मार्गशीर्षमासमाहात्म्यम् - अध्याय १५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीभगवानुवाच ॥
ये त्वया वै कृताः प्रश्नाः पूर्वं प्रश्नविदां वर ॥
तान्वर्णयिष्ये क्रमशो निशामय सुनिश्चितम् ॥१॥
सहोमासे च देवो वै कीर्तियुक्तो हि केशवः ॥
तस्य पूजा प्रकर्तव्या यथापूर्वं प्रभाषितम् ॥२॥
ब्राह्मणं केशवं स्मृत्वा तत्पत्नीं कीर्तिमेव च ॥
दंपती विधिवत्पूज्यौ वस्त्राभरणधेनुभिः ॥३॥
दम्पती पूजितौ वत्स पूजितोऽहं न संशयः॥
तस्मादवश्यं संपूज्यौ दंपती मम तुष्टिदौ ॥४॥
दानं च विविधं कार्यं मम तुष्टिकरं परम् ॥
गोदानं भूमिदानं च स्वर्णदानं विशेषतः ॥५॥
वस्त्रदानं तथा शय्या तथाऽलंकरणानि च ॥
सद्मदानं प्रकर्तव्यं मम सन्तोषकारकम् ॥६॥
सर्वेषामेव दानानां विशेषं च त्रिकं स्मृतम् ॥
वसुन्धरा तथा धेनुर्विद्यादानं तथैव च ॥७॥
दत्ते दानत्रिके वत्स भवेत्प्रीतिर्ममाऽतुला ॥
तस्मान्नरैस्तु कर्तव्यं सहोमासे त्रिकं शुभम् ॥८॥
स्नानस्य च विधिः सम्यक्पुरैवोक्तो मयाऽनघ ॥
पूजास्नानं च दानं च विधिरेष न संशयः ॥९॥
मार्गशीर्षं समग्रं तु एकभक्तेन यः क्षिपेत् ॥
भोजयेद्यो द्विजान्भक्त्या स मुच्येद्व्याधिकिल्विषैः॥१०॥
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥
किमत्र बहुनोक्तेन शृणु गुह्यं पर मम ॥११॥
हुतभुग्ब्राह्मणश्चैव वदनं मम मानद ॥
ब्राह्मणाख्यं मुखं श्रेष्ठं न तथा हव्यवाहनः ॥१२॥
ब्राह्मणाख्ये मुखे पुत्र हुतं कोटिगुणं भवेत् ॥
अग्न्याख्यं ब्राह्मणाधीनं स्वतंत्रा ब्राह्मणाः किल ॥१३॥
सशर्करं घृतयुतं पायसं शशिसन्निभम् ॥
होतव्यं ब्राह्मणमुखे मम तुष्टिकरं सुत ॥१४॥
शुभमंडलमोदककोकरसं सुत फेनिकया घृतपूरयुतम् ॥
यज विप्रमुखे मम तुष्टिकरं यदि चेच्छसि दारसुतादिसुखम् ॥१५॥
कुमुदेन समप्रभसौरभदं शुभभक्तयुतं त्वथ मुद्गयुतम् ॥
सुरभीकृतपुष्कलसर्पिसमं कुरु विप्रमुखे हवनं हि सहे ॥१६॥
पयसा सह सर्पिषि च क्वथितं बहुखारिकचारफलैः सितया ॥
सह कर्पुरनारिफलेन समं युतसीकरकं सुत शुभ्रकरम् ॥१७॥
व्यंजनानि च शुभ्राणि मनोज्ञानि प्रियाणि च ॥
कर्त्तव्यानि सहोमासे ब्राह्मणार्थे चतुर्मुख ॥१८॥
प्रिया शिखरिणी कार्या चान्यत्तेषां प्रियं च यत् ॥
कृत्वैवं भोजयेद्विप्राञ्छ्रद्धया परया सुत ॥१९॥
रसास्वादनपूर्वं हि भुञ्जते वै यथायथा ॥
तथातथा मम प्रीतिर्जायते भुवि दुर्लभा ॥२०॥
तस्मात्तत्तत्तथा कार्यं यथा तुष्यंति ब्राह्मणाः ॥
तुष्टैस्तैश्चाप्यहं तुष्टो भवामीह न संशयः ॥२१॥
श्रद्धत्स्व त्वं चतुर्वक्त्र न ते मिथ्या ब्रवीम्यहम् ॥
एतद्गुह्यं मया प्रोक्तं श्रेयोर्थं तव मानद ॥२२॥
आक्रोशयंति यदि ते अथवा प्रहरंति चेत् ॥
तथापि ते नमस्या वै मम प्रीत्या हि मानद ॥२३॥
एवं कार्यं सदा पुत्र मार्गशीर्षे विशेषतः ॥
यदुक्तं भवता ब्रह्मन्भोक्तव्यं किं शृणुष्व तत् ॥२४॥
भोक्तव्यं मम चोच्छिष्टं मम भक्तिपरायणैः ॥
पवित्रकरणं पुत्र पापिनामपि मुक्तिदम् ॥२५॥
ममाशनस्य शेषं च यो भुनक्ति दिनेदिने ॥
सिक्थेसिक्थे भवेत्पुण्यं चांद्रायणशतोद्भवम् ॥२६॥
अवशिष्टं तथोच्छिष्टं भक्तानां भोजनद्वयम् ॥
नाऽन्यद्वै भोजनं तेषां भुक्त्वा चांद्रायणं चरेत् ॥२७॥
अनर्पयित्वा यो भुंक्ते अन्नपानादिकं च यत् ॥
श्वानविष्ठासमं चान्नं पानं च मदिरासमम् ॥२८॥
तस्मान्मामर्पयेत्पुत्र अन्नपानादि चौषधम् ॥
भक्षयेत्परया भक्त्या अशुचेः शुचिकारकम् ॥२९॥
तीर्थयज्ञादिकफलं कलिदोषविनाशनम् ॥
ममोच्छिष्टं सुगतिदमपि दुष्कृतकर्मणाम् ॥३०॥
अन्येषां दैवतानां च न गृह्णीयाच्च भक्षितम् ॥
अभक्तानां च पक्वान्नं भुक्त्वा च नरकं व्रजेत् ॥३१॥
वक्तव्यमेव यत्प्रोक्तं तच्छृणुष्व समाहितः ॥
कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम ॥३२॥
मम नाम प्रवक्तव्यं सहे चैव विशेषतः ॥
कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम् ॥३३॥
प्रतिज्ञैषा च मे पुत्र न जानंति सुरासुराः ॥
मनसा कर्मणा वाचा यो मे शरणमागतः ॥३४॥
स हि सर्वामवाप्नोति कामनामिह लौकिकीम् ॥
सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि ॥३५॥
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्॥३६॥
विनोदेनाऽपि दंभेन मौढ्याल्लोभाच्छलादपि ॥
यो मां भजत्यसौ वत्स मद्भक्तो नाऽवसीदति ॥३७॥
ये वै पठंति कृष्णेति मरणे पर्युपस्थिते ॥
यदि पापयुताः पुत्र न पश्यंति यमं क्वचित् ॥३८॥
पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः ॥
अंतकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम् ॥३९॥
नमः कृष्णाय महते विवशोऽपि वदेद्यदि ॥
ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते ॥४०॥
श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते ॥
दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः ॥४१॥
श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति ॥
म्रियते यदि चेत्पुत्र मामेवैति न संशयः ॥४२॥
दर्शनात्मम भक्तानां मृत्युमाप्नोति यः क्वचित् ॥
विना मत्स्मरणात्पुत्र मुक्तिमेति स मानवः ॥४३॥
पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक ॥
श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिंदुभिः ॥४४॥
कलिकालभुजंगस्य तीक्ष्णदंष्ट्रस्य किं भयम् ॥
श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति ॥४८॥
पापपावकदग्धानां कर्मचेष्टावियोगिनाम् ॥
भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना ॥४६॥
प्रयागे वै यथा गंगा शुक्लतीर्थे च नर्मदा ॥
सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम् ॥४७॥
भवांभोधिनिमग्नानां महापापोर्मिपातिनाम् ॥
न गतिर्मानवानां च श्रीकृष्णस्मरणं विना ॥४८॥
मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम् ॥
गच्छतां नाऽस्ति पाथेयं श्रीकृष्णस्मरणं विना ॥४९॥
तत्र पुत्र गया काशी पुष्करं कुरुजांगलम् ॥
प्रत्यहं मंदिरे यस्य कृष्णकृष्णेति कीर्तनम् ॥५०॥
जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम् ॥
सततं रसना यस्य कृष्णकृष्णेति जल्पति ॥५१॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥५२॥
नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम ॥
तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥५३॥
नाऽपविद्धं भवेत्तस्य शरीरं नैव मानसम् ॥
न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात् ॥५४॥
श्रीकृष्णेति वचः पथ्यं न त्यजेद्यः कलौ नरः ॥
पापामयो वै न भवेत्कलौ तस्यैव मानसे ॥५५॥
श्रीकृष्णेति प्रजल्पंतं दक्षिणाशापतिर्नरम् ॥
श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम् ॥५६॥
चांद्रायणशतैः पापं पराकाणां सहस्रकैः ॥
यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात् ॥५७॥
नान्याभिर्नामकोटीभिस्तोषो मम भवेत्क्वचित् ॥
श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाऽधिकाधिका ॥५८॥
चंद्रसूर्योपरागैस्तु कोटीभिर्यत्फलं स्मृतम् ॥
तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात् ॥५९॥
गुरुदाराभिगमनं हेमस्तेयादि पातकम् ॥
श्रीकृष्णकीर्तनाद्याति घर्मतप्तं हिमं यथा ॥६०॥
युक्तो यदि महापापैरगम्यागमनादिभिः ॥
मुच्यते चांतकालेऽपि सकृच्छ्रीकृष्णकीर्तनात् ॥६१॥
अविशुद्धमना यस्तु विनाप्याचारवर्तनात् ॥
प्रेतत्वं सोऽपि नाप्नोति अन्ते श्रीकृष्णकीर्तनात् ॥६२॥
मुखे भवतु मा जिह्वाऽसती यातु रसातलम् ॥
न सा चेत्कलिकाले या श्रीकृष्णगुणवादिनी ॥६३॥
स्ववक्त्रे परवक्त्रे च वंद्या जिह्वा प्रयत्नतः ॥
कुरुते या कलौ पुत्र श्रीकृष्ण गुणकीर्तनम् ॥६४॥
पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते ॥
या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम् ॥६५॥
पततां शतखण्डा तु सा जिह्वा रोगरूपिणी ॥
श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति ॥६६॥
श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत् ॥
तस्याऽहं श्रेयसां दाता भवाम्येव न संशयः ॥६७॥
श्रीकृष्णनाममाहात्म्यं त्रिसंध्यं हि पठेत्तु यः ॥
सर्वान्कामानवाप्नोति स मृतः परमां गतिम् ॥६८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP