ॥४५॥
छत्रमाला समुदिता मुक्तास्रक्चीनतोरणा ॥
रत्नध्वजा हेमदंडाः पार्श्वयोर्मुरवैरिणः ॥४६॥
राजा चतुर्विधा वर्णा अन्ये ये च पृथग्जनाः ॥
दीना महांतश्च तदा समानास्तत्र भांति वै ॥४७॥
सलीलचरणन्यासं तूलिकास्तरणेषु तान् ॥
वासयंतः क्वचित्छांता देवांस्ते रथमन्वियुः ॥४८॥
महोत्सवं समासाद्य गीतकोलाहलानि च ॥
करे कृत्वा जगन्नाथं भ्रामयित्वा रथोत्तमम् ॥४९॥
रामं कृष्णं सुभद्रां च रथमध्ये निवेशयेत् ॥
चारुचंद्रातपाढ्येन मंडपेन विराजिते ॥५०॥
किंकिणीमालिकाभिश्च माल्यचामरभूषिते ॥
ससारकृष्णागुरुजधूपपूरितगर्भके ॥५१॥
ततस्तान्वासयित्वा तु तूलिकासु सुरोत्तमान् ॥
भूषयेद्विविधैर्भक्त्या वस्त्रालंकार माल्यकैः ॥५२॥
पूजयेदुपचारैस्तैः समृद्धैर्भक्तिभावितैः ॥
नातः परतरं विष्णोर्यात्रांतरमवेक्ष्यते ॥५३॥
यत्र स्वयं त्रिलोकेशः स्यंदनेन कुतूहलात् ॥
मानयन्पूर्वमाज्ञां तां वर्षे वर्षे व्रजेदसौ ॥५४॥
रथस्थितं व्रजंतं तं महावेदीमहोत्सवे ॥
ये पश्यंति मुदा भक्त्या वासस्तेषां हरेः पदे ॥५५॥
सत्यं सत्यं पुनः सत्यं प्रतिजाने द्विजोत्तमाः ॥
नातः श्रेयः परं विष्णोरुत्सवः शास्त्रसंमतः ॥५६॥
यथा रथविहारोऽयं महावेदीमहोत्सवः ॥
यत्रागत्य दिवो देवाः स्वर्गं यांत्यधिकारिणः ॥५७॥
किं वच्मि तस्य माहात्म्यमुत्सवस्य मुरद्विषः ॥
यस्य संकीर्तनात्पापं नश्येज्जन्म शतोद्भवम् ॥५८॥
महावेदीं व्रजंतं तं रथस्थं पुरुषोत्तमम् ॥
बलभद्रं सुभद्रां च जन्मकोटिसमुद्भवम् ॥५९॥
दृष्ट्वा पापं नाशयति नात्र कार्या विचारणा ॥
रथच्छायां समाक्रम्य ब्रह्महत्या व्यपोहति ॥६०॥
तद्रेणुसंसक्तवपुस्त्रिविधां पापसंहतिम् ॥
नाशयेत्स्वर्गगंगायाः स्नानजं फलमाप्नुयात् ॥६१॥
घनांबुवृष्टियोगेन रथमार्गे तु पंकिले ॥
दिव्यदृष्ट्या च कृष्णस्य समस्तमलहारिणि ॥६२॥
तत्र ये प्रणिपातांस्तु कुर्वते वैष्णवोत्तमाः ॥
अनादिव्यूढपंकांस्ते हित्वा मोक्षमवाप्नुयुः ॥६३॥
गवां कोटिप्रदानस्य कन्यानामयुतस्य च ॥
वाजिमेधसहस्रस्य फलं प्राप्नोत्यसंशयः ॥६४॥
अनुगच्छंति कृष्णं ये यात्राकौतूहलादपि ॥
अनुव्रजंति नित्यं वै देवाः शक्रपुरोगमाः ॥६५॥
पश्यंति ये रथं यांतं दारुब्रह्म सनातनम् ॥
पदे पदेऽश्वमेधस्य फलं तेषां प्रकीर्तितम् ॥६६॥
वेदैः स्तुवंति वेदानां वक्तारो मोक्षदायिनम्॥
इतिहासपुराणाद्यैः स्तोत्रैर्वापि स्वयंकृतैः ॥६७॥
स्तुवंति पुंडरीकाक्षं ये वै विगतकल्मषाः ॥
वैष्णवं योगमास्थाय मोदंते नारदादिभिः ॥६८॥
कुर्वंति वासुदेवाग्रे जयशब्देन वा स्तुतिम् ॥
ते वै जयंति पापानि विविधानि न संशयः ॥६९॥
लयतालानभिज्ञोपि गीतमाधुर्यवर्जितः ॥
नर्त्तनं कुरुते वापि गायत्यथ नरोत्तमः॥
वैष्णवोत्तमसंसर्गान्मुक्तिं प्राप्नोत्यसंशयः ॥७०॥
नामानि कीर्तयन्नस्य तेन याति सहैव यः ॥
अनुव्रज्यात्तत्फलं वै प्राप्नोत्यत्र न संशयः ॥७१॥
जय कृष्ण जय कृष्ण जय कृष्णेति यो वदेत् ॥
गुंडिचानगरं यांतं कृष्णं भक्तिसमन्वितः ॥
न मातृगर्भवासस्य स च दुःखमवाप्नुयात् ॥७२॥
चामरैर्व्यजनैः पुष्पस्तबकैर्नीलचोलकैः॥
रथस्याग्रस्थितो यो वै वीजयेत्पुरुषोत्तमम्॥७३॥
स वीज्यमानोप्सरोभिर्गंधर्वैरुपशोभितः॥
अनुव्रजद्भिस्त्रिदशैर्महेंद्रासनसंस्थितः ॥७४॥
भुनक्ति भोगानतुलान्यावदाभूतसंप्लवम् ॥
तदंते च ब्रह्मलोकं प्राप्य मुक्तिमवाप्नुयात् ॥७५॥
कृष्णस्य पुरतो ये वै पुष्पवृष्टिं प्रकुर्वते ॥
ते वै मनोगतान्सर्वान्प्राप्नुवंति मनोरथान् ॥७६॥
सहस्रनामभिः पुण्यैः पर्यटंति रथं तु ये ॥
तेषां प्रदक्षिणं कुर्युस्त्रिदशानतकंधराः ॥७७॥
वसंति वैकुण्ठगृहे विष्णुतुल्यपराक्रमाः ॥७८॥
तस्मिन्काले महापुण्ये देवर्षिपितृसेविते ॥
एकं ब्रह्म त्रिधाभूतं माययानुगतं स्वया ॥७९॥
साक्षाद्दारुस्वरूपेण महावेदीमहोत्सवम्॥८०॥
रथारूढः कौतुकवान्यत्रयाति जगत्प्रभुः॥
तस्मिन्काले पृथिव्यां तु चरेत्तत्र महोत्सवम् ॥८१॥
देवा अप्युत्सवे तस्मिन्पुरुहूतपुरोगमाः ॥
अभिमानं परित्यज्य श्रेणीभूता हि पार्श्वयोः ॥८२॥
प्रकुर्वते महायात्रां तैस्तैर्दिव्यैः परिच्छदैः ॥८३॥
तेषामग्रेसरस्तत्र देवोपि प्रपितामहः ॥
चतुर्दशानां जगतां कर्त्ता यः परमेश्वरः ॥८४॥
सोऽपि तत्र जगन्नाथं रथे यांतं महोत्सवे ॥
ब्रह्मलोकात्परावृत्य स्तुवन्वेदमयैः स्तवैः ॥
पदे पदे प्रणमति भगवंतं सनातनम् ॥८५॥
यद्यप्यब्जनिधेः कृष्णान्न भेदोऽस्ति तथाप्ययम् ॥
महोत्सवस्य महिमा यत्र सर्वेऽनुयायिनः ॥८६॥
नातः परतरो लोके महावेदीमहोत्सवात् ॥
सर्वपापहरो योगः सर्वतीर्थफलप्रदः ॥८७॥
कृष्णमुद्दिश्य यस्तत्र दानं ददाति वै नरः ॥
यत्किंचिदक्षयफलं मेरुदानेन तत्समम् ॥८८॥
तस्याग्रे देवदेवस्य व्रजतो गुंडिचालयम् ॥
यत्किंचित्कुरुते कर्म तत्तदक्षयमश्नुते ॥८९॥
उपायनानि नाना वै भक्ष्यभोज्यानि चैव हि ॥
समर्पयंति देवाय तत्प्रीत्यै वा द्विजन्मने ॥
तेषामक्षयपुण्यानि सर्वकामप्रदानि च ॥९०॥
हरेरग्रेसरा ये वै पश्यंतस्तन्मुखांबुजम् ॥
पदे पदे नमंतश्च पंकधूलिपरिप्लुताः ॥९१॥
विहाय पाप कवचमभेद्यं कोटिजन्मभिः ॥
क्षणान्मुक्तिफलं प्राप्य यांति विष्णोः शुभालयम् ॥९२॥
सर्वक्रतूनां तीर्थानां दानानां यांति ते फलम् ॥
भगवद्भक्तिभावानां नातः पुण्यतमो महः ॥९३॥
एवं स भगवान्कृष्णः सुभद्रारामसंगतः ॥
व्रजन्स्यंदनश्रेष्ठस्थो द्योतयंश्च चतुर्दिशः ॥९४॥
श्रीमदंगोपसृष्टेन मरुता सर्वदेहिनाम् ॥
पापानि नाशयञ्छ्रीमान्दयालुर्भक्तभावनः ॥९५॥
अज्ञानामप्यविश्वासभाजां विश्वासहेतवे ॥
निसर्गमुक्तिदोऽप्येष यात्रारंभान्करोति वै ॥९६॥
व्रजन्समृद्ध्या देवानां मर्त्यानां च जनार्दनः ॥
सूर्ये ललाटं तपति मध्याह्ने मार्गमध्यतः ॥९७॥
श्रांता कर्षजनस्तस्थौ म्लायन्वै तद्रजोवृतः ॥
तत्रातपस्य शांत्यर्थं दर्पणेष्वभिषेचयेत् ॥९८॥
पंचामृतैः शीततोयैः पुष्पकर्पूरवासितैः ॥
चामरैश्च जलार्द्रांतैः शीतलैर्व्यजनैस्तथा ॥९९॥
वीजयेत्पुण्डरीकाक्षं सुभद्रां राममेव च ॥
शीतैश्च पानकैर्हद्यैस्तथा खण्डविकारकैः ॥१००॥
खर्जूरैर्नारिकेलैश्च नानारंभाफलैस्तथा ॥
तथा क्षीरविकारैश्च पनसैस्तृणराजकैः ॥१॥
इक्षुभिः स्वादुहृद्यैश्च फलैर्नानाविधैस्तथा ॥
वासितैः शीततोयैश्च पक्वतांबूलपत्रकैः ॥२॥
सकर्पूरलवंगाद्यैः पूजयेत्पुरुषोत्तमम् ॥३॥
तस्मिन्काले द्विजश्रेष्ठा ये पश्यंति जनार्दनम् ॥
पूजयंति यथाशक्ति न ते संसारजं श्रमम् ॥४॥
प्राप्नुवंति द्विजश्रेष्ठा ब्रह्मलोकनिवासिनः ॥५॥
रथत्रयस्थितं देवत्रयं ये पुरुषर्षभाः ॥
प्रदक्षिणं प्रकुर्वंति त्रिश्चतुः सप्त एव वा ॥६॥
दशप्रणामान्कृत्वांते स्थिताः प्रांजलयोऽग्रतः ॥
पुरारथस्थितान्ब्रह्मा स्तुतिभिर्याभिरब्जभूः ॥७॥
तुष्टाव ताभिर्देवेशं स्तुवंति परमेश्वरम् ॥
ये नरा ब्रह्मलोकं ते प्रयांति नियतं द्विजाः ॥८॥
ततोऽपराह्णे देवेशं दक्षिणानिलवीजितम् ॥
शनैः शनैर्नयेद्गीतैवेंणुवीणादिनादितैः ॥९॥
बंदिनः स्तुतिपाठैश्च कलैर्मधुरिकास्वनैः ॥
निरंतरैः पुष्पवर्षैश्चामरांदोलनैस्तथा ॥११०॥
एवं व्रजति देवेशे सूर्यश्चास्तंगतो भवेत् ॥
दीपिकानां सहस्राणि ज्वालितानि सहस्रशः ॥१११॥
तदालोकप्रकाशेन मार्गशेषश्च नीयते ॥
रथावरोहणेनैषां मण्डपारोहणेन च ॥११२॥
संमर्दः सुमहांस्तत्र दिदृक्षूणां कुतूहलात् ॥
मण्डपे वासयेद्देवं गुण्डिचाख्ये मनोहरे ॥११३॥
चारुचंद्रातपे चारुमाल्यचामरभूषिते ॥
रत्नस्तंभमये स्वर्णवेदिकोपस्कृतांतरे ॥११४॥
प्राचीरवलयावीते सुधालेपसमुज्ज्वले ॥
साधुसोपानघटिते चतुर्द्वारोपशोभिते ॥११५॥
त्रैलोक्यांडबरयुते महावेद्यां महाक्रतोः ॥
प्रादुर्भावो महेशस्य यत्राभूद्दारुवर्ष्मणः ॥११६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये गुंडिचायात्राकथनंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : October 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP