उपशमप्रकरणम् - सर्गः ५३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
उद्दालक उवाच ।
अपारपर्यन्तवपुः परमाण्वणुरेव च ।
चिदचेत्या तदाक्रान्तौ न शक्ता वासनादयः ॥१॥
मनः शेमुष्यहंकारप्रतिबिम्बैर्जडेन्द्रियैः ।
वासनावितताः शून्या वेतालत्रासनोद्यताः ॥२॥
तत्कृतेभ्यो विचारेभ्योऽनुभूतेभ्योऽपि भूरिशः ।
भूयोऽप्यनुभवत्यन्तरहं हि चिदलेपिका ॥३॥
स्वदुर्भावोपरचितां देहः संसारसंस्थितिम् ।
गृह्णात्वथ त्यजतु वाप्यहं हि चिदलेपिका ॥४॥
चितो न जन्ममरणे सर्वगायाश्चितः किल ।
किं नाम म्रियते जन्तुर्मार्यते केन वापि किम् ॥५॥
चितो न जीवितेनार्थः सर्वात्मा सर्वजीवितम् ।
किं प्राप्स्यति कदात्मैषा प्रायता यदि जीवितम् ॥६॥
जीव्यते म्रियते चेति कुविकल्पकमालिनी ।
कलना मनसामेव नात्मनो विमलात्मनः ॥७॥
यो ह्यहंभावतां प्राप्तो भावाभावैः स गृह्यते ।
आत्मनो नास्त्यहंभावो भावाभावाः कुतोऽस्य ते ॥८॥
अहंभावो मुधा मोहो मनश्च मृगतृष्णिका ।
जडः पदार्थसंभारः कस्याहंकारभावना ॥९॥
रक्तमांसमयो देहो मनो नष्टं विचारणात् ।
जडाश्चित्तादयः सर्वे कुतोऽहंभावभावना ॥१०॥
आत्मंभरितया नित्यमिन्द्रियाणि स्थितान्यलम् ।
पदार्थाश्च पदार्थत्वे कुतोऽहंभावभावना ॥११॥
गुणा गुणार्थे वर्तन्ते प्रकृतौ प्रकृतिः स्थिता ।
सदेव सति विश्रान्तं कुतोऽहंभावभावना ॥१२॥
सर्वगं सर्वदेहस्थं सर्वकालमयं महत् ।
केवलं परमात्मानं चिदात्मैवेह संस्थितः ॥१३॥
एवं किमाकृतिः को वा किमादेशश्च किंकृतः ।
किंरूपः किंमयः कोहं किं गृह्णामि त्यजामि किम् ॥१४॥
तेनाहं नाम नेहास्ति भावाभावोपपत्तिमान् ।
अनहंकाररूपस्य संबन्धः केन मे कथम् ॥१५॥
असत्यलमहंकारे संबन्धः कस्य केन कः ।
संबन्धाभावसंसिद्धौ विलीना द्वित्वकल्पना ॥१६॥
एवं ब्रह्मात्मकमिदं यत्किंचिज्जगति स्थितम् ।
सदेवास्मि तदेवास्मि परिशोचामि किं मुधा ॥१७॥
एकस्मिन्नेव विमले पदे सर्वगते स्थिते ।
अहंकारकलङ्कस्य कथं नामोदयः कुतः ॥१८॥
नास्त्येव हि पदार्थश्रीरात्मैवास्तीह सर्वगः ।
पदार्थलक्ष्म्यां सत्यां च संबन्धोस्ति न कस्यचित्॥१९॥
इन्द्रियैरिन्द्रियैरंगैर्मनो मनसि वल्गति ।
चिदलिप्तवपुः केन संबन्धः कस्य किं कथम् ॥२०॥
उपलायःशलाकानां संबन्धो न यथा मिथः ।
तथैकत्रापि दृष्टानां देहेन्द्रियमनश्चिताम् ॥२१॥
असदभ्युत्थिते व्यर्थमहंकारमहाभ्रमे ।
ममेदमिदमस्येति विपर्यस्तमिदं जगत् ॥२२॥
अतत्त्वालोकजातेयमहंकारचमत्कृतिः ।
तापेन हिमलेखेव तत्त्वालोके विलीयते ॥२३॥
आत्मनो व्यतिरेकेण न किंचिदपि विद्यते ।
सर्वं ब्रह्मेति मे तत्त्वमेतत्तद्भावयाम्यहम् ॥२४॥
अहंकारभ्रमस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये नूनं विस्मरणं वरम् ॥२५॥
समूलं संपरित्यज्य चिरायाहंकृतिभ्रमम् ।
तिष्ठाम्यात्मनि शान्तात्मा शरत्खं शरदीव खे ॥२६॥
ददात्यनर्थनिचयं विस्तारयति दुष्कृतम् ।
विस्तारयति संतापमहंभावोनुसंहितः ॥२७॥
स्फुरत्यहंकारघने हृद्व्योम्नि सलिलात्मनि ।
विकसत्यभितः कायकदम्बे दोषमञ्जरी ॥२८॥
मरणं जीवितोपान्तं जीवितं मरणान्तगम् ।
भावोऽभावाद्व्यवच्छिन्नः कष्टेयं दुःखवेदना ॥२९॥
इदं लब्धमिदं प्राप्स्यामीत्यार्तिर्दाहकारिणी ।
न शाम्यत्यर्करत्नानां ग्रीष्मेऽग्निरिव दुर्धियाम् ॥३०॥
नास्तीदमिदमस्तीति चिन्ता धावत्यहंकृतिम् ।
जडाशया जडामभ्रमाला शैलावलीमिव ॥३१॥
अहंभावे परिक्षीणे शुष्कः संसारपादपः ।
भूयः प्रयच्छत्यरसो न पाषाणवदंकुरम् ॥३
स्वतृष्णाकृष्णभोगिन्यो देहद्रुमकृतालयाः ।
क्वापि यान्ति विचारात्मन्यागते विनतासुते ॥३३॥
असदभ्युत्थिते विश्वे तज्जाते भ्रमसन्मये ।
असन्मयपरिस्पन्दे त्वहं त्वं चेति कः क्रमः ॥३४॥
इदं जगदुदेत्यादावकारणमकारणात् ।
यदकारणमुद्भूतं तत्सदित्युच्यते कथम् ॥३५॥
अपर्यन्तपुराकाले मृदि कुम्भ इवाकृतिः ।
देहोऽभवदिदानीं तु तथैवास्ति भविष्यति ॥३६॥
मध्येतरपयोमात्रं कंचित्कालं चलाचलम् ।
आद्यन्तसौम्यते त्यक्त्वा वारि वीचितया यथा ॥३७॥
अस्मिन्क्षणपरिस्पन्दे देहे विसरणोन्मुखे ।
तरङ्गे च निबद्धास्था ये हतास्ते कुबुद्धयः ॥३८॥
प्राक्पुरस्ताच्च सर्वाणि सन्ति वस्तूनि नाभितः ।
मध्ये स्फुटत्वमेतेषां कैवास्था हतरूपिणी ॥३९॥
चित्तं पूर्वं पुरस्ताच्च चिद्देशं शान्तमित्यपि ।
सदसद्वा खलीनं मध्येऽस्मिन्किं तवोदितम् ॥४०॥
यथा स्वप्नविकारेषु यथा संभ्रमदृष्टिषु ।
यथा वा मदलीलासु यथा नौयानसंभ्रमे ॥४१॥
यथा धातुविकारेषु यथा चेन्द्रियविक्लवे ।
यथातिसंभ्रमानन्दे दोषावेशदशासु च ॥४२॥
दृश्यते क्षीयते चैव रूपं सदसतोश्चलम् ।
तथैवेयमिह त्वेषा काले न्यूनातिरिक्तता ॥४३॥
सा च त्वया कृता नित्यं चित्त दुःखसुखोदये ।
यथा वियोगयामिन्यो मतयो हन्ति रागिणम् ॥४४॥
मयैवेहासदभ्यासान्मिथ्या सदिव लक्ष्यसे ।
मृगतृष्णेव तेनैतत्त्वत्कृतं मत्कृतं भवेत् ॥४५॥
यदिदं किंचिदाभोगि तत्सर्वं दृश्यमण्डलम् ।
अवस्त्विति विनिर्णीय मनो यात्यमनःपदम् ॥४६॥
अवस्त्विदमिति स्फारे रूढे मनसि निश्चये ।
हेमन्त इव मञ्जर्यः क्षीयन्ते भोगवासनाः ॥४७॥
चित्त्वाद्दृष्टात्मना नूनं संत्यक्तमननौजसा ।
मनसा वीतरागेण स्वयं स्वस्थेन भूयते ॥४८॥
परमात्मानले क्षिप्तं संवृत्त्यावयवं स्वयम् ।
दग्ध्वात्मानमलं चित्तं शुद्धतामेति शाश्वतीम् ॥४९॥
देहमन्यतया दृष्ट्वा त्यक्त्वा विषयवासनाम् ।
विनाशमुररीकृत्य मनो जयति वीरवत् ॥५०॥
मनः शत्रुः शरीरस्य शरीरं मनसो रिपुः ।
एकाभावेन नश्येते आधाराधेयकार्यवत् ॥५१॥
रागद्वेषवतोर्नित्यमन्योन्यातिविरुद्धयोः ।
एतयोर्मूलकाषेण विनाशः परमं सुखम् ॥५२॥
एतयोरेकसंस्थाने मृतिरित्येव या कथा ।
सा व्योम्न्यया स्त्रिया भुक्ता धरेति कथया समा ॥५३॥
अकृत्रिमविरोधस्थौ यत्र संघटितावुभौ ।
धारा इव पतन्त्येव तत्रानर्थपरम्पराः ॥५४॥
मिथो विरुद्धसंसर्गे रतिमेत्यधमो हि यः ।
त्यक्तव्यः स पतद्वारावग्निराशावलेपने ॥५५॥
संकल्पेन मनः पुष्ट्वा शरीरं बालयक्षवत् ।
आयुरेवाशनान्यस्मै स्वदुःखानि प्रयच्छति ॥५६॥
तर्दुःखैस्तापितो देहो मनो हन्तुमथेच्छति ।
पुत्रोऽपि हन्ति पितरमाततायिपदं गतम् ॥५७॥
नास्ति शत्रुः प्रकृत्यैव न च मित्रं कदाचन ।
सुखदं मित्रमित्युक्तं दुःखदाः शत्रवः स्मृताः ॥५८॥
देहो दुःखान्यनुभवन्स्वमनो हन्तुमिच्छति ।
देहं मनः स्वदुःखानां संकेतं कुरुते क्षणात् ॥५९॥
एवं मिथो दुःखदयोः श्लिष्टयोः कः सुखागमः ।
एतयोर्देहमनसोर्जात्यैवातिविरुद्धयोः ॥६०॥
मनस्येव परिक्षीणे न देहो दुःखभाजनम् ।
तत्क्षयोत्कतया नित्यं देहोऽपि परिधावति ॥६१॥
नष्टानष्टमनर्थाय शरीरं पदमापदाम् ।
अलब्धात्मविवेकेन मनसा सुप्रजायते ॥६२॥
एते मनःशरीरे हि मिथः पीवरतां गते ।
जडरूपे हि वपुषा पयोदसरसी यथा ॥६३॥
मिथो दुःखाय संपन्ने एकरूपे द्विधा स्थिते ।
व्यवहारपरे सार्धं लोके वार्यनलाविव ॥६४॥
चित्ते क्षयिणि संक्षीणे देहो ह्यामूलितो भवेत् ।
वर्धमाने तरुरिव शतशाखः प्रवर्तते ॥६५॥
क्षीयते मनसि क्षीणे देहः प्रक्षीणवासनः ।
मनो न क्षीयते क्षीणे देहे तत्क्षपयेन्मनः ॥३६॥
संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम् ।
विततां भुवमासाद्य विहरामि यथासुखम् ॥६७॥
प्रक्षीयमाणमेवेदं न मनो मनसि स्थितम् ।
प्रशाम्यद्वासनाजालं प्रावृडन्त इवाम्बुदः ॥६८॥
धातूनां संनिवेशोऽयं देहनामा रिपुर्मम ।
प्रक्षीयमाणे मनसि गलत्वेषोऽवतिष्ठतु ॥६९॥
यदर्थं किल भोगश्रीर्वाञ्छते स्वकलेवरम् ।
तन्मे नापि न तस्याहं कोऽर्थः सुखलवेन मे ॥७०॥
नाहं देह इति त्वस्मिन्युक्तिमाकर्णय क्रमे ।
सर्वाङ्गेष्वपि सत्स्वेव शवः कस्मान्न वल्गति ॥७१॥
तस्माद्देहादतीतोऽहं नित्योऽनस्तमितद्युतिः ।
यः सङ्गं भास्वता प्राप्य वेद्मि व्योमनि भास्करम् ॥७२॥
नाज्ञोऽहं नच मे दुःखं नानर्थो न च दुःखिता ।
शरीरमस्तु मावास्तु स्थितोस्मि विगतज्वरः ॥७३॥
यत्रात्मा तत्र न मनो नेन्द्रियाणि न वासनाः ।
पामरा परितिष्ठन्ति निकटे न महीभृतः ॥७४॥
पदं तदनुयातोऽस्मि केवलोस्मि जयाम्यहम् ।
निर्वाणोस्मि निरंशोस्मि निरीहोस्मि निरीप्सितः ॥७५॥
इदानीमस्म्यसंबद्धो मनोदेहेन्द्रियादिभिः ।
पृथक्कृतस्य तैलस्य तिलैर्विगलनैरिव ॥७६॥
स्वस्मात्पदवरादस्माल्लीलया चलितस्य मे ।
पृथक्कृतमतेः किंच परिवारो ह्ययं शुभः ॥७७॥
स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ।
आनन्दितोपशमिता सदा च मृदुभाषिता ॥७८॥
पूर्णतोदारता सत्या कान्तिमत्तैकतानता ।
सर्वैकता निर्भयता क्षीणद्वित्वविकल्पता ॥७९॥
नित्योदिताः समाः स्वस्थाः सुन्दर्यः सुभगोदयाः ।
ममैकात्ममतेर्नित्यं कान्ता हृदयवल्लभाः ॥८०॥
सर्वथा सर्वदा सर्वं सर्वस्मिन्संभवत्यतः ।
सर्वं प्रति मम क्षीणे वाञ्छावाञ्छे सुखासुखे ॥८१॥
विगतमोहतया विमनस्तया
गतविकल्पनचित्ततया स्फुटम् ।
उपरमाम्यहमात्मनि शीतले
घनलवः शरदीव नभस्तले ॥८२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकविचारविलासो नाम त्रिपञ्चाशः सर्गः ॥५३॥
N/A
References : N/A
Last Updated : September 21, 2021
TOP