मार्गशीर्षमासमाहात्म्यम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीभगवानुवाच ॥
शृणु पुत्र प्रवक्ष्यामि जागरस्य च लक्षणम् ॥
येन विज्ञातमात्रेण सुलभोऽहं सदा कलौ ॥१॥
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ॥
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ॥२॥
फलार्पणं च श्रद्धां च दानमिंद्रियसंयमम् ॥
सत्यान्वितं विनिद्रं च मुदा मद्यजनान्वितम् ॥३॥
साश्चर्यं चैव सोत्साहं पापालस्यादिवर्जनम् ॥
प्रदक्षिणासमायुक्तं नमस्कारपुरःसरम् ॥४॥
नीराजनसमायुक्तमतिहृष्टेन चेतसा ॥
यामेयामे महाभाग कुर्यादारार्तिकं मम ॥५॥
षड्विंशद्गुणसंयुक्तमेकादश्यां च जागरम् ॥
यः करोति नरो भक्त्या न पुनर्जायते भुवि ॥६॥
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥
जागरं परया भक्त्या स लीनो जायते मयि ॥७॥
दष्टाः कलिभुजंगेन स्वपन्ते ये दिने मम ॥
कुर्वंति जागरं नैव मायापाशविमोहिताः ॥८॥
प्राप्ताप्येकादशी येषां कलौ जागरणं विना ॥
ते विनष्टा न संदेहो यस्माज्जीवितमध्रुवम् ॥९॥
उद्धृतं नेत्रयुग्मं च दत्त्वा वै हृदये पदम् ॥
कृतं ये नैव पश्यंति पापिनो मम जागरम् ॥१०॥
अभावे वाचकस्याऽथ गीतं नृत्यं च कारयेत् ॥
वाचके सति देवेश पुराणं प्रथमं पठेत् ॥११॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
पुण्यं कोटिगुणं पुत्र मम जागरणे कृते ॥१२॥
पितृपक्षे मातृपक्षे भार्यापक्षे च मानद ॥
कुलान्युद्धरते चैतन्मम जागरणे कृते ॥१३॥
उपोषणदिने विघ्ने प्रारब्धे जागरे सति ॥
विहाय स्थानं तत्राहं शापं दत्त्वा व्रजाम्यहम् ॥१४॥
अविद्धवासरे ये मे प्रकुर्वंति हि जागरम् ॥
तेषां मध्ये प्रहृष्टः सन्नृत्यं वै प्रकरोम्यहम् ॥१५॥
यावद्दिनानि कुरुते जागरं मम सन्निधौ ॥
युगाऽयुतानि तावंति वसते मम वेश्मनि ॥१६॥
न गयापिंडदानेन न तीर्थैर्बहुभिर्मखैः ॥
पूर्वजा मुक्तिमायांति विनैकादशिजागरात् ॥१७॥
यः कुर्याज्जागरे पूजां कुसुमैर्मम वासरे
पुष्पेपुष्पेऽश्वमेधस्य फलमाप्नोति मानवः ॥१-॥
यः कुर्याद्दीपदानं च रात्रौ जागरणे मम ॥
निमिषे निमिषे पुत्र लभते गोऽयुतं फलम् ॥१९॥
यो दद्याज्जागरे पुत्र हविष्यान्नसमुद्भवम् ॥
नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम् ॥२०॥
पक्वान्नानि च यो दद्यात्फलानि विविधनि च ॥
जागरे मे चतुर्वक्त्र लभते गोशतं फलम् ॥२१॥
कर्पूरेण च तांबूलं ददाति मम जागरे ॥
मद्भक्तो मत्प्रसादेन सप्तद्वीपाऽधिपो भवेत् ॥२२॥
जागरे मम देवेश यः कुर्यात्पुष्पमण्डपम् ॥
स पुष्पकविमानेन क्रीडते मम सद्मनि ॥२३॥
जागरे मे तु यो धूपं सकर्पूरं सगुग्गुलम्॥
ददाति दहते पापं जन्मलक्षसमुद्भवम् ॥२४॥
स्नापयेज्जागरे यो मां दधिक्षीरघृतांबुकैः ॥
भोगानिह लभेद्वै स ह्यन्ते च परमां गतिम् ॥२५॥
दिव्यांऽबराणि यो दद्यात्फलानि विविधानि च ॥
स चिरं वसते स्वर्गे तं तु संख्यासमानि वै ॥२६॥
दद्यादाभरणं यो मे हेमजं रत्नसंभवम् ॥
सप्तकल्पानि वसते सोत्संगे मत्प्रियो मम ॥२७॥
घृतेन दीपकं यो मे गव्येन च विशेषतः ॥
ज्वालयेज्जागरे रात्रौ निमिषे गोयुतं फलम् ॥२८॥
जागरे मे चतुर्वक्त्र कर्पूरेण च दीपकम् ॥
यो ज्वालयेत नीराजं कपिलादानजं फलम् ॥२९॥
यः पुनः कुरुते दीपं गीतं नृत्यं च पूजनम् ॥
शतक्रतुसमं पुण्यं व्रतैर्दानशतैरपि ॥३०॥
स्वयं यः कुरुते गीतं विलज्जो नृत्यते यदि ॥
स लभेन्निमिषार्धेन कोटियज्ञकृतं फलम् ॥३१॥
निवारयति यो गीतं नृत्यं जागरणे मम ॥
षष्टियुगसहस्राणि पच्यते रौरवादिषु ॥३२॥
नृत्यमानस्य मर्त्यस्य ये केचिन्निकटे गताः ॥
विमुक्ता धर्मराजेन मुक्ता यांति च मत्पदम् ॥३३॥
नृत्यमानस्य मर्त्यस्य उपहासं करोति यः ॥
जागरे यांति निरयं यावदिंद्राश्चतुर्दश ॥३४॥
जागरे मम यः कुर्याद्भक्त्या पुस्तकवाचनम् ॥
श्लोकसंख्यायुगान्येव स वसेन्मम सन्निधौ ॥३५॥
प्रदक्षिणाप्रदानेन यत्फलं कथितं बुधैः ॥
न तत्कोटिमखैः पुण्यं युगसंख्यैरवाप्यते ॥३६॥
दीपमाला ममाग्रे वै यः कुर्याज्जागरे सुत ॥
विमानकोटिसंयुक्त आकल्पं वसते दिवि ॥३७॥
मम बालचरित्राणि जागरे पठते हि यः॥
युगकोटिसहस्राणि श्वेतद्वीपे वसेन्नरः॥३८॥
तस्माज्जागरणं कार्यं पक्षयोः शुक्लकृष्णयोः ॥३९॥
यो गीतां पठते रात्रौ मम नामसहस्रकम्॥
वेदोक्तानां पुराणानां जागरात्पुण्यमाप्नुयात्॥ ४०॥
धेनुदानं तु यः कुर्याज्जागरे मम पु्त्रक॥
लभते नात्र संदेहः सप्तद्वीपवतीफलम् ॥४१॥
सर्वेषामेव पुण्यानां महत्पुण्यं महीतले ॥
द्वादशीजागरं पुत्र प्रसिद्धं भुवनत्रये ॥४२॥
जागरं ये च कुर्वंति कर्मणा मनसा गिरा ॥
न तेषां पुनरावृत्तिर्मम लोकात्कथंचन ॥४३॥
प्रोत्साहयित्वा लोकान्यः कुरुते जागरं निशि ॥
प्राप्नोति चक्रवर्तित्वं सत्यं मे व्याहृतं सुत ॥४४॥
संमानिताः ककुत्स्थेन रात्रौ जागरकारिणः॥
स्वशक्त्या चैव दानेन प्राप्तं राज्यं सुदुर्लभम् ॥४५॥
ये केचिद्गायका विप्रा वादका नर्तकाश्च ये ॥
नर्तकीसहिता यांति मम लोके सनातने॥४६॥
दुर्योनिषु गतैः सर्वैः कृत्वा जागरणं मम॥
संप्राप्तं पृथिवीशत्वं कामुकैर्मुनिसत्तम॥४७॥
निष्कामा मुक्तिमापन्नाः श्वपचाद्याश्च जागरात्॥
विवेको नास्ति वर्णानां मम जागरकारिणाम्॥४८॥
न कलौ पावनं ध्यानं न कलौ जाह्नवीजलम् ॥
न कलौ पावनं जाप्यं मुक्त्वैकं जागरं मम ॥४९॥
द्वादशीदिवसे प्राप्ते ये कुर्वंति हि जागरम् ॥
ते धन्यास्ते कृतार्था वै कलिकाले न संशयः ॥५०॥
न भूयान्मानुषे लोके द्वादशीविमुखो नरः ॥
अतीतानागतान्वाऽपि पातयेन्नरके हि सः ॥५१॥
वरमेको गुणैर्युक्तः किं जातैर्बहुभिः सुतैः ॥
द्वादशीजागरात्सर्वांस्तारयेद्यो हि पूर्वजान् ॥५२॥
माहात्म्यं पठते भक्त्या मयोक्तं जागरोद्भवम् ॥
द्वादशीसंभवः पुत्रः कुलानां तारयेच्छतम् ॥५३॥
अगम्यागमने पापमभक्ष्यस्यापि भक्षणे ॥
पापं विलयमायाति कृते जागरणे सुत ॥५४॥
अज्ञानाद्यत्कृतं पापं ज्ञात्वा यत्पातकं कृतम् ॥
पूर्वजन्मार्जितं पापमिह जन्मनि यत्कृतम् ॥५५॥
सिद्ध्यंति सर्वकार्याणि मनसा चिंतितान्यपि ॥
द्वादश्यां वै चतुर्वक्त्र रात्रौ जागरणे कृते ॥५६॥
द्वादशीजागरेणैव मुक्तिं गच्छंति मानवाः ॥५७॥
न तत्पुण्यं कुरुक्षेत्रे प्रयागे वसतां कलौ ॥
माहात्म्यं वसतां पुंसां यत्फलं द्वादशीषु च ॥५८॥
नाऽश्वमेधसहस्रैस्तु तीर्थकोट्यवगाहनात् ॥
तत्फलं प्राप्यते पुत्र द्वादशीजागरे कृते ॥५९॥
पठेद्वा शृणुयाद्वाऽपि माहात्म्यं द्वादशीभवम् ॥
सर्वपापविशुद्धात्मा स लभेच्छाश्वतीं गतिम् ॥६०॥
सर्वे दुष्टाः समस्ताश्च सौम्यास्तस्य सदा ग्रहाः ॥
संततेर्न वियोगस्तु द्वादशी यस्य कारणम् ॥६१॥
मम कीर्तिरुचिर्नित्यं न विपद्येत कर्हिचित् ॥
रणे राजकुले चैव सर्वदा विजयी भवेत् ॥६२॥
धर्मोपरि मतिर्नित्यं भक्तिर्मयि सुनिर्मला ॥
पातकं नैव लिप्येत द्वादशीभक्तितो नरम् ॥६३॥
प्रेतत्वं नैव तस्याऽस्ति कृते जागरणे मम ॥
एकादश्या विहीनस्य परलोकगतिर्नहि ॥
तस्मात्सर्वप्रयत्नेन कलौ कार्यं हि तद्दिनम् ॥६४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णु संवादे मार्गशीर्षमासमाहात्म्य एकादशीव्रतजागरणफलकथनंनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP