मार्गशीर्षमासमाहात्म्यम् - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच ॥
त्वयोक्तो विधिसंयुक्तो मार्गशीर्षो मदापनः ॥
को विधिस्तस्य देवेश सर्वं मे ब्रूहि केशव ॥१॥
॥श्रीभगवानुवाच ॥
रात्रावन्ते समुत्थाय उपस्पृश्य यथाविधि ॥
नमस्कृत्या गुरुं स्वीयं संस्मरेन्मामतंद्रितः ॥२॥
सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ॥
बहिर्ग्रामात्समुत्सृज्य मलमूत्रं यथाविधि ॥३॥
शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ॥
दंतधावनपूर्वं च स्नानं कृत्वा यथाविधि ॥४॥
आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ॥
मूलमंत्रेणाऽभिमंत्र्य गायत्र्या वा महामते ॥५॥
मंत्रेणैवाऽनुलिप्तांगः स्नायादप्स्वघमर्षणम् ॥
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं विधीयते ॥६॥
तीर्थं प्रकल्पयेद्विद्वान्मन्त्रेणाऽनेन मन्त्रवित् ॥
ॐनमो नारायणायेति मूलमन्त्र उदाहृतः ॥७॥
दर्भपाणिस्तु विधिना आचांतः पुरतः शुचिः ॥
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ॥
प्रकल्प्याऽऽवाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः ॥८॥
विष्णुपादप्रसूताऽसि वैष्णवी विष्णुदेवता ॥
त्राहि नस्त्वमघादस्मादाजन्ममरणांतिकात् ॥९॥
तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् ॥
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि ॥१०॥
नंदिनीत्येव ते नाम देवेषु नलिनीति च ॥
दक्षपुत्री च विहगा विश्वगा योगिनां मता ॥११॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ॥
क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी ॥१२॥
एतानि पुण्यनामानि स्नानकाले सदा पठेत् ॥
सदा संनिहिता तत्र गंगा त्रिपथगामिनी ॥१३॥
सप्तवाराभिजप्तेन करसंपुटयोजितम् ॥
मूर्ध्ना कृतांजलिर्भूयस्त्रिचतुः पंच सप्त वा ॥
स्नानं कुर्यान्मृदा तद्वदामंत्र्याऽनुविधानतः ॥१४॥
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुन्धरे ॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥१५॥
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ॥
नमस्ते सर्वभूतानां प्रभवाऽरणि सुव्रते ॥१६॥
एवं स्नात्वा ततः पश्चादाचम्य च विधानतः॥
उत्थाय वाससी शुक्ले कूले वै परिधाय च ॥१७॥
आचम्य तर्पयेद्देवान्पितॄंश्चैव ऋषींस्तथा ॥
निष्पीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ॥१८॥
विमलां मृत्तिकां रम्यामादाय द्विजसत्तम ॥
मन्त्रेणैवाऽभिमंत्र्याऽथ ललाटादिषु वैष्णवः ॥
धारयेदूर्ध्वपुण्ड्राणि यथासंख्यमतंद्रितः ॥१९॥
ब्रह्मन्द्वादशपुण्ड्राणि ब्राह्मणः सततं वहेत् ॥
चत्वारि भूभृतां पुत्र पुण्ड्राणि द्वे विशां स्मृते ॥
एकं पुंड्रं च नारीणां शूद्राणां च विधीयते ॥२०॥
ललाट उदरे चैव वक्षो वै कण्ठकूबरे ॥
कुक्ष्योर्बाह्वोः कर्णयोश्च पृष्ठे त्रिके च वै शिरः ॥
तिलका द्वादश प्रोक्ता ब्राह्मणस्य सदाऽनघ ॥२१॥
ललाटे हृदि बाह्वोश्च क्षात्रः पुंड्राणि धारयेत्॥
ललाटे हृदये वैश्यो भाले वै शूद्रयोषिताम्॥२२॥
ललाटे केशवं ध्यायेन्नारायणमथोदरे॥
वक्षःस्थले माधवं च गोविंदं कण्ठकूबरे॥२३॥
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ॥
त्रिविक्रमं कर्णमूले वामनं वामपार्श्वके ॥२४॥
श्रीधरं वामबाहौ च हृषीकेशं च कर्णके ॥
पृष्ठे तु पद्मनाभः स्यात्त्रिके दामोदरं न्यसेत्॥२५॥
तत्प्रक्षालनतोयेन वासुदेवं तु मूर्धनि॥
एवं कार्यं ब्राह्मणस्य क्षत्रियस्योपधारयेत्॥२६॥
ललाटे केशवं ध्यायेद्धृदये माधवं तथा ॥
बाह्वोश्च उभयोर्वत्स स्मरेद्वै मधुसूदनम् ॥२७॥
क्षत्रियस्य विधिः प्रोक्तो वैश्यकृत्यं निशामय ॥
ललाटे केशवं ध्यायेद्धृदये माधवं तथा ॥२८॥
योषिच्छूद्रौ स्मरेतां च केशवं भालदेशके ॥
अनेन विधिना कुर्यात्पुंड्राणि मम तुष्टये ॥२९॥
श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं तथा ॥
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम्॥३०॥
एकांतिनो महाभागाः सर्वलोकहिते रताः ॥
सांऽतरालं प्रकुर्वंति पुण्ड्रं हरिपदाकृतिम् ॥३१॥
मध्ये छिद्रेण संयुक्तमेतद्धि हरिमंदिरम् ॥
ऊर्ध्वं सौम्यमृजुं सूक्ष्मं सुपार्श्वं सुमनोहरम्॥ ३२॥
निरंतरालं यः कुर्यादूर्ध्वपुंड्रं द्विजाऽधमः ॥
स हि तत्र स्थितं लक्ष्म्या सह मां च व्यपोहति ॥३३॥
अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति द्विजाधमाः ॥
तैर्ललाटे शुनः पादं निक्षिप्तं वै न संशयः ॥३४॥
तस्माच्छिद्रान्वितं पुंड्रं महच्छिद्रं शुभान्वितम् ॥
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये ॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये त्रिपुंड्रधारणविधिकथनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP