मार्गशीर्षमासमाहात्म्यम् - अध्याय ५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच ॥
पंचामृतस्य स्नपनाद्यत्फलं लभते हरेः॥
शंखोदकेन यत्किंचित्तन्मे ब्रूह्यजिताऽच्युत ॥१॥
॥श्रीभगवानुवाच॥
क्षीरस्नानं प्रकुर्वंति ये नरा मम मूर्द्धनि॥
शताश्वमेधजं पुण्यं बिंदुना बिंदुना स्मृतम्॥२॥
क्षीराद्दशगुणं दध्ना घृतेनैव दशोत्तरम्॥
मधुना तद्दशगुणं सितया तु ततोऽधिकम् ॥
गंधपुष्पोदके मंत्रं सर्वोत्कृष्टं प्रशस्यते ॥३॥
द्वादश्यां पंचदश्यां वा गव्येन पयसा मम ॥
स्नापनं देवशार्दूल महापातकनाशनम् ॥४॥
दध्यादीनां विकाराणां क्षीरतः संभवो यथा ॥
तथैव शेषकामानां क्षीरस्नपनतो मम ॥५॥
क्षीरस्नानेन सौभाग्यं दध्ना मिष्टान्नभोजनम्॥
घृतेन स्नापयेद्यो मां नरो मम पुरं व्रजेत् ॥६॥
मधुना सितया यस्तु कारयेन्मार्गशीर्षके ॥
स राजा जायते लोके पुनः स्वर्गादिहागतः ॥७॥
गजाश्वरथसंपूर्णं स राज्यं लभते भुवि ॥
कारयेन्मार्गशीर्षे वै यः क्षीरस्नापनं मम ॥८॥
स्वर्गे लोके स जयति चंद्रेंद्ररुद्रमारुतान् ॥
क्षीरस्नानं परं श्रेष्ठं मार्गशीर्षे च पुत्रक ॥९॥
क्षीरस्नपनमाहात्म्यं वर्चस्कं पुष्टिवर्धनम् ॥
दौर्भाग्यं विलयं याति क्षीरस्नानेन मे सुत ॥१०॥
स्नापयेन्मार्गशीर्षे मां यो वै पंचाऽमृतेन तु ॥
स न शोच्यो भवेज्जंतुर्बंधुना भुवि मानद ॥११॥
कपिलाक्षीरमादाय यः स्नापयति मां सुत ॥
कपिलाशतदानस्य फलं प्राप्नोति मानवः ॥१२॥
शंखे तीर्थोदकं कृत्वा यः स्नापयति देशिकः ॥
बिंदुनाऽपि सहोमासे स्वकुलं तारयेद्धि सः ॥१३॥
कापिलं क्षीरमादाय शंखे कृत्वा च मानवः ॥
यः स्नापयति मां भक्त्या सर्वतीर्थफलं लभेत् ॥१४॥
शंखे कृत्वा तु पानीयं साक्षतं कुशसंयुतम् ॥
यः स्नापयेत्सहोमासे सर्वतीर्थफलं लभेत् ॥१५॥
शंखाष्टकेन यः स्नानं कारयेन्मार्गशीर्षके ॥
भक्त्या भगवतः श्रेष्ठो मम लोके महीयते ॥१६॥
शंखषोडशकेनाथ यः स्नापयति मे सुत ॥
स पापमुक्तः सुचिरं स्वर्गलोके महीयते ॥१७॥
चतुर्विंशतिसंख्याकैः शंखैर्यः स्नापयेच्च माम् ॥
इंद्रलोके चिरं स्थित्वा स राजा भुवि जायते ॥१८॥
शंखाऽष्टोत्तरशतेनैव स्नापयेन्मार्गशीर्षके ॥
शंखेशंखे सुवर्णस्य फलं प्राप्नोति मानवः ॥१९॥
मार्गशीर्षे भक्तिमान्यः कृत्वा शंखध्वनिं हि माम् ॥
स्नापयेत्पितरस्तस्य स्वर्गं तावत्प्रतिष्ठिताः ॥२०॥
अष्टोत्तरसहस्रं तु शंख स्नानं तु यश्चरेत् ॥
स गणो मुक्तिमाप्नोति यावदाभूतसंप्लवम् ॥२१॥
नित्यं संस्नापयेद्यो मां शंखेन सुरसत्तम ॥
गंगास्नानफलं प्राप्य नित्यं नंदति देववत् ॥२२॥
शंखेतोयं समादाय यः स्नापयति मां सुत ॥
नमो नारायणेत्युक्त्वा मुच्यते सर्वकिल्बिषैः ॥२३॥
कृत्वा पादोदकं शंखे वैष्णवानां महात्मनाम् ॥
यो ददाति तिलोन्मिश्रं चांद्रायणफलं लभेत् ॥२४॥
नाद्यं तडागजं वाऽपि वापीकूपादिकं च यत् ॥
गांगेयं जायते सर्वं जलं शंखकृतं च यत् ॥२५॥
गृहीत्वा मम पादांबु शंखे कृत्वा तु वैष्णवः ॥
यो वहेच्छिरसा नित्यं स मुनिस्तपतां वरः ॥२६॥
त्रैलोक्ये यानि तीर्थानि मम चैवाज्ञया सुत ॥
शंखे तानि वसंतीह तस्माच्छंखो वरः स्मृतः ॥२७॥
सांबुं शंखं करे धृत्वा मंत्रैरेतैस्तु वैष्णवः ॥
यः स्नापयेन्मार्गशीर्षे तुष्टस्तस्य भवाम्यहम् ॥२८॥
शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ॥
पृष्ठे प्रजापतिश्चैव अग्रे गंगा सरस्वती ॥२९॥
तेषामुच्चारपूर्वं तु स्नापयेन्मामतंद्रितः ॥
तस्य पुण्यस्य संख्यां वै कर्तुं नैव सुराः क्षमाः॥ ३०॥
पुरतो मम देवेश सपुष्पः सजलाक्षतः॥
शंखस्त्वभ्यर्चितस्तिष्ठेत्तस्य श्रीः सर्वतोमुखी ॥३१॥
विलेपनेन संपूर्णं शंखं कृत्वा तु मां भजेत् ॥
तदा मे परमा प्रीतिर्भवेद्वै शतवार्षिकी ॥३२॥
शंखे कृत्वा तु पानीयं सपुष्पं सजलाक्षतम् ॥
अर्घ्यं ददाति यो मां वै तस्य पुण्यमनंतकम् ॥३३॥
अर्घ्यं कृत्वा स्वयं शंखे यः करोति प्रदक्षिणाम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥३४॥
भ्रामयित्वा च मे मूर्ध्नि मंदिरं शंखवारिणा ॥
प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्ग्रहे भवेत् ॥३५॥
नाधयो न क्लमस्तस्य नारकं न भयं क्वचित् ॥
यस्य पादोदकं शंखे कृतं मूर्धानमालभेत् ॥३६॥
ग्रहा रक्षांसि कूष्मांडपिशाचोरगदानवाः ॥
दृष्ट्वा शंखोदकं मूर्ध्नि विद्रवंति दिशो दश ॥३७॥
वादित्रनिनदैरुच्चैर्गीतमंगलनिःस्वनैः ॥
यः स्नापयति मां भक्त्या जीवन्मुक्तो भवेद्धि सः ॥३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शंखपूजनफलकथनंनाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP