मार्गशीर्षमासमाहात्म्यम् - अध्याय ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच ॥
एकादश्याश्च माहात्म्यं मूर्तीनां च विधानकम् ॥
सर्वं ब्रूहि मम स्वामिन्कृपया भूतभावन ॥१॥
॥ श्रीभगवानुवाच ॥
शृणुष्व द्विजशार्दूल कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा याति विलयं पापं ब्रह्मवधादिकम् ॥२॥
कांपिल्ये नगरे राजा वीरबाहुरिति स्मृतः ॥
सत्यवादी जितक्रोधो ब्रह्मज्ञो मम तत्परः ॥३॥
भाववान्स दयाशीलोरूपवान्बलवान्नरः ॥
भक्तो भागवतानां च सदा मम कथारुचिः ॥४॥
सदा मम कथाऽऽसक्तः सदा जागरणप्रियः ॥
दाता विद्वान्क्षमाशीलो विक्रमी विजितेंद्रियः ॥५॥
विजयी रणशीलश्च ऋद्ध्या च धनदोपमः॥
पुत्रवान्पशुमांश्चैव स्वदारनिरतस्तथा ॥६॥
तस्य भार्या कांतिमती रूपेणाऽप्रतिमा भुवि ॥
पतिव्रता महासाध्वी मम भक्तिरता सदा ॥७॥
तया सह विशालाक्षो बुभुजे मेदिनीं युवा ॥
मुक्त्वैकं मां महाबाहो नान्यज्जानाति दैवतम् ॥८॥
एकस्मिन्दिवसे पुत्र भारद्वाजो महामुनिः ॥
समागतो गृहे तस्य वीरबाहोर्महात्मनः ॥९॥
दृष्ट्वा समागतं दूराद्भारद्वाजं महामुनिम् ॥
स्वागतं कारयामास दत्त्वार्घ्यं विधिवत्तदा ॥१०॥
आसनं कल्पयामास स्वयमेव महीपतिः ॥
प्रणम्य परया भक्त्या तस्थौ मुनिवराग्रतः ॥११॥
॥ राजोवाच ॥
अद्य मे सफलं जन्म अद्य मे सफलं दिनम् ॥
अद्य मे सफलं राज्यमद्य मे सफलं गृहम् ॥१२॥
प्रसन्नो मम विप्रर्षे परमात्मा जनार्दनः ॥
यत्त्वं समागतो ह्यद्य गृहे योगिवरस्तथा ॥१३॥
मुक्तोऽहं पापकोट्याद्य यत्त्वयाऽहं निरीक्षितः ॥
राज्यं लक्ष्मीर्गजाऽश्वाश्च मया तुभ्यं निवेदिताः ॥१४॥
वैष्णवोऽसि मुनिश्रेष्ठ नास्त्यदेयं मया तव ॥
मेरुतुल्यं भवेत्सर्वं वैष्णवस्य वराटिका ॥१५॥
नाऽऽयाति हि गृहे यस्य वैष्णवो वै द्विजोत्तमः ॥
तद्दिनं विफलं तस्य कथितं ब्राह्मणैर्मम ॥१६॥
विष्णुभक्ताश्च ये केचित्सर्वे वर्णा द्विजातयः ॥
कथितं मम गार्ग्येण गौतमेन सुमंतुना ॥१७॥
ये त्वभक्ता हृषीकेशे पिशाचास्ते हि मानवाः ॥
महापातकलिप्तास्ते ये भुंजंति हरेर्दिने ॥१८॥
शिवव्रतसहस्रैस्तु सौरैर्ब्राह्मैश्च कोटिभिः ॥
यत्फलं कविभिः प्रोक्तं वासरैकेन तद्धरेः ॥१९॥
गर्वमुद्वहते तावत्तिथिर्ब्राह्मी च शांकरी ॥
यावन्नायाति विप्रेंद्र द्वादशी च मम प्रिया ॥२०॥
तावत्प्रभावस्ताराणां यावन्नोदयते शशी ॥
तिथिस्तथा च विप्रेंद्र यावन्नायाति द्वादशी ॥२१॥
नारदेन पुरा प्रोक्तं वसिष्ठेन ममाग्रतः ॥
त्वं वेत्ता सर्वधर्माणां वैष्णवानां महामुने ॥२२॥
॥ भारद्वाज उवाच ॥
साधु पृष्टं महाभाग यत्त्वं भक्तोऽसि वैष्णवः ॥
सा सुप्रजा मही धन्या यत्त्वं रक्षसि भूमिप ॥२३॥
तस्मिन्राष्ट्रे न वस्तव्यं यत्र राजा न वैष्णवः ॥
वरं वासो वने तीर्थे न तु राष्ट्रे त्ववैष्णवे ॥२४॥
यत्र भागवतो राजा संप्रशास्ति च मेदिनीम् ॥
वैकुण्ठमिति मंतव्यं तद्राष्ट्रं पापवर्जितम् ॥२५॥
चक्षुर्हीनं यथा देहं पतिहीना यथा स्त्रियः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२६॥
यथा पुत्रो महीपाल मातापित्रोरपोषकः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२७॥
दानहीनो यथा राजा ब्राह्मणो रसविक्रयी ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२८॥
दंतहीनो यथा हस्ती पक्षहीनो यथा खगः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥२९॥
प्रतिग्रहार्थं वेदादि द्रव्यार्थं सुकृतं यथा ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३०॥
दर्भहीना यथा संध्या यथा श्राद्धमदक्षिणम् ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३१॥
सशिखश्च यथा शूद्रा कपिलाक्षीरपायकः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३२॥
शूद्रश्च ब्राह्मणीगामी हेमघ्नो धर्मदूषकः ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३३॥
हरिसूर्यादिवृक्षाणां यथा छेदो नरोत्तम ॥
द्वादशी दशमी युक्ता तथा राष्ट्रमवैष्णवम् ॥३४॥
यथाऽऽहुतिर्मंत्रहीना मृतवत्सापयो यथा ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३५॥
सकेशा विधवा यद्वद्व्रतं स्नानविवर्जितम् ॥
द्वादशी दशमीयुक्ता तथा राष्ट्रमवैष्णवम् ॥३६॥
स राजा प्रोच्यते सद्भिर्यो भक्तो मधुसूदने ॥
तद्राष्ट्रं वर्धते नित्यं सुखी भवति सप्रजः ॥३७॥
दृष्टिर्मे सफला राजन्यन्मया त्वं निरीक्षितः ॥
अद्य मे सफला वाणी जल्पते या त्वया सह ॥३८॥
दूरमेव हि गंतव्यं श्रूयते यत्र वैष्णवः ॥
दर्शनात्तु भवेत्पुण्यं तीर्थस्नानसमुद्भवम् ॥३९॥
स त्वं राजन्मया दृष्टो विष्णुभक्तिरतः शुचिः ॥
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव नराधिप ॥४०॥
एतस्मिन्नंतरे राज्ञ्या कांतिमत्या नमस्कृतः ॥
भारद्वाजो मुनिश्रेष्ठः प्रवरः सर्वयोगिनाम् ॥४१॥
अवैधव्यं वरारोहे भक्ता भव स्वभर्त्तरि ॥
निश्चला केशवे भक्तिः सदा भवतु ते शुभे ॥४२॥
एतस्मिन्नंतरे राजा भारद्वाजं महामुनिम् ॥
उवाच प्रीणयन्वाचा मेघनादगभीरया ॥४३॥
॥ राजोवाच ॥
विपुला मे कथं लक्ष्मीः किं कृतं पूर्वजन्मनि ॥
सर्वं ब्रूहि मुनिश्रेष्ठ कृपा यदि ममोपरि ॥४४॥
एतन्मया कथं प्राप्तं राज्यं निहतकण्टकम् ॥
पुत्रो वै गुणवाञ्च्छ्रेष्ठः प्रिया च सुमनोहरा ॥४५॥
मच्चित्ता मद्गतप्राणा चिंतयन्ती जनार्दनम् ॥
कोऽहं मुने कथं चैषा कश्च धर्मो मया कृतः ॥४६॥
किं चाऽनयाऽपि चार्वंग्या मम पत्न्या कृतं मुने ॥
केन पुण्येन मे लक्ष्मीर्मृत्युलोके सुदुर्लभा ॥४७॥
अशेषा भूमिपाला वै वर्तंते यस्य मे वशे ॥
विक्रमं चाऽप्रतिहतं शरीरारोग्यता तथा ॥४८॥
ममाऽपि विपुलं तेजो न कश्चित्सहते मुने ॥
इच्छाम्यद्य प्रतिज्ञातुं यथा चेयमनिंदिता ॥४९॥
मयाऽपि सुकृतं विप्र किं कृतं पूर्वजन्मनि ॥
इति पृष्टो नरेंद्रेण पूर्वजन्मविचेष्टितम् ॥५०॥
स्वपत्न्याश्चेष्टितं चैव संपदां चैव कारणम् ॥
योगोत्थं सुचिरं कालं तथाविंदत मानसे ॥५१॥
विज्ञातमेतन्नृपते पूर्वजन्मविचेष्टितम् ॥
तव पत्न्याश्च राजर्षे शृणुष्व कथयाम्यहम् ॥५२॥
॥भारद्वाज उवाच ॥
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ॥
त्वमासीः शूद्रजातीयो जीवहिंसापरायणः ॥५३॥
नास्तिको दुष्टचारित्रः परदारप्रधर्षकः ॥
कृतघ्नो दुर्विनीतश्च सुष्ठ्वाचारविवर्जितः ॥५४॥
इयं या भवतो भार्या पूर्वमप्यायतेक्षणा ॥
कर्मणा मनसा वाचा नान्यदस्यास्त्वया विना ॥५५॥
पतिव्रता महाभागा भजमाना निरन्तरम् ॥
भावं न कुरुते दुष्टं तवोपरि तथा सति ॥५६॥
सखिभिस्त्वं परित्यक्तो बन्धुभिः पापकर्मकृत् ॥
क्षयं जगाम चाऽर्थो यः सञ्चितस्तव पूर्वजैः ॥५७॥
नष्टे द्रव्ये फलाऽऽकांक्षी त्वमासीर्जगतीपते ॥
पूर्वकर्मविपाकेन कृषिश्च विफला गता ॥५८॥
ततो वित्ते परिक्षीणे परित्यक्तश्च बांधवैः ॥
क्षीयमाणाऽपि साध्वीयमत्यजत्त्वां न भामिनी ॥५९॥
त्वं भग्नः सर्वकामेभ्यो गतवान्निर्जने वने ॥
हत्वा जीवाननेकांश्च चकारात्मविपोषणम् ॥६०॥
एवं प्रवृत्तस्य तव सह पत्न्या तदा नृप ॥
गतानि बहुवर्षाणि पापवृत्त्या महीतले॥६१॥
अन्यस्मिन्वासरे राजन्मार्गभ्रष्टो महामुनिः ॥
न दिशं विदिशं वेत्ति देवशर्मा द्विजोत्तमः ॥६२॥
क्षुत्तृषापीडितोऽत्यर्थं मध्याह्नगदिवाकरे ॥
पतितो वनमध्ये तु मार्गभ्रष्टो महीपते ॥६३॥
दया जाता च ते भूप दृष्ट्वा दुःखेन पीडितम् ॥
ब्राह्मणं वृद्धमज्ञातं गृहीत्वा तु करेण वै ॥६४॥
उत्थाप्य पतितं भूमौ त्वयोक्तं हि तदा नृप ॥
प्रसादं कुरु विप्रर्ष आगच्छ त्वं ममाऽऽश्रमम् ॥६५॥
जलपूर्णं तडागं च पद्मिनीखण्डमण्डितम् ॥
वृक्षैर्मनोहरैर्युक्तं फलैः पुष्पैर्मनोरमैः ॥६६॥
स्नात्वा सुशीतले तोये कृत्वा कर्म च नैत्यकम् ॥
कुरु विप्र फलाहारं पिब वारि सुशीतलम् ॥६७॥
सुखेन कुरु विश्रामं मया संरक्षितः स्वयम् ॥
विप्रेन्द्र तृप्तिपर्यंतं वस त्वं च ममाश्रमे ॥६८॥
उत्तिष्ठ त्वं द्विजश्रेष्ठ प्रसादं कर्तुमर्हसि ॥
लब्धसंज्ञस्तदा विप्रः श्रुत्वा शूद्रस्य भाषितम् ॥६९॥
करे जग्राह तं शूद्रं गतो यत्र जलाशयः ॥
उपविष्टो महाबाहो छायामाश्रित्य तत्तटे ॥७०॥
स्नानं चकार विधिवत्पूजयामास केशवम् ॥
तर्पयित्वा पितॄन्देवान्पपौ नीरं सुशीतलम् ॥७१॥
विश्रांतो वृक्षूमूलेऽभूद्देवशर्मा द्विजोत्तमः ॥
साष्टांगं मुनये कृत्वा नमस्कारं सह स्त्रिया ॥७२॥
शूद्रस्तु परया भक्त्या प्रोवाच मुनिसन्निधौ ॥
आवयोस्तरणार्थाय अतिथिस्त्वं समागतः ॥७३॥
दर्शनात्तव विप्रर्षे जातः पापस्य संक्षयः ॥
प्रिये फलानि स्वादूनि प्रयच्छास्मै द्विजातये ॥
मृदूनि रसयुक्तानि सुपक्वानि प्रियाणि च ॥७४॥
॥ब्राह्मण उवाच ॥
त्वामहं नैव जानामि स्वज्ञातिं कथयस्व मे ॥
नाज्ञातस्य हि भोक्तव्यं ब्राह्मणस्याऽपि पुत्रक ॥७५॥
॥ शूद्र उवाच ॥
शूद्रोऽहं द्विजशार्दूल न कार्यः संशयस्त्वया ॥
आत्मजैर्दुर्जनैर्विप्र परित्यक्तः स्वबन्धुभिः ॥७६॥
तयोः संवदतोरेवं शूद्रपत्न्या फलानि च ॥
दत्तानि तस्मै विप्राय तेन भुक्तानि तानि वै ॥७७॥
अभूत्प्रीतमना विप्रः पीत्वा नीरं सुशीतलम् ॥
सुखं संप्राप्य स मुनिर्विश्रांतस्तरुमूलके ॥७८॥
स च शूद्रः सपत्नीको भुक्त्वा च पुनरागतः ॥
स्वागतं ते मुनिश्रेष्ठ कुतस्त्वमिह चाऽऽगतः ॥७९॥
शून्याटवीं द्विजश्रेष्ठ दुष्टसत्त्वभयाकुलाम् ॥
निर्मनुष्यां दुःखयुक्तां दिवारात्रं भयानकाम् ॥८०॥
॥ ब्राह्मण उवाच ॥
ब्राह्मणोऽहं महाभाग प्रयागगमनं प्रति ॥
अहमज्ञातमार्गेण प्रविष्टो दारुणे वने ॥८१॥
मम पुण्यप्रभावेण जातोसि वरबांधवः ॥
जीवितं मे त्वया दत्तं ब्रूहि किं करवाणि ते ॥६२॥
भवानपि कुतः प्राप्तो निर्मनुष्ये वने खलु ॥
को भवान्कारणं किंस्वित्कथयस्व ममाऽग्रतः ॥८३॥
॥ शूद्र उवाच ॥
विदर्भनगरी राज्ञा भीमसेनेन रक्षिता ॥
वासो मम महाराष्ट्रे शूद्रोऽहं पापलंपटः ॥८४॥
स्वकर्मविहितो धर्मो मया त्यक्तो द्विजोत्तम ॥
त्यक्तोऽहं बन्धुवर्गेण ततोऽहं वनमागतः ॥८५॥
कृत्वा जीववधं नित्यं जीवेऽहं भार्यया सह ॥
सांप्रतं पातकात्सम्यङ् निर्विण्णोस्मि महामुने ॥८६॥
कुरुष्वाऽनुग्रहं किञ्चित्पापयुक्तस्य मे प्रभो ॥
मम पुण्यप्रभावेण आगतस्त्वं द्विजोत्तम ॥८७॥
न पश्यामि यथा सौरिं पत्न्या सह महामुने ॥
उपदेशप्रभावेण प्रसादं कर्तुमर्हसि ॥८८॥
नान्यदिच्छाम्यहं किञ्चिन्मुक्त्वा देवं जनार्दनम् ॥
कुरुष्वाऽनुग्रहं मेऽद्य प्रसादमृषिसत्तम ॥८९॥
॥ भारद्वाज उवाच ॥
इति तेन समापृष्टो देवशर्मा द्विजाग्रणीः ॥
शूद्रेण परया भक्त्या प्रहसन्वाक्यमब्रवीत् ॥९०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्य एकादश्याख्यानंनामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP