मार्गशीर्षमासमाहात्म्यम् - अध्याय १०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्रह्मोवाच ॥
नैवेद्यानंतरं तात किं कर्तव्यं नृभिः प्रभो ॥
यत्कर्तव्यं सहोमासे तत्सर्वं ब्रूहि तत्त्वतः ॥१॥
श्रीभगवानुवाच ॥
अथ भुक्तवते दत्त्वा जलैः कर्पूरवासितैः ॥
आचमनं च तांबूलं चंदनं करमार्जनम् ॥२॥
पुष्पांजलिं ततः कुर्याद्भक्त्याऽऽदर्शं प्रदर्शयेत् ॥
नीराजनं ततः कार्यं कार्पूरं विभवे सति ॥३॥
समर्प्य मुकुटादीनि भूषणानि विचक्षणः ॥
ततः पश्चान्महाभाग प्रकल्प्य च्छत्रचामरे ॥४॥
प्रसादसुमुखं ध्यात्वा श्यामसुंदरविग्रहम् ॥
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ॥५॥
शंखरौप्यमयी माला कांचनी च विशेषतः ॥
पद्माक्षैश्चैव सुभगैर्विद्रुमैर्मणिमौक्तिकैः ॥६॥
रचितेंद्राक्षकैर्माला तथैवांगुलिपर्वभिः ॥
पुत्रजीवमयी माला शस्ता वै जपकर्मणि ॥७॥
न च क्रमन्न च हसन्न पार्श्वमवलोकयन् ॥
न पदा पदमाक्राम्य करप्राप्तशिरास्तथा ॥८॥
नोत्तिष्ठन्मन्मनुं विद्वान्न जपेद्व्यग्रमानसः ॥
जपकाले न भाषेत व्रतहोमार्चनादिषु ॥९॥
गृहेष्वेकगुणंजाप्यं गोष्ठे दशगुणं भवेत् ॥
नदीतीरे शतं विद्यादग्न्यगारे दशाऽधिकम् ॥१०॥
तीर्थादिषु सहस्रं स्यादनंतं मम सन्निधौ ॥
एवं कृत्वा सहोमासे यः कुर्याच्च प्रदक्षिणाम् ॥११॥
सप्तद्वीपवतीपुण्यं लभते स पदेपदे ॥
पठन्नामसहस्रं तु अथवा नाम केवलम् ॥१२॥
एका प्रदक्षिणा भक्त्या दहेत्पापं सदाऽऽह्निकम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥१३॥
दिनसप्तोद्भवं पापं मम तिस्रः प्रदक्षिणाः ॥
तत्क्षणान्नाशयंत्येव पापं देहे दशाऽऽह्निकम् ॥१४॥
कृताः प्रदक्षिणा येन एकविंशति भक्तितः ॥
भ्रूणहत्यादिपापानि नाशमायांति तत्क्षणात् ॥१५॥
अष्टोत्तरशतं येन कृता भक्त्या प्रदक्षिणाः ॥
तेनेष्टं क्रतुभिः सर्वैः समाप्तवरदक्षिणैः ॥१६॥
प्रदक्षिणीकृता तेन तावद्वारं वसुन्धरा ॥
मातुः प्रदक्षिणास्तद्वद्भूतधात्रीप्रदक्षिणाः ॥१७॥
शालिग्रामशिलायाश्च सममेतत्त्रयं स्मृतम् ॥
एको दंडप्रपातश्च सहे सप्तप्रदक्षिणाः ॥१८॥
सममेतद्द्वयं नो वा दंडपातो विशिष्यते ॥
प्रदक्षिणे दंडपातं यः करोति सदा मम ॥१९॥
सहोमासे विशेषेण आकल्पं स वसेद्दिवि ॥
कल्पादनंतरं तात चक्रवर्ती प्रजायते ॥२०॥
चिरायुर्धनवान्भोगी दानवान्धर्मवत्सलः ॥
सहस्रनामपठनात्पापं नश्येत्त्रिधा कृतम् ॥२१॥
अथ किं बहुनोक्तेन शृणु गुह्यं च मे सुत ॥
दामोदरेति नाम्ना वै भवेत्प्रीतिर्ममाऽतुला ॥२२॥
गुणसंबंधि मन्नाम कृतं मात्रा यशोदया ॥
यदा मे दधिभांडस्य स्फोटनं गोकुले कृतम् ॥२३॥
तदा यशोदया गाढं बद्धो दाम्ना ह्युलूखले ॥
ततः प्रभृति मे नाम ख्यातं दामोदरेति च॥२४॥
नमो दामोदरायेति जपेद्यः सुसमाहितः ॥
सूर्योदये शुचिर्भूत्वा त्रिसहस्रं दिनेदिने ॥२५॥
सार्द्धलक्षत्रयं यावत्तत उद्यापयेद्बुधः ॥
तर्पणं हवनं चैव ब्रह्मभोज्यं दशांशतः ॥२६॥
एवं यः कुरुते भक्त्या तस्य यच्छामि वांछितम् ॥
धनं धान्यं तथा दारान्पुत्रांश्चान्यच्च वांछितम् ॥२७॥
त्रिसत्येन मया चोक्तं श्रद्धत्स्व त्वं महामते ॥
मंत्रराजमिमं पुत्र कृपया मे प्रकाशितम् ॥२८॥
दामोदरायेति पठन्नित्यं कुर्यात्प्रदक्षिणम्॥
दंडपातं तथा पुत्र अष्टांगेन समन्वितम् ॥२९॥
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा तथा ॥
मनसा वचसा दृष्टवा प्रणामोष्टांग उच्यते ॥३०॥
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्॥
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहाऽर्णवात् ॥३१॥
पश्चाच्छेषां मया दत्तां शिरस्याधाय सादरम् ॥
एवं ब्रूयात्ततो वत्स मम पूजाप्रपूर्त्तये ॥३२॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ॥
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥३३॥
मृदंगवाद्येन समं प्रणवेन सुसंयुतम् ॥
एवं कार्यं सहोमासे नृत्यं पुण्यप्रदं नृणाम् ॥३४॥
गीतं वाद्यं च नृत्यं च तथा पुस्तकवाचनम् ॥
पूजाकाले चतुर्वक्त्र सर्वदा मम च प्रियम् ॥३५॥
गीतवाद्याद्यभावे च मम नामसहस्रकम् ॥
स्तवराजं तथा पुत्र गजेंद्रस्य च मोक्षणम् ॥३६॥
अनुस्मृतिश्च गीता च स्तवनं पंचधा मतम् ॥
पंचस्तवं महाभाग मम प्रीतिकरं परम्॥३७॥
पादोदकं पिबेद्यो वै शालिग्रामसमुद्भवम् ॥
पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्॥३८॥
शालिग्रामशिलातोयं यः पिबेद्बिंदुना समम् ॥
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्नरः॥ ३९॥
आशौचं नैव विद्येत सूतके मृतकेऽपि च ॥
येषां पादोदकं मूर्ध्नि प्राशनं ये प्रकुर्वते ॥४०॥
अंतकालेऽपि यस्येदं दीयते पादयोर्जलम् ॥
सोऽपि सद्गतिमाप्नोति सदाचारबहिष्कृतः ॥४१॥
अपेयं पिबते यस्तु भुंक्ते यद्यप्यभोजनम् ॥
अगम्यागमनो यो वै पापाचारश्च यो नरः ॥४२॥
सोऽपि पूतो भवत्याशु सद्यः पादांबुधारणात् ॥
चांद्रायणात्पादकृच्छ्रादधिकं पादयोर्जलम् ॥४३॥
अगुरुं कुंकुमं वाऽपि कर्पूरं चाऽनुलेपनम् ॥
मम पादांबुसंस्पृष्टं तद्वै पावनपावनम् ॥४४॥
दृष्टिपूतं तु यत्तोयं भवेद्वै विप्रसत्तम ॥
तद्वै पापहरं नृणां किं पुनः पादयोर्जलम् ॥४५॥
प्रियस्त्वं मेऽग्रजः पुत्रो विशेषेण च मत्प्रियः ॥
तदर्थं कथितं सर्वं रहस्यं यच्च मे स्थितम् ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये पूजाविधिसमापनं तदुद्यापनं तत्फलकथनयोगोनाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : November 10, 2024
TOP