मार्गशीर्षमासमाहात्म्यम् - अध्याय ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच ॥
नैवेद्यस्य विधिं ब्रूहि देव मे तत्त्वतः प्रभो ॥
अन्नं कतिविधं चेष्टं व्यंजनादीन्यशेषतः ॥१॥
॥श्रीभगवानुवाच ॥
साधु पृष्टं त्वया वत्स मम प्रीतिकरं परम् ॥
वक्ष्यामि तेऽन्नपानादिव्यंजनादीन्यशेषतः ॥२॥
आदौ हिरण्मयं पात्रं तदभावे च राजतम् ॥
तदभावे च पालाशं विस्तीर्णं बहुसुन्दरम् ॥३॥
कचोलाः शतशः कार्याः पात्रे वै परितोऽनघ ॥
तन्मध्ये व्यंजना देया नानाफलमयाः शुभाः ॥४॥
पायसं चन्द्रसंकाशं पात्रे वै शर्करायुतम् ॥
भक्तं कुमुदसंकाशं मुद्गान्काचप्रभाञ्छुभान् ॥५॥
नानाव्यंजनसंरुद्धं त्रिभिः पंक्तिभिरेव च ॥
निंबूरसेन चंद्रेण फलमूलयुतेन च ॥६॥
वैकृताश्च तदा कार्याः शतशो भोजने मम ॥
द्राक्षास्तु मिश्रिताश्चूतकरमर्द कृताः शुभाः ॥७॥
मरीचपिप्पलीसार्द्रकैलाचंद्रकसंयुताः ॥
क्वाथिताः कथिकाः कार्याः शतशो भोजने मम ॥८॥
प्रलेहनास्तथा कार्याः कचोलशतसंकुलाः ॥
नानाकुसुमसंमोदयुक्ताः सहसि मे प्रियाः ॥९॥
मंडका वर्तुला रम्याः समाः सर्वत्र बिंदुवत् ॥
सितया सहितेनाऽथ दुग्धेन क्वथितेन च ॥१०॥
मधुवर्णेन गव्येन युक्ते तस्मिन्सुभोजने ॥
कचोले सुप्रभे वत्स स्थितं कांचनसुप्रभम् ॥११॥
घृतं सुवासितं प्रीत्या देयं हि मम भोजने ॥
तत्र गोधूमपात्रेण चंद्रकेण हि चोज्ज्वलम् ॥१२॥
सौवाह्लिकाः पूरिकास्तु शतच्छिद्राः सवेष्टिकाः ॥
अपूपाश्च तथा क्षीरं प्रकारांस्तु प्रकारयेत् ॥१३॥
मणयः सूत्रसंज्ञाश्च मालतीकुसुमादयः ॥
पर्पटा वर्पटा रम्या माषकूष्मांडसंभवाः ॥१४॥
वटकान्नवधा रम्यान्कुर्यान्मासे सहे मम ॥
द्विधा जातीमरीचैश्च पूरिता द्रोणके शुभाः ॥१५॥
युक्तेन लवणेनाऽतिशुद्धतैलेन पूरिताः ॥
कुंकुमाभाः स्नेहहीनाः सक्षता इव दुर्जनाः ॥१६॥
दधिदुग्धयुताः केचिच्चिंचिणीचूतसंभवाः ॥
द्राक्षारसयुताः केचित्तथैवेक्षुरसैर्युताः ॥१७॥
राजिका जलमध्यस्थास्तथाऽन्ये सितया सह ॥
रसैश्चतुर्विधैश्चान्यैर्वटका नवधा मताः ॥१८॥
वज्रप्रभाऽनुकणिकाचारबीजसुखारिकैः ॥
शकलैर्नारिकेलस्य लवंगशतसंयुताः ॥१९॥
घृतक्षीरसिताद्यास्ताः कटाहे सुप्रलोडिताः ॥
लब्धासितादिकृसररम्याः स्निग्धाश्च फेणिकाः ॥२०॥
पराकिकासु वै पक्वाः कृताश्चंद्रेण पोलिकाः ॥
मोदकास्तत्र वै कार्याश्चारबीजभवाः परे ॥२१॥
सितया सहिताः कार्या अन्ये दुग्धेन निर्मिताः ॥
नारिकेलफलैश्चाऽन्ये वृक्षनिर्यासनिर्मिताः ॥२२॥
बदामैश्च शुभाश्चाऽन्ये तिलैश्च कणबीजकैः ॥
ईदृशान्मोदकांश्चान्यांस्तुष्ट्यर्थं मम कारयेत् ॥२३॥
अर्शोघ्नं मोचनीकंदं तथाऽऽर्द्रं करमर्दकम् ॥
नारिंगं चिंचिणीकं च कंकोलफलमेव च ॥२४॥
दशारं त्रिपुरीजातं शुभं निंबफलं बिसम् ॥
तिंदूफलं लवंगं च श्रीफलं तिलकं लुति ॥२५॥
वल्कलं वंशकारीरं तथा कायफलं बलम् ॥
द्राक्षाफलं चूतफलं रम्यं कंटकिनीफलम् ॥२६॥
धात्रीफलं शुक्तिभवं फलमंबाडवं तथा ॥
रंभाफलं पिप्पली च मरीचाश्च मनोहराः ॥२७॥
शुद्धसर्षपतैलेन लवणेन सुवेधितम् ॥
तथा राजिकया विद्धं त्रिभिर्वर्षैर्घटे स्थितम् ॥२८॥
एवंविधानि जातानि व्यंजनानि च मानद ॥
कर्तव्यानि सहोमासे मम प्रीतिकराणि वै ॥२९॥
एतादृशे भोजने चेदसामर्थ्यं भवेद्यदि ॥
एवं कार्यं तदा तेन संक्षेपेण शृणुष्व मे ॥३०॥
लड्डूकमेकं घृतपूरमेकं फेनद्वयं कोकरसत्रयं च ॥
घृतप्लुतं मंडकषोडशानां वटाष्टदायी नरकं न पश्येत् ॥३१॥
आढकं सुचिरपर्युषितं च दुग्धं खंडस्य षोडशपलानि शशिप्रभस्य ॥
सर्पिष्पलं मधुपलं मरिचं द्विकर्षं शुंठ्याः पलार्धमथवाऽर्धपलं चतुर्णाम् ॥३२॥
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टां कर्पूरधूलिधवलीकृतभांडसंस्थाम् ॥
एतां शुभां रसवतीं प्रकरोति यो वै कामान्ददामि सकलान्मनुजस्य तस्य ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये नैवेद्यविधिकथनंनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP