मार्गशीर्षमासमाहात्म्यम् - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच ॥
तप्तचकांकितं कृत्वा ह्यात्मानमथ दीक्षितम् ॥
पद्माक्षतुलसीमालं किं फलं ब्रूहि केशव ॥१॥
॥ श्रीभगवानुवाच ॥
तुलसीकाष्ठसंभूतां यो मालां वहते द्विजः ॥
अप्यऽशौचोऽप्यनाचारो मामेवैति न संशयः ॥२॥
धात्रीफलकृता माला तुलसीकाष्ठसंभवा ॥
दृश्यते यस्य देहे तु स वै भागवतो नरः ॥३॥
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ॥
ममोत्तीर्णां विशेषेण स नमस्यो दिवौकसाम् ॥४॥
तुलसीदलजां मालां धात्रीफलकृतामपि ॥
ददाति पापिनां मुक्तिं किं पुनर्मम सेविनाम् ॥५॥
तुलसीदलजां मालां ममोत्तीर्णां वहेत्तु यः ॥
पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम् ॥६॥
तुलसीकाष्ठसंभूतां यो मालां वहते नरः॥
फलं यच्छाम्यहं वत्स प्रत्यहं द्वारकोद्भवम् ॥७॥
निवेद्य भक्त्या मां मालां तुलसीकाष्ठसंभवाम् ॥
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥८॥
सदा प्रीतमनास्तस्य अहं प्राणवरो हि सः ॥
तुलसीकाष्ठसंभूतां यो मालां वहते नरः ॥
प्रायश्चित्तं न तस्याऽस्ति नाऽशौचं तस्य विग्रहे ॥९॥
तुलसीकाष्ठसंभूतं शिरसः काष्ठभूषणम् ॥
बाहौ करे च मर्त्यस्य देहे यस्य स मे प्रियः ॥१०॥
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ॥
पितॄणां देवतानां च पुण्यं कोटिगुणं भवेत् ॥११॥
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥
दृष्ट्वा नश्यंति दूरेण वातोद्धूतं यथा दलम् ॥१२॥
यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथाऽऽर्द्रकम् ॥
भवंति तद्गृहे नैव पापं संक्रमते कलौ ॥१३॥
तुलसी काष्ठमालाभिर्भूषितो र्भ्रमते भुवि ॥
दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित् ॥१४॥
धारयंति न ये मालां हैतुकाः पापबुद्धयः ॥
नरकान्न निवर्तंते दग्धाः कोपाग्निना मम ॥१५॥
तस्माद्धार्या प्रयत्नेन माला तुलसिसंभवा ॥
पद्माक्षनिर्मिता भक्त्या फलैर्धात्र्या सुपुण्यदा ॥१६॥
तदूर्ध्वपुंड्रशंखाद्यैर्युक्तस्तुलसिमूलके ॥
सन्ध्योपास्त्यादिकं कुर्यात्कुशपाणिर्हिं मां स्मरन् ॥१७॥
कृतसन्ध्यादिको भक्तस्ततः संपूजयेच्च माम् ॥
गुरुश्चेत्तत्र वर्तेत आदौ गत्वा नमेद्गुरुम् ॥१८॥
किंचिद्दत्त्वोपायनं च दण्डवत्प्रणमेन्मुदा ॥
आचम्यैकाग्रमनसा पूजामण्डपमाविशेत् ॥१९॥
उपविश्याऽऽसने रम्ये कृष्णाजिनकुशोत्तरे ॥
सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ॥२०॥
प्राणायामत्रयं कृत्वा मन्त्रेण च जितेंद्रियः ॥
उदङ्मुखस्ततः कृत्वा हृत्पंकजमनुत्तमम्॥
विकासं तस्य कुर्वीत विज्ञानरविणा हृदि ॥२१॥
कर्णिकायां न्यसेच्चार्कं शशिनं चाग्निमेव च ॥
त्रयं त्रयात्मके तस्मिश्चिंतयेद्वैष्णवो नरः ॥
नानारत्नमयं पीठं तेषामुपरि विन्यसेत् ॥२२॥
तस्मिन्मृदुश्लक्ष्णतरं बालार्कसदृशद्युति ॥
अष्टैश्वर्यदलं पद्मं मन्त्राक्षरमयं न्यसेत् ॥२३॥
तस्मिन्देवं समासीनं कोटिशीतांशुसन्निभम् ॥
चतुर्भुजं महापद्मशंखचक्रगदाधरम् ॥२४॥
पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् ॥
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रान्वितं च माम् ॥२५॥
विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम् ॥
दिव्यचन्दनलिप्तांगं दिव्यपुष्पोपशोभितम् ॥२६॥
तुलसीकोमलदलवनमालाविभूषितम् ॥
कोटिबालार्कसदृशं कान्तं दिव्यश्रिया सह ॥२७॥
सर्वलक्षणलक्षिण्या समाश्लिष्टतनुं शिवम् ॥
एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः ॥२८॥
सहस्रं शतवारं वा यथाशक्ति जपेन्मनुम् ॥
मनसैवाऽर्चनं कृत्वा ततो विधिवदाचरेत् ॥२९॥
संप्रदायाऽनुरोधेन शंखं स्थाप्य ममाग्रतः ॥
दूर्वांकुरैश्च पुष्पैश्च गंधोदेन च पूरितम् ॥३०॥
दक्षिणे गंधपुष्पाणां पात्रं स्थाप्य च देशिकैः ॥
वामभागे न्यसेत्कुंभं वस्त्रपूतं सुवासितम् ॥३१॥
पुरतो मम घंटां च दिक्षु दीपान्नियोजयेत् ॥
अन्यत्सर्वं साधनं च यथास्थानेषु विन्यसेत् ॥३२॥
अर्घ्यपाद्याऽऽचमनीयमधुपर्कस्य कारणात् ॥
विन्यसेत्पुरतो मह्यं चत्वार्यमत्रकाणि वै ॥३३॥
सिद्धार्थाऽक्षतपुष्पाणि कुशाग्रं तिलचंदनम् ॥
फलं यवाश्चतुर्वक्त्र अर्घ्यपात्रे विनिःक्षिपेत् ॥३४॥
दूर्वा विष्णुपदी श्यामा पद्मं चैव चतुर्थकम् ॥
पाद्यपात्रे न्यसेत्पुत्र देशिको मम तुष्टये ॥३५॥
कंकोलं च लवंगं च फलं मालतिसंभवम् ॥
कुर्याद्वै श्रद्धया पुत्र पात्र आचमनीयके ॥३६॥
गव्यं पयो दधि मधु घृतं खंड समन्वितम् ॥
मधुपर्कस्य पात्रे वै दद्याद्वै श्रद्धयाऽर्चकः ॥३७॥
उक्तानां द्रव्यजातीनामलाभे पत्रपुष्पयोः ॥
तत्तद्भावनया कुर्यात्सर्वदा विधिकोविदः ॥३८॥
करन्यासं ततः कुर्यादंगन्यासं तथैव च ॥
पंचांगं वा षडंगं वा विन्यसेत्संप्रदायतः ॥३९॥
ममाऽनुस्मरणं कार्यमात्मानं मत्समं स्मरेत् ॥
पूजारंभे चतुर्वक्त्रं मंगलं तु पठेन्नरः ॥४०॥
अथ संपूजयेच्छंखं पांचजन्यं मम प्रियम् ॥
यस्य संपूजनाद्वत्स आनंदः परमो मम ॥
शंखस्य पूजने वत्स मंत्रानेतानुदीरयेत् ॥४१॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥
निर्मितः सर्वदेवैश्च पांचजन्य नमोऽस्तु ते ॥४२॥
तव नादेन जीमूता वित्रसंति सुराऽसुराः ॥
शशांकाऽयुतदीप्ताभ पांचजन्य नमोऽस्तु ते ॥४३॥
गर्भा देवारिनारीणां विलीयंते सहस्रधा ॥
तव नादेन पाताले पांचजन्य नमोऽस्तु ते ॥४४॥
दर्शनेनैव शंखस्य किं पुनः स्पर्शने कृते ॥
विलयं यांति पापानि हिमवद्भास्करोदये ॥४५॥
नत्वा शंखं करे धृत्वा मंत्रैरेभिस्तु वैष्णवः ॥
यः स्नापयति मां भक्त्या तस्य पुण्यमनंतकम् ॥४६॥
सुवासितेन तैलेन कुर्यादभ्यंजनं ततः ॥
कस्तूर्या चंदनेनैव कुर्यादुद्वर्तनादिकम् ॥४७॥
सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ॥
अर्घ्यं दत्त्वा ततो वत्स पाद्यमाचमनीयकम् ॥
मधुपर्कं ततो दद्यादथ सर्वोपचारकान् ॥४८॥
वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि ॥
पुष्पैः संपूजयेत्पीठं तत्र देवं निधाय च ॥४९॥
वस्त्राऽलंकारगंधादीनर्पयेच्छ्रद्धया मम ॥
नैवेद्यं विविधं दद्यात्पायसाऽपूपमिश्रितम् ॥
सकर्पूरं च तांबूलं भक्त्या चैव निवेदयेत् ॥५०॥
सुरभीणि च पुष्पाणि भक्त्या सम्यङ्निवेदयेत्॥
धूपं दशांगमष्टांगं दीपं च सुमनोहरम् ॥५१॥
परिणीय प्रणम्याथ स्तुत्वा स्तुतिभिरादरात् ॥
शाययित्वा तु पर्यंके मगलार्घ्यं निवेदयेत्॥ ५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शंखपूजाविधिकथनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP