मार्गशीर्षमासमाहात्म्यम् - अध्याय १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्रह्मोवाच ॥
कस्मिन्क्षेत्रे हि देवेश मार्गशीर्षोऽधिकः स्मृतः ॥
किं फलं च भवेत्तस्मिन्नेतत्सर्वं वद प्रभो ॥१॥
॥ श्रीभगवानुवाच ॥
मधुरेति सुविख्यातमस्ति क्षेत्रं परं मम ॥
सुरम्या च प्रशस्ता च जन्मभूमिः प्रिया मम ॥२॥
पदेपदे तीर्थफलं मधुरायां चतुर्मुख ॥
यत्रयत्र नरः स्नातो मुच्यते घोरकिल्बिषात् ॥३॥
सर्वधर्मविहीनानां पुरुषाणां दुरात्मनाम् ॥
नरकार्तिहरा पुत्र मधुरा पापनाशिनी ॥४॥
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ॥
मधुरां प्राप्य मनुजो मुच्यते घोरपातकात् ॥५॥
सूर्यौदये तमो नश्येद्यथा वज्रभयान्नगाः ॥
तार्क्ष्यं दृष्ट्वा यथा सर्पा मेघा वातहता यथा ॥६॥
तत्त्वज्ञानाद्यथा दुःखं हरिं दृष्ट्वा यथा गजाः ॥
तथा पापानि नश्यंति मथुरादर्शनात्सुत ॥७॥
श्रद्धया भक्तियुक्तस्तु दृष्ट्वा मधुपुरीं नरः ॥
ब्रह्महाऽपि विशुध्येत किं पुनस्त्वन्यपातकी ॥८॥
मथुरां स्नातुकामस्य गच्छतस्तु पदेपदे ॥
निराशानि व्रजंत्येव पापानि च शरीरतः ॥९॥
अनुषंगेण गच्छंति वाणिज्येनाऽपि सेवया ॥
मधुरास्नानमात्रेण दिवं यांति गतांहसः ॥१०॥
नामाऽपि गृह्णतामस्याः सदा मुक्तिर्न संशयः ॥
सदा कृतयुगं तत्र सदा चैवोत्तरायणम् ॥११॥
यः शृणोति चतुर्वक्त्र माधुरं मम मंदिरम् ॥
अन्येनोच्चारिते सद्यः सोऽपि पापात्प्रमुच्यते ॥१२॥
त्रिरात्रमपि ये तत्र वसंति मनुजाः सुत ॥
तेषां पुनंति सहृष्टाः स्पृष्टाश्चरणरेणवः ॥१३॥
यथा तृणसमूहं तु ज्वलयंति स्फुलिंगकाः ॥
तथा महांति पापानि दहते मथुरा पुरी ॥१४॥
स्नानेन सर्वतीर्थानां यः स्यात्सुकृतसंचयः ॥
ततोऽधिकतरं प्रोक्ता मथुरा सर्वमंडले ॥१५॥
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ॥
तत्पुण्यं जायते तत्र मथुरां स्मरतां नृणाम् ॥१६॥
अन्यत्र हि कृतं पापं तीर्थमासाद्य नश्यति ॥
तीर्थेषु यत्कृतं पापं वज्रलेपो भविष्यति ॥१७॥
मथुरायां कृतं पापं मथुरायां प्रणश्यति ॥
धर्मार्थकाममोक्षाख्यं स्थित्वा तत्र लभेन्नरः ॥१८॥
अन्यत्र दशभिर्वर्षैः प्रारब्धं भुज्यते हि यत् ॥
किल्विषं च चतुर्वक्त्र माथुरे दशभिर्दिनैः ॥१९॥
दिवि नैव न पाताले नांतरिक्षे न मानुषे ॥
समं तु मथुरायां हि प्रियं मम सदैव हि ॥२०॥
सर्वेषामेव तीर्थानां माथुरं परमं महत् ॥
बालक्रीडनरूपाणि कृतानि सह गोपकैः ॥२१॥
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ॥
यत्फलं भारते वर्षे तत्फलं मथुरां स्मरन् ॥२२॥
सन्निहत्यां तु यत्पुण्यं राहुग्रस्ते दिवाकरे ॥
ततोधिकं लभेत्पुत्र मथुरायां दिनेदिने ॥२३॥
पूर्णे वर्षसहस्रे तु तीर्थराजे तु यत्फलम् ॥
तत्फलं लभते पुत्र सहोमासे मधोः पुरे ॥२४॥
पूर्णे वर्षसहस्रे तु वाराणस्यां च यत्फलम् ॥
तत्फलं लभते पुत्र मथुरायां सहो दिने ॥२५॥
गोदावरीद्वारकयोर्नरो यः क्षेत्रे कुरूणां क्षितिदायको यः ॥
षण्मासकात्साधयते गयायां समं भवेन्नो दिनमेकमाथुरम् ॥२६॥
न द्वारका काशिकांची न माया गदाधरो यस्य समं न तीर्थम् ॥
संतर्पिता यद्यमुनाजलेन वांछंति नो वै पितरः पिंडदानम् ॥२७॥
मथुरायां प्रकुर्वंति पुरीसाधारणीदृशम् ॥
ये नरास्तेऽपि विज्ञेयाः पापराशिभिरन्विताः ॥२८॥
न दृष्टा मथुरा येन दिदृक्षा यस्य जायते ॥
यत्र तत्र मृतस्याऽपि माथुरे जन्म जायते ॥२९॥
भूमे रजांसि गणयेत्कालेनाऽपि चतुर्मुख ॥
माथुरे यानि तीर्थानि तेषां संख्या न विद्यते ॥३०॥
कुरु भोः कुरु भो वासं मथुराख्यां पुरीं प्रति ॥
वसामि सततं तस्यां गोपकन्याभिरावृतः ॥३१॥
रेरे संसारमग्नाश्च शिष्या मे शृणुताऽपरे ॥
यदीच्छथ सुखं सांद्रं वासं कुरुत मत्पुरीम् ॥३२॥
अहो लोको महानंदो नेत्रयुक्तो न पश्यति ॥
माथुरे विद्यमानेऽपि संसृतिं भजते सदा ॥३३॥
मानुषीं योनिमतुलां लब्ध्वा भाग्यस्य योगतः ॥
वृथैवायुर्गतं तेषां न दृष्टा मथुरापुरी ॥३४॥
अहो मतेः सुदौर्बल्यमहो भाग्यस्य दुर्विधिः ॥
अहो मोहस्य महिमा मथुरा नैव सेव्यते ॥३५॥
मथुरां तु परित्यज्य योऽन्यत्र कुरुते मतिम् ॥
मूढो भ्रमति संसारे मोहितो मम मायया ॥३६॥
मथुरामपि संप्राप्य योऽन्यत्र कुरुते स्पृहाम् ॥
दुर्बुद्धेस्तस्य किं ज्ञानं सोऽज्ञानेन विजृंभितः ॥३७॥
मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ॥
येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः ॥३८॥
पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ॥
येषां क्वापि गतिर्नास्ति तेषां मम पुरी गतिः ॥३९॥
सारात्सारतरं स्थानं गुह्याद्गुह्यतरं परम् ॥
गतिमन्वेषमाणानां मथुरा परमा गतिः ॥४०॥
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तु स्तवैः ॥
न लभ्यं विविधैर्योगैर्लभ्यं मदनुभावतः ॥४१॥
मयि येषां स्थिरा भक्तिर्भूयसी येषु मत्कृपा ॥
तेषामेव हि धन्यानां मथुरायां भवेद्गतिः ॥४२॥
या गतिर्योगयुक्तस्य ब्रह्मज्ञस्य मनीषिणः ॥
सा गतिस्त्यजतः प्राणान्मथुरायां नरस्य च ॥४३॥
काश्यादिपुर्यो यदि संति लोके तासां तु मध्ये मथुरैव धन्या ॥
या जन्ममौंजीव्रतमुक्तिदानैर्नृणां चतुर्धा विदधाति मुक्तिम् ॥४४॥
न योगैर्या गतिर्लभ्या मन्वंतरशतैरपि ॥
अन्यत्र हेलया साऽत्र लभ्यते मत्प्रसादतः ॥४५॥
न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ॥
न गर्भवासभीर्यत्र तत्क्षेत्रं को न संश्रयेत् ॥४६॥
मथुरायां च यत्पुण्यं तत्पुण्यस्य फलं शृणु ॥
मथुरायां समासाद्य मथुरायां मृता हि ये ॥४७॥
अपि कीटपतंगाद्या जायंते ते चतुर्भुजाः ॥
कूलात्पतंति ये वृक्षास्तेऽपि यांति परां गतिम् ॥४८॥
मूका जडांधबधिरास्तपोनियमवर्जिताः ॥
कालेनैव मृता ये च मम लोकं व्रजंति ते ॥४९॥
सर्पदष्टाः पशुहताः पावकांबुविनाशिताः॥
लब्धाऽपमृत्यवो ये च माथुरे मम लोकगाः ॥५०॥
सत्यं सत्यं मुनिश्रेष्ठ ब्रुवे शपथपूर्वकम् ॥
सर्वाऽभीष्टप्रदं नान्यन्मथुरायाः समं क्वचित् ॥६१॥
त्रिवर्गदा कामिनां या मुमुक्षूणां च मुक्तिदा ॥
भक्तीच्छोर्भक्तिदा कस्तां मथुरां नाऽऽश्रयेद्बुधः ॥५२॥
एतादृशी मधुपुरी कर्त्तव्या मार्गशीर्षके ॥
तदभावे पुष्करं हि कर्तव्यं विधिपूर्वकम् ॥५३॥
ज्येष्ठं हि ब्रह्मणः कुण्डं मध्यं कुण्डं च वैष्णवम् ॥
कनिष्ठं रुद्रदैवत्यमिति जानीहि बुद्धिमन् ॥५४॥
एषु स्नानं च दानं च श्राद्धं च विधिपूर्वकम् ॥
पूजा च महती कार्या मम प्रीतिकरा सुत ॥५५॥
पूर्णा या तु भवेत्पुत्र सहोमासे मम प्रिया ॥
तस्यां यत्क्रियते पुण्यं मम प्रीतिकरं भवेत् ॥५६॥
गोदानमन्नदानं च हेमदानं च पुत्रक ॥
धरादानं च कर्तव्यं पूर्णायां विधिपूर्वकम् ॥५७॥
सहोमासे हि पूर्णायां सद्मदानं च कारयेत् ॥
यत्किंचित्क्रियते पूर्णं तदक्षय्यफलं भवेत् ॥५८॥
ब्रह्मभोज्यं हि कर्तव्यं यथाविभवसारतः ॥
पूर्णायामेव कर्तव्य उत्सवो व्रतपूर्त्तये ॥५९॥
यादृशी मथुरा पुत्र सहोमासे मम प्रिया ॥
न तथा तीर्थराजाद्यास्तदभावे च पुष्करम् ॥६०॥
पुष्करे मथुरायां वै पूर्णा कार्या विचक्षणैः ॥
यत्र कुत्रापि वा कार्या विधियुक्ता च पूर्णिमा ॥६१॥
स्नानं दानं तथा पूजां पूर्णायां न करोति यः ॥
षष्टिवर्षसहस्राणि पच्यते रौरवादिषु ॥६२॥
तस्मात्सर्वप्रयत्नेन मान्या पूर्णा विचक्षणैः ॥
मार्गशीर्षेण संयुक्ता अनंतफलदायिनी ॥६३॥
यथा ते कथितं वत्स मार्गशीर्षं मम प्रियम् ॥
करोति यो नरो भक्त्या तस्य पुण्यफलं शृणु ॥६४॥
तीर्थायुतेषु यत्पुण्यं यत्पुण्यं व्रतकोटिभिः ॥
सर्वयज्ञेषु यत्पुण्यं तत्पुण्यं समवाप्नुयात् ॥६५॥
अपुत्रो लभते पुत्रं निर्धनो धनमेव च ॥
विद्यार्थी च तथा विद्यां रूपार्थी रूपमाप्नुयात् ॥६६॥
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥
वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात् ॥६७॥
यद्दुर्लभं च दुष्प्राप्यं त्रिषु लोकेषु मानद ॥
तत्सर्वं प्राप्नुयान्मर्त्यः सहोमासे न संशयः ॥६८॥
यद्यप्येतेषु कामेषु सक्ता ये मानवाः सुत ॥
तुष्टा ह्यंते चतुर्वक्त्र न कामार्हा महाभुज ॥६९॥
सुदुर्लभा हि सद्भक्तिर्मम वश्यकरी शुभा ॥
सा वै संप्राप्यते पुत्र सहोमासे श्रुते तथा ॥७०॥
मम प्रीतिकरं मासं सर्वदा मम वल्लभम् ॥
सर्वं संप्राप्यतेऽमुष्मान्मत्प्रसादाच्चतुर्मुख ॥७१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मथुरामाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : November 10, 2024
TOP