पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ जैमिनिरुवाच ॥
अतः परं प्रवक्ष्यामि यात्रामक्षयमोक्षदाम् ॥
अनायासेन मूढानां वासनाबद्धचेतसाम् ॥१॥
वैशाखस्यामले पक्षे द्वितीयारात्रिमध्यतः ॥
मण्डपं च चतुष्कोणं सुधालिप्तं सवेदिकम् ॥२॥
सुधौतवाससा कुर्यात्प्रतिसीरासमं ततः ॥
साधुसोपानसंयुक्तं चारुचंद्रातपान्वितम्॥ ३॥
तन्मध्ये विन्यसेन्नूनं साधु भद्रासनोत्तमम् ॥
तस्मिन्निचोलसंछन्ने विन्यसेत्स्वर्णभाजनम् ॥४॥
तस्य पश्चिमभागे वै स्वासीनो ब्राह्मणः शुचिः ॥
पात्रांतरे तु गृह्णीयाच्चंदनं पचविंशतिम् ॥५॥
सुपिष्टं कृष्णस्नेहस्य गृह्णीयाच्च पलाधिकम् ॥
अगुर्वर्द्धं कुंकुमं स्यात्कुंकुमार्द्धं च सिह्लकम् ॥६॥
कस्तूरिकाकर्पुरयोः प्रमाणं सिह्लसंमितम् ॥
सर्वमेकत्र संपिष्यात्पाटलोद्भववारिणा ॥७॥
पलद्वयं ततो दद्यादगुरुस्नेहमुत्तमम् ॥
एकत्र लोडितां कृत्वा पूर्वपात्रे निधापयेत् ॥८॥
आच्छाद्य केतकीपत्रैर्वेष्टयेच्चीनवाससा ॥
गन्धस्ते सोममंत्रेण रक्षेद्गरुडमुद्रया ॥९॥
एवं तु मण्डपे तस्मिन्साधिवासं निधापयेत् ॥
अरुणोदयकालेऽथ नयेत्कृष्णस्य सन्निधिम् ॥१०॥
शंखचामरछत्राद्यैर्भ्रामयित्वा सुरालयम् ॥
देवाग्रे स्थापयित्वा च पूजयेत्पुरुषोत्तमम् ॥११॥
उद्धाटयेत्ततो वस्त्रे दिव्यदृष्ट्यावलोकयेत् ॥
प्रोक्षितं मंत्रराजेन संकुर्यात्ताडनादिभिः ॥१२॥
गंधपुष्पाक्षतैः पूज्यः श्रियः सूक्तेन लेपयेत् ॥
श्रीशस्य सर्वगात्रेषु मृदुस्पर्शं शनैः शनैः ॥१३॥
वैष्णवा जयशब्दैस्तं वर्द्धयंति तदा हरिम् ॥
नानासूक्तोपनिषदैर्विद्वांसस्तं स्तुवंति वै ॥१४॥
वेणुवीणादिकैर्नृत्यगीतवाद्यैरनेकशः ॥
व्यजनैश्चामरैच्छत्रैरन्यैर्नानोपहारकैः ॥१५॥
संतोषयञ्जगन्नाथं तृतीयादौ विलेपयेत् ॥
यस्य चिंतनमात्रेण तापा नश्यंति देहिनाम् ॥१६॥
सोऽसौ संदर्शनात्तापान्नृणां हंति तदा द्विजाः ॥
अचिन्त्यो महिमा विष्णोरीदृक्तादृक्तया सदा ॥१७॥
ततः सूक्ष्मांबरैर्माल्यैर्भक्ष्यभोज्यादिपानकैः ॥
द्रव्यैर्नानाविधैर्हृद्यैर्गव्यैरावर्तितैः शुभैः ॥१८॥
ततः संपूजयेद्देवं तांबूलैश्च सुसंस्कृतैः ॥
तस्मिन्काले तु ये कृष्णं भक्त्या पश्यंति मानवाः ॥१९॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
विष्णोः स्वरूपमासाद्य विष्णुलोके वसंति वै ॥२०॥
पुरा कलियुगे विप्रा दक्षो नाम प्रजापतिः ॥
आध्यात्मिकादिसंतापैः सुदीनान्वीक्ष्य मानवान् ॥२१॥
तत्र गत्वा कृपायुक्तो महिमानं चकार वै ॥
यथाविधि मया प्रोक्तं स एव प्रथमं द्विजाः ॥२२॥
प्रलिप्य चन्दनेनांगे माधवामलपक्षके ॥
तृतीयायां जगन्नाथं स्तुतिमेतां मुदा जगौ ॥२३॥
॥ दक्ष उवाच ॥
देवदेव जगन्नाथ सहजानंदनिर्मल ॥
संसारार्णवसंमग्नांस्त्राहि नः परमेश्वर ॥२४॥
नानाविधैश्च संतापैः संतप्तान्मानवानिमान् ॥
ममानुक्रोशबुद्ध्या वै शुभदृष्ट्याऽमृतेन च ॥२५॥
संतर्पय तृणाञ्छुष्कान्कृष्ण मेऽघ नमोऽस्तुते ॥
कलिकल्मषसंमूढानुद्धर्तुं जगतां पते ॥२६॥
अवतारोऽयमेतस्मिन्नीलाचलगुहांतरे ॥
चिरकालप्ररूढानां दुस्त्यजानां महांहसाम् ॥२७॥
राशिं दग्धुं त्वमेवेशो दीनानाथकृपाकर ॥
त्वद्दर्शनमहायोगे यमाद्यष्टांगवर्जिते ॥२८॥
येषां मतिः समुत्पन्ना चतुर्वर्गैकसाधने ॥
न ते शोचंति दुष्पारे भवारण्ये महाभये ॥२९॥
कर्मानपेक्षं देवेश नात्मज्ञानं विमोचकम् ॥
इदं ते दर्शनं नाथ विना कर्मापि मोचयेत् ॥३०॥
जय कृष्ण जयेशान जयाक्षर जयाव्यय ॥
प्रसीदानुगृहाणेमान्दीनान्मूढान्विचेतसः ॥३१॥
इति स्तुत्वा दंडपातं पपात चरणांबुजे ॥
प्रसीदेश प्रसीदेश प्रसीदेशेति घोषयन् ॥३२॥
ततो जगाद भगवान्सुस्वरेण प्रजापतिम् ॥
उत्तिष्ठ वत्स ते दत्तं दुर्लभं यद्वरं त्वया ॥३३॥
कांक्षितं मत्प्रसादेन भविष्यति न संशयः ॥
मदनुग्रहोऽल्पपुण्यानां दुर्लभो विदितस्तव ॥३४॥
मदंगजातोऽस्ति भवान्मां त्वं प्रार्थितवानसि ॥
ममोत्सवेन सन्तोष्य ततस्ते प्रददाम्यहम् ॥३५॥
इमामक्षययात्रां ये भक्त्या पश्यंति हर्षिताः ॥
तस्मिन्काले यदिच्छंति मनसा तदवाप्नुयुः ॥३६॥
यथा संतापहरणं चन्दनेनानुलेपनम् ॥
तथोत्सवोऽयं मे दक्ष संतापत्रयनाशनः ॥३७॥
मत्प्रेरितमतिस्त्वं हि उत्सवं कृतवानसि ॥
संकल्पितोऽयं मनसा दीनोद्धृत्यै मया ध्रुवम् ॥३८॥
त्वयाभिकाक्षितं सर्वं दास्याम्येव प्रजापते ॥
द्वादशैता महायात्रा गुण्डिचाद्यास्तु पावनाः ॥३९॥
एकैका मुक्तिदा सर्वा धर्मकामार्थवर्द्धनाः ॥४०॥
तासामेकतमां वापि यो भक्त्या चावलोकयेत् ॥
एकयापि भवाब्धिं स तीर्त्वा विष्णुपदं व्रजेत् ॥४१॥
॥ जैमिनिरुवाच ॥
इत्युदीर्य प्रजानाथं भगवान्स तिरोदधे ॥४२॥
दक्षः प्रजापतिः सोऽपि श्रद्दधानस्तदाज्ञया ॥
संवत्सरं गिरौ स्थित्वा संददर्श महोत्सवान् ॥४३॥
सर्वज्ञो ब्राह्मणो भूत्वा कौशिकस्य कुलोत्तमे ॥
लोकान्प्रवर्तयामास यथाविधि महेषु सः ॥४४॥
विश्वासायाल्पबुद्धीनां यात्रा वै परिकीर्तिताः ॥
अयं च साक्षात्परमब्रह्मरूपी जगद्गुरुः ॥
प्रसादितः सुरेशेन लोकानुग्रहणाय वै ॥४५॥
यथा तथा दृष्टिपथं यातो मुक्तिप्रदो धुवम् ॥
सर्वान्कामान्ददात्येव नारीणां नात्र संशयः ॥४६॥
सत्यप्रतिज्ञो भगवांस्तत्रास्ते मधुसूदनः ॥
शोकं तरति यं दृष्ट्वा भवपाथोधिसंभवम् ॥
किं व्रतैः किं तपोदानैः किं कृच्छ्रैः क्रतुभिस्तथा ॥४७॥
किमष्टांगेन योगेन किं सांख्येन परेण च ॥४८॥
तीर्थराजजले स्नात्वा क्षेत्रे श्रीपुरुषोत्तमे ॥
न्यग्रोधमूलवसतौ वसन्तं चर्मचक्षुषा ॥
दृष्ट्वा दारुमयं ब्रह्म देहबंधात्प्रमुच्यते ॥४९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्चत्वारिंशोऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : October 28, 2024
TOP