मार्गशीर्षमासमाहात्म्यम् - अध्याय ८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच॥
श्रीमत्तुलसिमाहात्म्यं यथावद्वर्णय प्रभो ॥
यस्याः सन्निधिमात्रेण प्रीतिर्भवति तेऽधिका ॥१॥
॥ श्रीभगवानुवाच ॥
मणिकांचनपुष्पाणि तथा मुक्तामयानि च ॥
तुलसीपत्रदानस्य कलां नार्हंति षोडशीम् ॥२॥
तुलसीमंजरीभिर्यः कुर्याद्वै मम पूजनम् ॥
न स गर्भगृहं यायान्मुक्तिभागी भवेन्नरः ॥३॥
आरोप्य तुलसीं वत्स पूजयेत्तद्दलैश्च माम् ॥
दिवि संमोदमानः स श्वेतद्वीपे च मे गृहे ॥४॥
श्रीमत्तुलस्यार्चयते सकृद्धि मां पत्रैः सुगन्धैर्विमलैरखंडितैः ॥
यस्तस्य पापं पटसंस्थितं तदा निरीक्षयित्वा परिमार्जयेद्यमः ॥५॥
तुलसी न येषां मम पूजनार्थं संपादितैकादशिपुण्यवासरे ॥
धिग्यौवनं जीवितमर्थसन्ततिस्तेषां सुखं नेह च दृश्यते परे ॥६॥
लिंगमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम् ॥
तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ॥७॥
नित्यमभ्यर्चयेद्यो वै तुलस्या मां रमेश्वरम् ॥
महापापानि नश्यंति किं पुनश्चोपपातकम् ॥८॥
वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम् ॥
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम् ॥९॥
तावद्गर्जंति पुष्पाणि मालत्यादीनि भोः सुत ॥
यावन्न प्राप्यते पुण्या तुलसी मम वल्लभा ॥१०॥
सकृदभ्यर्चयेद्यो मां बिल्वपत्रेण मानवः ॥
मुक्तिभागी निरातंको मम पार्श्वगतो भवेत् ॥११॥
बिल्वपत्राच्छमीपत्राज्जातीपत्रात्सरोरुहात् ॥
वल्लभं तुलसीपत्रं कौस्तुभादधिकं मम॥१२॥
अभिन्नपत्रा तुलसी हृद्या मंजरिसंयुता ॥
क्षीरोदार्णवसंभूता पद्मेवेयं सदा मम ॥१३॥
अकृष्णाऽप्यथवा कृष्णा तुलसी मम वल्लभा ॥
सिता वाऽप्यसिता वापि द्वादशी वल्लभा यथा  ॥१४॥
गृहीत्वा तुलसीपत्रं भक्त्या यो मां समर्चयेत् ॥
अर्चितं तेन सकलं सदेवासुरमानुषम् ॥१५॥
तावद्गर्जंति रत्नानि कौस्तुभादीन्यनन्तशः ॥
यावन्न प्राप्यते कृष्ण तुलसीकृष्णमंजरी ॥१६॥
कृष्णं कृष्णतुलस्या हि यो भक्त्या पूजयेन्नरः ॥
स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह ॥१७॥
ममाऽर्चनार्थं भिक्षूणां यच्छंति तुलसीदलम् ॥
अन्येषामपि भक्तानां यांति ते पदमव्ययम् ॥१८॥
तुलसी कृष्णगौरा या तया यो मां समर्चयेत् ॥
नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम् ॥१९॥
॥ ब्रह्मोवाच ॥
धूपदानस्य माहात्म्यं दीपस्याऽपि च केशव ॥
यत्फलं लभते मर्त्यस्तन्मे ब्रूहि यथार्थतः ॥२०॥
॥ श्रीभगवानुवाच ॥
शृणु पुत्र प्रवक्ष्यामि धूपदानस्य यत्फलम् ॥
दीपदानस्य माहात्म्यं मम प्रीतिकरं परम् ॥२१॥
अगुरुं च सकर्पूरं दिव्यचंदनसौरभम् ॥
दत्त्वा मां वै सहोमासे कुलानां तारयेच्छतम् ॥२२॥
कृष्णागुरुसमुत्थेन धूपेन च ममाऽलयम् ॥
धूपयेद्वैष्णवो यस्तु स मुक्तो नरकाऽर्णवात् ॥२३॥
माहिषं गुग्गुलं यस्तु आज्ययुक्तं सशर्करम् ॥
धूपं ददाति यो वै मां तस्येच्छां प्रददाम्यहम् ॥२४॥
गुग्गुलो हंत्यशेषाणि अरिष्टानि च धूपितः ॥
कामान्नानाविधांश्चैव अगुरुः संप्रयच्छति ॥२५॥
देहं गेहं पुनात्येव धूपस्त्वगुरुसंभवः ॥
नाशयेद्यक्षरक्षांसि धूपः सर्जरसोद्भवः ॥२६॥
जातिपुष्पमथैला च गुग्गुलश्च हरीतकी ॥
कूटः सर्जरसश्चैव गुडःसैलाच्छडस्तथा ॥
नखयुक्तानि चैतानि दशांगो धूप उच्यते ॥२७॥
धूपं दशांगं यदि चेत्करोति मासे सहे मे अतिवल्लभे च ॥
ददामि कामानतिदुर्लभानपि बलं च पुष्टिं सुतदारभक्तिम् ॥२८॥
मुस्ताधूपे मानुषाणां प्रियत्वं मांगल्यकं वश्यकरं गुडस्य ॥
कुर्यात्सहोमासि ममाग्रतो यो विहाय पापानि स मां समाप्नुयात् ॥२९॥
न भयं विद्यते तस्य दिव्यभौमांतरिक्षजम् ॥
मम धूपावशेषेण यस्यांऽगं परिमार्जितम् ॥३०॥
न चापद्विद्यते तस्य भवंति संपदोऽखिलाः ॥
धूपे कृते सहोमासे ममाग्रे श्रद्धयाऽनिशम् ॥३१॥
धूपः सुरूपतां धत्ते धूपः पावनमुत्तमम् ॥
वनस्पतिरसो दिव्यः परमः पावनः शुचिः ॥३२॥
अतः परं प्रवक्ष्यामि दीपमाहात्म्यमुत्तमम् ॥
यस्मिन्कृते नरो याति वैकुण्ठं नात्र संशयः ॥३३॥
बहुवर्तिसमायुक्तं घृतपूरसमन्वितम् ॥
कुर्यादारार्तिकं यो वै कल्पकोटिं दिवं वसेत् ॥३४॥
नीराजनं तु यः पश्येत्सहोमासे ममाऽग्रतः ॥
सप्तजन्म भवेद्विप्रो ह्यंते च परमं पदम् ॥३५॥
कर्पूरेण तु यः कुर्याद्भक्त्या चैव ममाग्रतः ॥
आरार्तिकं द्विजश्रेष्ठ प्रविशेन्मामनंतकम् ॥३६॥
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं मम ॥
सर्वं संपूर्णतामेति कृते नीराजने सुत॥ ३७॥
यः करोति सहोमासे कर्पूरेण च दीपकम् ॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥३८॥
ममाऽग्रे वै द्विजानां च दीपं दद्याच्चतुष्पथे ॥
मेधावी ज्ञानसंपन्नश्चक्षुष्माञ्जायते नरः ॥३९॥
घृतेन वाऽथ तैलेन दीपं प्रज्वालयेन्नरः ॥
सहोमासे ममाऽग्रे च तस्य पुण्यफलं शृणु ॥४०॥
विहाय सकलं पापं सहस्रादित्यसन्निभः ॥
ज्योतिष्मता विमानेन मम लोके महीयते ॥४१॥
तस्मात्सर्वप्रयत्नेन दीपं दद्याद्विचक्षणः ॥
तं च दत्त्वा विहिंसेद्यः स पतेन्नरके धुवम् ॥४२॥
दीपं यो वै हरेत्पापी लोभाद्द्वेषाद्द्विजोत्तम ॥
तद्दीपहरणात्सोऽपि मूकोंऽधश्च प्रजायते ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये दीपमाहात्म्यवर्णनंनाम अष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP