संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः २

उपशमप्रकरणम् - सर्गः २

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवाल्मीकिरुवाच ।
ते समेत्य गृहं गत्वा राजपुत्राः शशित्विषः ।
चक्रुः सर्वमशेषेण स्वसद्मसु दिनक्रमम् ॥१॥
वसिष्ठो राघवश्चैव राजानो मुनयो द्विजाः ।
इति चक्रुः स्वकार्याणि तथा स्वगृहवीथिषु ॥२॥
सस्नुः कमलकह्लारकुमुदोत्पलहारिषु ।
जलाशयेषु चक्राह्वहंससारसराजिषु ॥३॥
गोभूतिलहिरण्यानि शयनान्यासनानि च ।
ददुर्दानानि विप्रेभ्यो भाजनान्यंशुकानि च ॥४॥
हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु ।
आनर्चुरच्युतेशानहुताशार्कादिकान्सुरान् ॥५॥
पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैः सह ।
तत आस्वादयामासुर्भोजनान्युचितानि वै ॥६॥
एतस्मिन्समये चास्मिन्नगरे दिवसोऽभवत् ।
तनुरष्टाङ्गशेषत्वाद्दृष्टो न च मनोहरः ॥७॥
सायन्तनदिनान्तं ते तत्कालोचितचेष्टया ।
अनयन्नंशुभिः सार्धं यावदस्तं ययौ रविः ॥८॥
संध्यां ववन्दिरे सुष्टु जेपुश्चैवाघमर्षणम् ।
पेठुः स्तोत्राणि पुण्यानि जगुर्गाथा मनोहराः ॥९॥
ततश्चाभ्युदिता श्यामा कामिनीशोकहारिणी ।
क्षीरोदादिव माहेन्द्री चन्द्रावश्यायदायिनी ॥१०॥
शनैरास्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु ।
दीर्घेन्दुबिम्बरम्येषु तस्थुस्तल्पेषु राघवाः ॥११॥
अथ रामादृतेऽन्येषां तत्र तद्व्यवहारिणी ।
व्यतीयाय शनैः श्यामा मुहूर्त इव शोभना ॥१२॥
तस्थौ रामस्तु तामेव वासिष्ठीं वचनावलीम् ।
चिन्तयन्मधुरोदारां करिणीं कलभो यथा ॥१३॥
किमिदं नाम संसारभ्रमणं किमिमे जनाः ।
भूतानि च विचित्राणि किमायान्ति प्रयान्ति किं ॥१४॥
मनसः कीदृशं रूपं कथं चैतत्प्रशाम्यति ।
मायेयं सा किमुत्था स्यात्कथं चैव निवर्तते ॥१५॥
निवृत्तयानया कः स्याद्गुणो दोषोऽथ वा भवेत् ।
कथमात्मनि चैवायं तते संकोच आगतः ॥१६॥
किमुक्तं स्याद्भगवता मुनिना मनसः क्षये ।
किं चेन्द्रियजये प्रोक्तं किमुक्तमथवात्मनि ॥१७॥
जीवश्चित्तं मनो मायेत्येवमादिभिराततैः ।
रूपैरात्मैव संसारं तनोतीममसन्मयम् ॥१८॥
एभिरेवं मनोमात्रतन्तुबद्धैः क्षयं गतैः ।
दुःखोपशान्तिरेतानि सुचिकित्स्यानि नः कथम् ॥१९॥
भोगाभ्रमालावलयां धीबलाकामिमां कथम् ।
पृथक्करोमि पयसो धारां हंस इवाम्भसः ॥२०॥
भोगास्त्यक्तुं न शक्यन्ते तत्त्यागेन विना वयम् ।
प्रभवामो न विपदामहो संकटमागतम् ॥२१॥
मनोमात्रमिदं प्राप्यं तथैवेदं प्रयोजनम् ।
संपन्नं नो गिरिगुरु मौर्ख्याद्यक्षः शिशोरिव ॥२२॥
परमां शान्तिमागत्य गतसंसारसंभ्रमा ।
बालेव लब्धदयिता कंचित्प्राप्स्यति नो मतिः ॥२३॥
कदोपशान्तसंरम्भं विगताशेषकौतुकम् ।
अपापमात्मविश्रान्तं मम स्यात्पावनं मनः ॥२४॥
कलाकलापसंपूर्णाच्छशाङ्कादपि शीतले ।
पदे सुरूढं विश्रम्य भ्रमिष्यामि कदा जगत् ॥२५॥
कलनापेलवं रूपमुत्सृज्यालीनमात्मनि ।
कदैष्यति मनः शान्तिमम्भसीव तरङ्गकः ॥२६॥
तृष्णातरङ्गाकुलितमाशामकरमालिनम् ।
कदा संसारजलधिं तीर्त्वा स्यामहमज्वरः ॥२७॥
कदोपशमशुद्धासु पदवीषु विचक्षणाः ।
मुमुक्षूणां निवत्स्यामो निःशोकं समदर्शनाः ॥२८॥
संतापितसमस्ताङ्गः सर्वधातुभयंकरः ।
संसृतिज्वर आदीर्घः कदा नाशमुपैष्यति ॥२९॥
निर्वातदीपलेखेव कदा चित्तं गतव्यथम् ।
शममेष्यति हे बुद्धे सुप्रकाशघनान्तरम् ॥३०॥
कदेन्द्रियाणि दुःखेभ्यः संतरिष्यन्ति हेलया ।
दुरीहादग्धदेहानि गरुत्मन्त इवार्णवान् ॥३१॥
अयं सोऽहं रुदन्मूढ इति व्यर्थाहितो भ्रमः ।
शरदीवासितो मेघः कदा नाशमुपैष्यति ॥३२॥
मन्दारवनलेखासु या मतिः सा तृणायते ।
याचे तत्पदमात्मीयं संप्राप्स्यामः कदा वयम् ॥३३॥
वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः ।
कच्चित्पदं त्वयि मनः करिष्यन्तीति मे वद ॥३४॥
हा तात मातः पुत्रेति गिरामासामहं पुनः ।
भाजनं चित्त माभूवं भोजनं दुःखभोगिनाम् ॥३५॥
हे बुद्धे भगिनि भ्रातुरर्थितां पूरयाशु मे ।
आवयोर्दुःखमोक्षाय विचारय मुनेर्गिरः ॥३६॥
त्वां पादपतितः प्रीत्या याचे सति सुते मते ।
तेन भव्ये भवोच्छेदभूतये सुस्थिरा भव ॥३७॥
वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः ।
ततो मुमुक्षोराचार उत्पत्तीनां क्रमस्ततः ॥३८॥
ततः स्थितिप्रकरणं समं दृष्टान्तसुन्दरम् ।
विज्ञानगर्भसुलभं यथावत्स्मर हे मते ॥३९॥
कृतमतिं शतशो विचारितं यद्यदि तदुपैति न मानसस्य बुद्धिः ।
भवति तदफलं शरद्धनाभं सततमतो मतिरेव कार्यसारः ॥४०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उपदेशानुवर्णनं नाम द्वितीयः सर्गः ॥२॥

N/A

References : N/A
Last Updated : September 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP