उपशमप्रकरणम् - सर्गः ६८
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
कीदृशो भगवन्सङ्गः कथं बन्धाय वा नृणाम् ।
कश्च मोक्षाय कथितः कथं वैष चिकित्स्यते ॥१॥
श्रीवसिष्ठ उवाच ।
देहदेहिविभागैकपरित्यागेन भावनात् ।
देहमात्रे तु विश्वासः सङ्गो बन्धार्ह उच्यते ॥२॥
अनन्तस्यात्मतत्त्वस्य सपर्यन्तत्वनिश्चये ।
यत्सुखार्थित्वमन्तः स सङ्गो बन्धार्ह उच्यते ॥३॥
सर्वमात्मेदमखिलं किं वाञ्छामि त्यजामि किम् ।
इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् ॥४॥
नाहमस्मि न चान्योऽस्ति मा भवन्तु भवन्तु वा ।
सुखान्यसक्त इत्यन्तः कथ्यते मुक्तिभाङ्नरः ॥५॥
नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते ।
सुसमो यः फलत्यागी सोऽसंसक्त इति स्मृतः ॥६॥
आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः ।
यस्य नायात्यसक्तोऽसौ जीवन्मुक्तः स कथ्यते ॥७॥
सर्वकर्मफलादीनां मनसैव न कर्मणा ।
निपुणं यः परित्यागी सोऽसंसक्त इति स्मृतः ॥८॥
असंसङ्गेन सकलाश्चेष्टा नाना विजृम्भिताः ।
चिकित्सिता भवन्तीह श्रेयः संपादयन्ति च ॥९॥
संसक्तिवशतः सर्वे वितता दुःखराशयः ।
प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् ॥१०॥
रज्जुकृष्टघनघ्राणो यद्गत्या पथि गर्दभः ।
भारं वहति भीतात्मा तत्संसक्तिविजृम्भितम् ॥११॥
शीतवातातपक्लेशमेकदेशनिषण्णया ।
तरुर्वहति यत्तन्वा तत्संसक्तिविजृम्भितम् ॥१२॥
धराविवरनिर्मग्नो यत्कीटः पीडिताङ्गकः ।
क्षिणोति विकलः कालं तत्संसक्तिविजृम्भितम् ॥१३॥
क्षुत्क्षामकुक्षिः क्षपयत्यायुर्व्याघातभीरुधीः ।
पक्षी वृक्षशिखाशायी तत्संसक्तिविजृम्भितम् ॥१४॥
दूर्वाङ्कुरतृणाहारः किरातशरपीडया ।
जहाति यन्मृगो देहं तत्संसक्तिविजृम्भितम् ॥१५॥
कृमिकीटत्वमायान्ति जायमानाः पुनःपुनः ।
यदिमा जनता जीर्णास्तत्संसक्तिविजृम्भितम् ॥१६॥
उत्पत्त्योत्पत्त्य लीयन्ते तरङ्गिणि तरङ्गवत् ।
भूतानि यदनन्तानि तत्संसक्तिविजृम्भितम् ॥१७॥
वीरुत्तृणदशां याता म्रियन्ते यत्पुनःपुनः ।
नरा विगतसंचारास्तत्संसक्तिविजृम्भितम् ॥१८॥
रसातलरसायोगात्तृणगुल्मलतादयः ।
जनयन्ति यदाकारं तत्संसक्तिविजृम्भितम् ॥१९॥
स्वानर्थान्तरसंकाशपदार्थशतसंकुला ।
यत्संसारनदी मत्ता तत्संसक्तिविजृम्भितम् ॥२०॥
संसक्तिर्द्विविधा प्रोक्ता वन्द्या वन्ध्या च राघव ।
वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा ॥२१॥
आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा ।
भूयः संसारसक्तिर्या दृढा वन्ध्येति कथ्यते ॥२२॥
आत्मतत्त्वावबोधेन सत्यभूतविवेकजा ।
वन्द्या हि कथ्यते सक्तिर्भूयः संसारवर्जिता ॥२३॥
शङ्खचक्रगदाहस्तो देवो विविधयेहया ।
वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम् ॥२४॥
अनारतनिरालम्बं व्योम वर्त्मनि पान्थताम् ।
वन्द्यसंसक्तिवशतः करोति रविरन्वहम् ॥२५॥
महाकल्पसमाधानचिरकल्पितकल्पनम् ।
वन्द्यसंसक्तिवशतो ब्राह्मं स्फुरति वै वपुः ॥२६॥
लीलया ललनालानलीनं भूतिविभूषितम् ।
वन्द्यसंसक्तिवशतः शरीरं शाङ्करं स्थितम् ॥२७॥
विज्ञानगतयः सिद्धा लोकपालास्तथेतरे ।
वन्द्यसंसक्तिवशतस्तिष्ठन्ति जगतोऽङ्गणे ॥२८॥
धत्ते शारीरयन्त्रौघमन्या भुवनसंततिः ।
वन्द्यसंसक्तिवशतो जरामृतिविवर्जितम् ॥२९॥
मनः पतति भोगेषु गृध्रो मांसलवेष्विव ।
वन्द्यसंसक्तिवशतो व्यर्थया रम्यशङ्कया ॥३०॥
संसक्तिवशतो वाति वायुर्भुवनकोटरे ।
पञ्चभूतानि तिष्ठन्ति वहतीयं जगत्स्थितिः ॥३१॥
दिवि देवा भुवि नराः पाताले भोगिनोऽसुराः ।
ब्रह्माण्डोदुम्बरफले स्फुरन्मशकवत्स्थिताः ॥३२॥
जायन्ते च म्रियन्ते च निपतन्त्युत्पतन्ति च ।
भूतानि यदनन्तानि तरङ्गिणि तरङ्गवत् ॥३३॥
उत्पत्त्योत्पत्त्य लीयन्ते तत्संसक्तिविजृम्भितम् ।
भूतानि विरसं भूयो निर्झराम्बुकणा इव ॥३४॥
परस्परनिगीर्णाङ्गा जनता जाड्यजर्जरा ।
संभ्रान्ता प्रभ्रमत्यङ्ग शीर्णपर्णमिवाम्वरे ॥३५॥
नक्षत्रचक्रं गगने द्रुमे मशकसंततिः ।
स्फुरत्यावर्तवृत्त्यैव पातालेऽङ्ग जलौघवत् ॥३६॥
पातोत्पातदशाजीर्णं कालबालककन्दुकम् ।
अद्यापि न जहातीन्दुर्जलमामलिनं वपुः ॥३७॥
नानापारयुगावर्तदुःखालोकनकर्कशम् ।
न लुनाति मनःखण्डं दुःखिगीर्वाणमण्डलम् ॥३८॥
वासनामात्रवशतः परे व्योमनि केनचित् ।
इदमारचितं चित्रं विचित्रं पश्य राघव ॥३९॥
मनःसङ्गैकरङ्गेण शून्ये व्योम्नि जगन्मयम् ।
यदिदं रचितं चित्रं तत्सत्यं न कदाचन ॥४०॥
संसक्तमनसामस्मिन्संसारे व्यवहारिणाम् ।
अत्ति तृष्णा शरीराणि तृणान्यग्निशिखा यथा ॥४१॥
परिसक्तमतेर्देहान्सिकताः पत्युरम्भसाम् ।
कः शक्तः परिसंख्यातुं त्रसरेणुगणं यथा ॥४२॥
मुक्तालताया गङ्गाया मेरोरापादमस्तकम् ।
तरङ्गमुक्ता गण्यन्ते न देहाः सक्तचेतसाम् ॥४३॥
संसक्तमनसामेता रम्यान्तःपुरपङ्क्तयः ।
रचिता रौरवा वीचिकालसूत्रादिनामिकाः ॥४४॥
सक्तचित्तं जनं दुःखशुष्कमिन्धनसंचयम् ।
ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते ॥४५॥
दुःखजालमिदं नाम यत्किंचिज्जगतीगतम् ।
संसक्तमनसामर्थे तत्सर्वं परिकल्पितम् ॥४६॥
संसक्तचित्तमायान्ति सर्वा दुःखपरम्पराः ।
जलकल्लोलवलिता महानद्य इवाम्बुधिम् ॥४७॥
मनःसंसर्गरूपिण्या भारूभूतशरीरया ।
क्षयोदयदशार्थिन्या सर्वं ततमविद्यया ॥४८॥
असंसङ्गेन भोगानां सर्वा राम विभूतयः ।
परं विस्तारमायान्ति प्रावृषीव महापगाः ॥४९॥
अन्तःसंसङ्गमङ्गानामङ्गारं विद्धि राघव ।
अनन्तःसङ्गमङ्गानां विद्धि राम रसायनम् ॥५०॥
संसङ्गेनान्तरस्थेन दह्यते प्रकृतिः स्वयम् ।
स्वकलोत्थे नैरकाङ्क्षी पावकेन यथौषधिः ॥५१॥
सर्वत्रासक्तमाशान्तमनन्तमिव संस्थितम् ।
असत्कल्पं सदाभासं सुखायैव मनो भवेत् ॥५२॥
विद्यादृशि प्रोदयमागतेन क्षयं त्वविद्याविषये गतेन ।
सर्वत्र संसक्तिविवर्जितेन स्वचेतसा तिष्ठति यः स मुक्तः ॥५३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सङ्गविचारयोगोपदेशो नामाष्टषष्टितमः सर्गः ॥६८॥
N/A
References : N/A
Last Updated : September 22, 2021
TOP