उपशमप्रकरणम् - सर्गः १७
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
विदेहमुक्ता ये राम ते गिरामिह गोचरे ।
नैव तिष्ठन्ति तस्मात्त्वं जीवन्मुक्तिमिमां श्रृणु ॥१॥
प्राकृतान्येव कर्माणि यया वर्जितवाञ्छया ।
क्रियन्ते तृष्णयेमानि तां जीवन्मुक्ततां विदुः ॥२॥
या स्थितिस्तृष्णया जन्तोर्बाह्यार्थे बद्धभावया ।
तं बन्धमाहुराचार्याः संसारनिगडं दृढम् ॥३॥
नूनमुज्झितसंकल्पा हृदि बाह्ये विहारिणी ।
वासना योदिता सेह जीवन्मुक्तशरीरिणी ॥४॥
बाह्यार्थव्यसनोच्छूना तृष्णा बद्धेति राघव ।
सर्वार्थव्यसनोन्मुक्ता तृष्णा मुक्तेति कथ्यते ॥५॥
पूर्वं यस्यास्तु तृष्णाया वर्तमानेऽपि शाश्वती ।
निर्दुःखता निष्कलता सा मुक्तेति बुधैः स्मृता ॥६॥
इदमस्तु ममेत्यन्तर्यैषा राघव भावना ।
तां तृष्णां शृङ्खलां विद्धि कलनां च महामते ॥७॥
तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा ।
संत्यज्य परमोदारः परमेति महामनाः ॥८॥
बन्धाशामथ मोक्षाशां सुखदुःखदशामपि ।
त्यक्त्वा सदसदाशां च तिष्ठाक्षुब्धमहाब्धिवत् ॥९॥
अजरामरमात्मानं दृष्ट्वा बुद्धिमतां वर ।
जरामरणशङ्काभिर्मा मनः कलुषं कृथाः ॥१०॥
पदार्थतत्त्वं नेदं ते नायं त्वमसि राघव ।
किंचित्तदन्यदेवेदमन्य एवासि राघव ॥११॥
असदभ्युदिते विश्वे सतीवासति संस्थिते ।
त्वयि तत्तामतिगते तृष्णायाः संभवः कुतः ॥१२॥
अन्यच्च राम मनसि पुरुषस्य विचारिणः ।
जायते निश्चयः साधो स्फाराकारश्चतुर्विधः ॥१३॥
आपादमस्तकमहं मातापितृविनिर्मितः ।
इत्येको निश्चयो राम बन्धायासद्विलोकनात् ॥१४॥
अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।
इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥१५॥
जगज्जालपदार्थात्मा सर्वमेवाहमक्षयः ।
तृतीयो निश्चयश्चेत्थं मोक्षायैव रघूद्वह ॥१६॥
अहं जगद्वा सकलं शून्यं व्योमसमं सदा ।
एवमेष चतुर्थोऽन्यो निश्चयो मोक्षसिद्धये ॥१७॥
निश्चयेषु चतुर्ष्वेषु बन्धाय प्रथमः स्मृतः ।
त्रयो मोक्षाय कथिताः शुद्धभावनयोत्थिताः ॥१८॥
एतेषां प्रथमः प्रोक्तस्तृष्णाया बन्धयोग्यता ।
शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्तविलासिनः ॥१९॥
सर्वमात्माहमेवेति निश्चयो यो महामते ।
तमादाय विषादाय न भूयो याति मे मतिः ॥२०॥
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमात्मनः ।
सर्वमात्मेति तेनान्तर्निश्चयेन न बध्यते ॥२१॥
शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि ।
शिवः पुरुष ईशानो नित्य आत्मैव कथ्यते ॥२२॥
सदा सर्वं सदेवेदं नेह द्वित्वान्यते क्वचित् ।
विद्येते विद्यया व्याप्तं जगन्नेतरया धिया ॥२३॥
आपातालमनन्तात्मा पूरितोऽम्भोधिरम्बुभिः ।
आब्रह्मस्तम्बपर्यन्तं जगदापूर्णमात्मना ॥२४॥
अतः सत्यमृतं नित्यं नानृतं विद्यते क्वचित् ।
वार्येव सकलाम्भोधिर्न तरङ्गादयः क्वचित् ॥२५॥
पृथक्कटककेयूरनूपुरादि नकाञ्चनात् ।
भिन्नास्तरुतृणाकारकोटयश्चैव नात्मनः ॥२६॥
द्वैताद्वैतसमुद्भेदैर्जगन्निर्माणलीलया ।
परमात्ममयी शक्तिरद्वैतैव विजृम्भते ॥२७॥
आत्मीये परकीये च सर्वस्मिन्नेव सर्वदा ।
नष्टे वोपचिते कार्ये सुखदुःखे गृहाण मा ॥२८॥
भावाद्वैतमुपाश्रित्य सत्ताद्वैतमयात्मकः ।
कर्माद्वैतमनादृत्य द्वैताद्वैतमयो भव ॥२९॥
भवभूमिषु भीमासु भावभावनवात्यया ।
मा पतोत्पातपूर्णासु दरीष्वन्तः करी यथा ॥३०॥
द्वैतं न संभवति चित्तमयं महात्म-
न्नात्मन्यथैक्यमपि न द्वितयोदितात्म ।
अद्वैतमैक्यरहितं सततोदितं स-
त्सर्वं न किंचिदपि चाहुरतः स्वरूपम् ॥३१॥
नैवाहमस्ति नच नाम जगन्ति सन्ति
सर्वं च विद्यत इदं ननु निर्विकारम् ।
विज्ञानमात्रमवभासत एव शान्तं
नासन्न सज्जगदिदं च सदेति विद्धि ॥३२॥
परममृतमनाद्यं भासनं सर्वभासा-
मजरमजमचिन्त्यं निष्कलं निर्विकारम् ।
विगतकरणजालं जीवनं जीवशक्तेः
सकलकलनहीनं कारणं कारणानाम् ॥३३॥
सततमुदितमीशं व्यातते चित्प्रकाशे
स्थितमनुभवबीजं स्वात्मभावोपदेश्यम् ।
स्वदनमनुचितोऽन्तर्ब्रह्म सर्वं सदैव
त्वमहमपि जगच्चेत्यस्तुते निश्चयोन्तः ॥३४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये उपशमप्रकरणे तृष्णाविच्छेदोपदेशो नाम सप्तदशः सर्गः ॥१७॥
N/A
References : N/A
Last Updated : September 19, 2021
TOP