उपशमप्रकरणम् - सर्गः ९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
इति सिद्धगणोद्गीता गीताः श्रुत्वा महीपतिः ।
विषादमाजगामाशु भीरू रणरवादिव ॥१॥
जगाम परिवारं स्वमाकर्षन्स्वगृहं प्रति ।
स्वतीरवृक्षानुगतः सरिदोघ इवार्णवम् ॥२॥
परिवारमशेषेण विसृज्य स्वं स्वमालयम् ।
एक एवारुरोहाग्र्यं गृहमर्क इवाचलम् ॥३॥
तत्र प्रोड्डयनालोलखगपक्षतिचञ्चलाः ।
आलोकयंल्लोकगतीर्विललापेदमाकुलः ॥४॥
हा कष्टमतिकष्टासु लोकलोलदशास्वयम् ।
पाषाणेष्विव पाषाणा आलुठामि बलादहम् ॥५॥
अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया ।
तस्मिन्भावं निबध्नामि धिङ्नामधमचेतनम् ॥६॥
कियन्मात्रमिदं नाम राज्यमाजीवितं मम ।
किमेतेन विना दुःखं तिष्ठामि हतधीर्यथा ॥७॥
आदावन्तेऽप्यनन्तोऽहं मध्ये पेलवजीवितः ।
बालश्चित्रेन्दुनेवाहं किं मुधा धृतिमास्थितः ॥८॥
प्रपञ्चरहितेनाहमिन्द्रजालेन जालिना ।
हा कष्टमतिमुह्यामि केनास्मि परिमोहितः ॥९॥
यद्वस्तु यच्च वा रम्यं यदुदारमकृत्रिमम् ।
किंचित्तदिह नास्त्येव किंनिष्ठेह मतिर्मम ॥१०॥
दूरस्थमप्यदूरस्थं यन्मे मनसि वर्तते ।
इति निश्चित्य बाह्यार्थभावनां संत्यजाम्यहम् ॥११॥
लोकाजवं जवीभावः सलिलावर्तभङ्गुरः ।
दृष्टोऽद्यापि हि दुःखाय केयमास्था सुखं प्रति ॥१२॥
प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् ।
सुखानि दुःखपिण्डानि दुःखानि तु पुनः पुनः ॥१३॥
परामृष्टं विशिष्टं हि दृष्टं नष्टं न भावितम् ।
अत्रस्थं न तदस्तीह सतां यत्रास्तु संस्थितिः ॥१४॥
अद्य ये महतां मूर्ध्नि ते दिनैर्निपतन्त्यधः ।
हतचित्तमहत्तायां कैषा विश्वस्तता वत ॥१७॥
अरज्जुरेव बद्धोऽहमपङ्कोऽस्मि कलङ्कितः ।
पतितोस्म्युपरिस्थोपि हा ममात्मन्हता स्थितिः ॥१६॥
कस्मादकस्मान्मोहोयमागतो धीमतोऽपि मे ।
असितः पिहितालोको भास्कराग्रमिवाम्बुदः ॥१७॥
क इमे मे महाभोगाः क इमे मम बान्धवाः ।
बालो भूतमयेनेव संकेतेनाहमाकुलः ॥१८॥
स्वयमेव निबध्नामि जरामरणरागिणीम् ।
किमिमामहमेतेषु धृतिमुद्वेगकारिणीम् ॥१९॥
यातु तिष्ठतु वा सम्यङ् ममैतां प्रति को ग्रहः ।
बुद्बुदश्रीरिवैषा हि मिथ्यैवेत्थमुपस्थिता ॥२०॥
ते महाविभवा भोगास्ते सन्तः स्निग्धबान्धवाः ।
सर्वं स्मृतिपथं प्राप्तं वर्तमानेऽपि का धृतिः ॥२१॥
क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा ।
प्राक्तनानि प्रयातानि केयं विश्वस्तता मम ॥२२॥
गिलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।
मां जीवितनिबद्धास्थं विहसिष्यन्ति साधवः ॥२३॥
ब्रह्मणां कोटयो याता गताः सर्गपरम्पराः ।
प्रयाताः पांसुवद्भूपाः का धृतिर्मम जीविते ॥२४॥
संसाररात्रिदुःस्वप्ने चेत्ये देहमये भ्रमे ।
आस्थां चेदनुबध्नामि तत्रेमां तु धिगस्थितिम् ॥२५॥
अयं सोऽहमिति व्यर्थकल्पनाऽसत्स्वरूपिणी ।
अहंकारपिशाचेन किमज्ञवदहं स्थितः ॥२६॥
हतं हतमिदं कस्मादायुराततयानया ।
पश्यन्नपि न पश्यामि सूक्ष्मया काललेखया ॥२७॥
पादपीठे कृतेशानाः शार्ङ्गिक्रीडनकन्दुकाः ।
कालकापालिकाग्रस्ताः किमास्थे मयि वल्गसि ॥२८॥
अजस्रमुपयान्त्येते यान्ति चाद्यापि वासराः ।
अविनष्टैकसद्वस्तुर्दृष्टो नाद्यापि वासरः ॥२९॥
सारसाः सरसीवैते सर्वस्मिञ्जनचेतसि ।
भोगा एव स्फुरन्त्यन्तर्न तु स्वपददृष्टयः ॥३०॥
कष्टात्कष्टतरं प्राप्तो दुःखाद्दुःखतरं गतः ।
अद्यापि न विरक्तोस्मि हा धिङ्मामधमाशयम् ॥३१॥
येषु येषु दृढा बद्धा भावना भव्यवस्तुषु ।
तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥३२॥
यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् ।
सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम् ॥३३॥
येषु येषु पदार्थेषु धृतिं बध्नाति मानवः ।
तेषु तेष्वेव तस्यायं दृष्टो नाशोदयो भृशम् ॥३४॥
श्वःश्वः पापीयसीमेष श्वःश्वः क्रूरतरामपि ।
श्वःश्वः स्वेदकरीमेति दशामिह जडो जनः ॥३५॥
अज्ञानैकहतो बाल्ये यौवने मदनाहतः ।
शेषे कलत्रचिन्तार्तः किं करोति कदा जडः ॥३६॥
आगमापायि विरसं दशावैषम्यदूषितम् ।
असारसारं संसारं किं तत्पश्यति दुर्मतिः ॥३७॥
राजसूयाश्वमेधाद्यैरिष्ट्वा यज्ञशतैरपि ।
महाकल्पान्तमप्यंशं स्वर्गं प्राप्नोति नाधिकम् ॥३८॥
कोऽसौ स्वर्गोऽस्ति भूमौ वा पाताले वा प्रदेशकः ।
न यत्राभिभवन्त्येता दुर्भ्रमर्य इवापदः ॥३९॥
निजचेतोविलव्यालाः शरीरस्थलपल्लवाः ।
आधयो व्याधयश्चैते निवार्यन्ते कथं किल ॥४०॥
सतोऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्वरम्यता ।
सुखेषु मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् ॥४१॥
जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः ।
धरा तैरेव नीरन्ध्रा दुर्लभाः साधुसाधवः ॥४२॥
नीलोत्पलालिनयनाः परमप्रेमभूषणाः ।
हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः ॥४३॥
येषां निमेषणोन्मेषैर्जगतां प्रलयोदयौ ।
तादृशाः पुरुषाः सन्ति मादृशां गणनैव का ॥४४॥
सन्ति रम्यतराद्रम्याः सुस्थिरादपि सुस्थिराः ।
चिन्तापर्यवसानेयं पदार्थश्रीः किमीहसे ॥४५॥
संपदश्च विचित्रा यास्ताश्चेच्चित्तेन संमताः ।
तत्ता अपि महारम्भा हन्त मन्ये महापदः ॥४६॥
आपदोऽपि विचित्रा यास्ताश्चेन्मनसि संमताः ।
तत्ता अपि महारम्भा मन्ये मनसि संपदः ॥४७॥
मनोमात्रविवर्तेऽस्मिञ्जगत्यब्धीन्दुभङ्गुरे ।
ममेदमित्यपूर्वेयं कुतस्त्याऽक्षरमालिका ॥४८॥
काकतालीययोगेन संपन्नायां जगत्स्थितौ ।
धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावना ॥४
इयत्ताच्छिन्नतप्तासु सुखनाम्नीषु दृष्टिषु ।
कास्वेतास्वनुरक्तोऽस्मि पतङ्गोऽग्निशिखास्विव ॥५०॥
वरमेकान्तदाहेषु लुठनं रौरवाग्निषु ।
नत्वालूनविवर्तासु स्थितं संसारवृत्तिषु ॥५१॥
संसार एव दुःखानां सीमान्त इति कथ्यते ।
तन्मध्यपतिते देहे सुखमासाद्यते कथम् ॥५२॥
अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः ।
त एतेऽन्यानि दुःखानि जानते मधुराण्यलम् ॥५३॥
अहमप्यधमोत्कृष्टकाष्ठलोष्टसमस्थितिः ।
अज्ञैरेवागतः साम्यं परमामृष्टवस्तुभिः ॥५४॥
सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ।
अस्य संसारवृक्षस्य मनो मूलमहाङ्कुरः ॥५५॥
संकल्पमेव तन्मन्ये संकल्पोपशमेन तत् ।
शोषयामि यथा शोषमेति संसारपादपः ॥५५॥
आकारमात्ररम्यासु मनोमर्कटवृत्तिषु ।
परिज्ञातास्विहाद्यैव न रमे नाशनीष्वहम् ॥५७॥
आशापाशशतप्रोताः पातोत्पातोपतापदाः ।
संसारवृत्तयो भुक्ता इदानीं विश्रमाम्यहम् ॥५८॥
हा हतोऽस्मि विनष्टोऽस्मि मृतोऽस्मीति पुनःपुनः ।
शोचितं गतमेवाहमिदानीं नानुरोदिमि ॥५९॥
प्रबुद्धोऽस्मि प्रहृष्टोऽस्मि दृष्टश्चोरोऽयमात्मनः ।
मनो नाम निहन्म्येनं मनसास्मि चिरं हतः ॥६०॥
एतावन्तमिमं कालं मनोमुक्ताफलं मम ।
अविद्धमासीदधुना विद्धं तु गुणमर्हति ॥६१॥
मनस्तुषारकणिका विवेकार्कातपेन मे ।
चिरप्रवृत्तये नूनमचिराल्लयमेष्यति ॥६२॥
विविधैः साधुभिः सिद्धैरहं साधु प्रबोधितः ।
आत्मानमनुगच्छामि परमानन्दसाधनम् ॥६३॥
आत्मानं मणिमेकान्ते लब्ध्वैवालोकयन्सुखम् ।
तिष्ठाम्यस्तमितान्येहः शारदीवाचलेऽम्बुदः ॥६४॥
अयमहमिदमाततं ममेति
स्फुरितमपास्य बलादसत्यमन्तः ।
रिपुमतिबलिनं मनो निहत्य
प्रशममुपैमि नमोऽस्तु ते विवेक ॥६५॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो. उपशमप्रकरणे जनकवितर्को नाम नवमः सर्गः ॥९॥
N/A
References : N/A
Last Updated : September 19, 2021
TOP