उपशमप्रकरणम् - सर्गः १४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
संसारसागरासारकल्लोलैरुह्यमानया ।
मतेर्मानद मूकत्वं यया जनतयार्जितम् ॥१॥
आत्मलाभमयोदारकलाभिरिह सा मया ।
विचारोक्तिभिरेताभिः शास्त्रेऽस्मिन्नोपदिश्यते ॥२॥
न पश्यत्येव योऽत्यर्थं तस्य कः खलु दुर्मतिः ।
विचित्रमञ्जरी चित्रं संदर्शयति काननम् ॥३॥
कः कुष्ठघर्घरघ्राणं नानामोदविचारणे ।
मूर्खमात्मोपदेशेन प्रमाणीकुरुतेऽमतिः ॥४॥
विपर्यस्तेन्द्रियं मत्तं मदिराघूर्णितेक्षणम् ।
धर्मनिर्णयसाक्षित्वे कः प्रमाणीकरोत्यधीः ॥५॥
कः शवं वा श्मशानस्थं समवायकथाशतम् ।
परिपृच्छति संदेहे कश्च मूर्खं प्रशास्ति च ॥६॥
येनाशयबिलस्थोऽपि मूकोन्धोऽपि न निर्जितः ।
मनोव्यालः सदुर्बुद्धिः कथं नामोपदिश्यते ॥७॥
जितमेव मनो विद्धि वस्तुतो यन्न विद्यते ।
निकटात्सा चिरास्तैव या शिला नैव विद्यतेव ॥८॥
मनो न विजितं राम येनासदपि दुर्धिया ।
तेनाग्रस्तविषेणैव म्रियते विषमूर्च्छया ॥९॥
ज्ञः पश्यति सदैवात्मा स्पन्दने प्राणशक्तयः ।
इन्द्रियाणि स्वधर्मेषु मनो राम किमुच्यते ॥१०॥
प्राणानां स्पन्दनी शक्तिर्ज्ञानशक्तिः परात्मनः ।
इन्द्रियाणां निजा शक्तिरेकः कोऽत्र निबध्यते ॥११॥
सर्वास्तदंशवस्तस्य सर्वशक्तेः किलात्मनः ।
पृथक्ता वाच्यता चेयं कुतो नाम तवोत्थिता ॥१२॥
किं नाम जीव इत्युक्तं येनेहान्धीकृतं जगत् ।
चित्तं चैवासदेव त्वं विद्धि का तस्य शक्तता ॥१३॥
मनोनिर्दग्धदृष्टीनां दृष्ट्वा दुःखपरम्पराम् ।
मतिर्मे करुणाक्रान्ता राम मुग्धेव तप्यते ॥१४॥
कः किलात्र कुतः खेदो यन्मूर्खः परितप्यते ।
दुःखायैव हि जायन्ते करभाः प्राकृतास्तथा ॥१५॥
विनाशायैव जायन्ते जडा देहेष्वबुद्धयः ।
अनारतोदयाः पापा बुद्बुदा जलधेरिव ॥१६॥
कियन्तः पश्य पशवः प्रत्यहं प्रतिमण्डलम् ।
सूनावद्भिर्निहन्यन्ते कैवात्र परिदेवना ॥१७॥
अर्बुदान्यनिलो हन्ति क्षमाजातेषु चान्वहम् ।
दंशानां मशकानां च कैवात्र परिदेवना ॥१८॥
दिशं प्रति गिरीन्द्रेषु पुलिन्दाद्या वने वने ।
निघ्नन्ति मृगलक्षाणि कैवात्र परिदेवना ॥१९॥
जले जलचरव्यूहान्सूक्ष्मान्स्थूलो निकृन्तति ।
ग्रासार्थं निर्दयो मत्स्यः कैवात्र परिदेवना ॥२०॥
लिक्षामणुकणक्षामां क्षुधा खादति मक्षिका ।
तां कोशकारः क्षुधितो दंशस्तमपि चञ्चलम् ॥२१॥
तं दंशं दर्दुरो भुङ्क्ते व्यालस्तमपि दर्दुरम् ।
सर्पमुग्रं खगो हन्ति बभ्रुश्चैनं निकृन्तति ॥२२॥
बभ्रुं हिनस्ति मार्जारो मार्जारं श्वा निकृन्तति ।
ऋक्षः कौलेयकं हन्ति ऋक्षं व्याघ्रो निकृन्तति ॥२३॥
सिंहोऽभिभवति व्याघ्रं शरभः सिंहमत्ति च ।
शरभो नाशमायाति मत्तमेघविलङ्घने ॥२४॥
मेघा वातैर्विधूयन्ते वायवो गिरिभिर्जिताः ।
गिरयो वज्रनिष्पिष्टाः शक्रस्य वशगः पविः ॥२५॥
विष्णुना क्रियते शक्रो विष्णुर्गच्छति जन्तुताम् ।
सुखदुःखदशामेतां जरामरणपालिताम् ॥२६॥
जन्तवोऽपि महाकाया अपि विद्यायुधान्विताः ।
लिक्षाभिरङ्गलग्नाभिरुपजीव्यन्त एव हि ॥२७॥
अजस्रमेवमालूनविशीर्णं भूतजङ्गलम् ।
परस्परमलं मोहादद्यते रक्ष्यतेऽपि च ॥२८॥
अनारतं विनश्यन्ति विविधा भूतजातयः ।
अनारतं च जायन्ते लिक्षायूकापिपीलिकाः ॥२९॥
जलकोशेषु जायन्ते मत्स्येभमकरादयः ।
भूमावन्तः प्रजायन्ते कीटौघा वृश्चिकादयः ॥३०॥
अन्तरिक्षेऽपि जायन्ते आकाशविहगादयः ।
वनवीथिषु जायन्ते सिंहव्याघ्रमृगादयः ॥३१॥
प्राण्यङ्गेष्वपि जायन्ते विचित्राः ककुभं प्रति ।
स्थावरेष्वपि जायन्ते घुणा जघनकादयः ॥३२॥
शिलान्तरेषु जायन्ते कीटभेकघुणादयः ।
विष्ठायामपि जायन्ते नानाकीटगणास्तथा ॥३३॥
एवमेतेष्वसंख्येषु जन्मस्वपचयेषु च ।
अजस्रं करुणावन्तो नन्दन्तु प्ररुदन्तु वा ॥३४॥
अनारतमृतावस्मिन्ननारतसमुद्भवे ।
संसारसंभ्रमे युक्ता न तुष्टिर्न च दुःखिता ॥३५॥
पङ्क्तयस्त्वेवमेवेमा वृक्षपर्णगणैः समाः ।
उत्पत्योत्पत्य लीयन्ते भूतानां भूरिसंभवाः ॥३६॥
यः प्रवृत्तः कुबुद्धीनां दयावान्दुःखमार्जने ।
स्वगतच्छत्रनिर्मृष्टसूर्यांशु खिद्यते नभः ॥३७॥
न तिर्यक्समधर्माण उपदेश्या नरा भुवि ।
कथार्थकथनेनार्थः कः स्थाणुनिकटे वने ॥३८॥
किं किल स्फारमनसां पशूनां च विशेषणम् ।
कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः ॥३९॥
स्वचित्तपङ्कमग्नानां स्वनाशारब्धकर्मणाम् ।
मूर्खाणामापदं दृष्ट्वा प्ररुदन्त्युपला अपि ॥४०॥
अनिर्जितात्मचित्तानां समन्ताद्दुःखदा दशाः ।
तन्मार्जनं कृतप्रज्ञो नाऽतः संप्रतिपद्यते ॥४१॥
विनिर्जितात्मचित्तानां दुःखानि रघुनन्दन ।
सुविचार्याणि तेनात्र ज्ञातज्ञेयः प्रवर्तताम् ॥४२॥
मनो नास्ति महाबाहो मा मुधोप प्रकल्पय ।
अनेन कल्पितेन त्वं वेतालेनेव हन्यसे ॥४३॥
यावद्विस्मृतवानात्मतत्त्वं मूढो भवद्भवान् ।
तावत्तव मनोव्यालो बभूवाभ्युदितस्ततः ॥४४॥
इदानीं भवता ज्ञातं यथाभूतमरिंदम ।
संकल्पाद्वर्धते चित्तं तदेवाशु परित्यज ॥४५॥
दृश्यमाश्रयसीदं चेत्तत्सचित्तोऽसि बान्धवान् ।
दृश्यं संत्यजसीदं चेत्तत्सचित्तोसि मोक्षवान् ॥४६॥
अयं गुणसमाहारो बन्धायैव समाश्रितः ।
संत्यक्तो भव मोक्षाय यथेच्छसि तथा कुरु ॥४७॥
नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः ।
अनन्ताकाशसंकाशहृदयो हृदयेश्वरः ॥४८॥
आत्मनो जगतश्चास्य त्वमङ्ग कलनामलम् ।
राम द्वित्वमयीं त्यक्त्वाशेषस्थः सुस्थिरो भव ॥४९॥
आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ।
दर्शनाख्ये स्वमात्मानं सर्वदा भावयन्भव ॥५०॥
स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् ।
स्वादनं केवलं ध्यायन्नित्यमात्ममयो भव ॥५१॥
रामानुभवनीयस्य तथानुभवितुः स्वयम् ।
अवलम्ब्य निरालम्बं मध्यं मध्ये स्थिरो भव ॥५२॥
भवभावनया हीनं भावाभावदशोज्झितम् ।
भावयन्नेवमात्मानमात्मसंस्थः स्वयं भव ॥५३॥
आत्मसत्तां त्यजन्नेतां चेत्यं भावयसि स्वयम् ।
यदा राम तदा यासि चित्ततामतिदुःखदाम् ॥५४॥
चित्ततां शृङ्खलामेतां स्वरूपज्ञानयुक्तितः ।
बिलाच्चित्तान्महाबाहो स्वात्मसिंहं विमोचय ॥५५॥
परमात्मदशां त्यक्त्वा चेत्यं परिपतन्नलम् ।
यदा गच्छसि संकल्पं चेत्यं संपश्यसे तदा ॥५६॥
आत्मनो व्यतिरिक्तं सच्चित्तमित्यङ्ग संविदा ।
मनः संपद्यते दुःखि क्षीयते त्यक्तया तया ॥५७॥
आत्मैवेदं जगत्सर्वमित्यन्तः संविदोदये ।
क्व चेता क्वच वा चित्तं किं चेत्यं चेतनं च किम् ॥५८॥
अहमात्मेति जीवोऽस्मीत्येतावच्चित्तकं विदुः ।
अनेनेत्थमनाद्यन्तं दुःखं राघव तन्यते ॥५९॥
अहमात्मा न जीवाख्याः सत्ताः सन्तीतराः क्वचित् ।
इत्येव चित्तोपशमः परमं सुखमुच्यते ॥६०॥
आत्मैवेदं जगदिति जाते राघव निश्चये ।
असत्ता चेतसो जाता भवत्येव न संशयः ॥६१॥
एवं सत्यावबोधेन स्वात्मैवेदमिति स्थितिः ।
मनः सुगलितं विद्धि सूर्यभासा तमो यथा ॥६२॥
मनःसर्पः शरीरस्थो यावत्तावन्महद्भयम् ।
तस्मिन्नुत्सारिते योगाद्भयस्यावसरः कुतः ॥६३॥
भ्रान्तिमात्रोत्थितश्चित्ते वेतालोऽतिबलोऽनघ ।
सम्यग्ज्ञानेन मन्त्रेण प्रसभं विनिपात्यताम् ॥६४॥
देहगेहाद्गते चित्तयक्षे बलवतां वरे ।
निराधिर्विगतोद्वेगस्तिष्ठ नास्ति भयं तव ॥६५॥
नीराग एव निरुपार्जन एव चास्मी-
त्येतावतैव गलिता तव चित्तसत्ता ।
निर्दुःखमुत्तमपदं परमं गतोऽसि
तिष्ठोपशान्तपरमैषण एवमन्तः ॥६६॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु उपशमप्रकरणे स्वचित्तनिरूपणं नाम चतुर्दशः सर्गः ॥१४॥
N/A
References : N/A
Last Updated : September 19, 2021
TOP