मार्गशीर्षमासमाहात्म्यम् - अध्याय ७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्रह्मोवाच ॥
माहात्म्यं वद देवेश पुष्पजातिसमुद्भवम् ॥
येनयेन च पुष्पेण यत्फलं लभते नरः ॥१॥
॥ श्रीभगवानुवाच ॥
शृणु पुत्र प्रवक्ष्यामि माहात्म्यं पुष्पसंभवम्॥
येन पुष्पेण मे प्रीतिर्भवेत्सम्यङ्न संशयः ॥२॥
मल्लिका मालती चैव यूथिका चातिमुक्तका ॥
पाटला करवीरं च जयन्ती विजया तथा ॥३॥
कुब्जकस्तबकश्चैव कर्णिकारं कुरंटकः ॥
चंपकश्चातकः कुन्दो बाणः कर्चूरमल्लिका ॥४॥
अशोकस्तिलकश्चैव तथैवाऽपरयूथिकः ॥
अमी पुष्पप्रकारास्तु शस्ता मे पूजने सुत ॥५॥
केतकीपत्रपुष्पं च भृंगराजस्तथैव च ॥
तुलसीपत्रपुष्पं च सद्यः प्रीतिकरं मम॥ ६॥
पद्मान्यंबुसमुत्थानि रक्तनीलोत्पले तथा ॥
सितोत्पलं सहोमासे ममाऽत्यन्तं हि वल्लभम् ॥७॥
तान्येव च प्रशस्तानि कुसुमानि च मे सुत ॥
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥८॥
निर्गंधान्यपि शस्तानि कुसुमानि मतानि मे ॥
सुरभीणि तथाऽन्यानि वर्जयित्वा तु केतकीम् ॥९॥
बाणं च चंपकाऽशोकं करवीरं च यूथिका ॥
पारिभद्रं पाटला च बकुलं गिरिशालिनी ॥१०॥
बिल्वपत्रं शमीपत्रं पत्रं भृंगिरजस्य च ॥
तमालामलकीपत्रं शस्तं मे पूजने सुत ॥११॥
पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसंभवैः ॥
अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जंतुवर्जितैः ॥१२॥
अथारामोद्भवैर्वापि पुष्पैः संपूजयेच्च माम् ॥
पुष्पजातिविशेषेण भवेत्पुण्यं विशेषतः ॥१३॥
तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥
दश दत्त्वा सुवर्णानि यत्फलं लभते नरः ॥
तत्फलं लभते मर्त्यः सहे कुसुमदानतः ॥१४॥
द्रोणपुष्पे तथैकस्मिन्मह्यं च विनिवेदिते ॥
दश दत्त्वा सुवर्णानि फलं तदधिकं सुत ॥१५॥
पुष्पात्पुष्पांतरे भेदो यथाऽऽसीत्तन्निबोध मे ॥१६॥
द्रोणपुष्पसहस्रेभ्यः खादिरं तु विशिष्यते ॥
खादिरात्पुष्पसाहस्राच्छमीपुष्पं विशिष्यते ॥१७॥
शमीपुष्पसहस्रेभ्यो बिल्वपुष्पं विशिष्यते ॥
बिल्वपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥१८॥
बकपुष्पसहस्रेभ्यो नंद्यावर्तं विशिष्यते ॥
नंद्यावर्तसहस्राद्धि करवीरं विशिष्यते ॥१९॥
करवीरसहस्रस्य कुसुमं श्वेतमुत्तमम् ॥
करवीरश्वेतपुष्पात्पालाशं पुष्पमुत्तमम् ॥२०॥
पालाशपुष्पसाहस्रात्कुशपुष्पं विशिष्यते ॥
कुशपुष्पसहस्राद्धि वनमाला विशिष्यते ॥२१॥
वनमाला सहस्राद्धि चंपकं च विशिष्यते ॥
चंपकस्य पुष्पशतादशोकं पुष्पमुत्तमम् ॥२२॥
अशोकपुष्पसाहस्राच्छेवन्तीपुष्पमुत्तमम् ॥
शेवन्तीपुष्पसाहस्रात्कुजकं पुष्पमुत्तमम् ॥२३॥
कुजपुष्पसहस्राद्धि मालतीपुष्पमुत्तमम् ॥
मालतीपुष्पसाहस्रात्सन्ध्यापुष्पं विशिष्यते ॥२४॥
सन्ध्या पुष्पसहस्राद्धि त्रिसंध्यापुष्पमुत्तमम् ॥२५॥
त्रिसंध्यारक्तसाहस्रात्त्रिसंध्याश्वेतमुत्तमम् ॥
त्रिसन्ध्याश्वेतसाहस्रात्कुन्दपुष्पं विशिष्यते ॥२६॥
कुन्दपुष्पसहस्राद्धि जातीपुष्पं विशिष्यते ॥
सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम् ॥२७॥
जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् ॥
मह्यं यो विधिवद्दद्यात्तस्य पुण्यफलं शृणु ॥२८॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
मत्पुरे वसते नित्यं ममतुल्य पराक्रमः ॥२९॥
येषां संति च पुष्पाणि प्रशस्तानि ममाऽर्चने ॥
तेषां पत्राणि शस्तानि तदभावे फलानि च ॥३०॥
एतैः पत्रैश्च पुष्पैश्च फलैश्चाऽपि तथाहि माम् ॥
अर्चन्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात् ॥३१॥
एताभिः पुष्पजातीभिः सहोमासेऽर्चयंति ये ॥
भक्तिं ददामि तेषां वै तुष्टः सन्नात्र संशयः ॥३२॥
धनं पुत्रांस्तथा दारान्यत्किंचिद्वांछते हि सः ॥
तत्तद्ददामि देवेश पुष्पैरेभिः प्रतोषितः ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये जातीपुष्पश्रैष्ठ्यकथनपूर्वकं विष्णुकण्ठे तत्सहस्रपुष्पांकितमालास्थापनफलयोवर्णनंनाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : November 10, 2024
TOP