संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः १३

उपशमप्रकरणम् - सर्गः १३

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
एवं जनकवद्राम विचार्यात्मानमात्मना ।
पदं विदितवेद्यानामविघ्नेनाधिगच्छसि ॥१॥
ये हि पाश्चात्यजन्मानः प्राज्ञा राजससात्त्विकाः ।
प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनका इव ॥२॥
तावत्तावद्विजित्यारीनिन्द्रियाख्यान्पुनःपुनः ।
यावदात्मात्मनैवायमात्मन्येव प्रसीदति ॥३॥
प्रसन्ने सर्वगे देवे देवेशे परमात्मनि ।
स्वयमालोकिते सर्वाः क्षीयन्ते दुःखदृष्टयः ॥४॥
मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् ।
कुदृष्टयः क्षयं यान्ति दृष्टे तस्मिन्परावरे ॥५॥
सदा जनकवद्राम सर्वारम्भवदात्मना ।
प्रज्ञयात्मानमालक्ष्य लक्ष्मीवानुत्तमो भव ॥६॥
नित्यमन्तर्विचारस्य पश्यतश्चञ्चलं जगत् ।
जनकस्येव कालेन स्वयमात्मा प्रसीदति ॥७॥
न दैवं नच कर्माणि न धनानि न बान्धवाः ।
शरणं भवभीतानां स्वप्रयत्नादृते नृणाम् ॥८॥
ये दैवनिष्ठाः कृत्यादौ कुविकल्पपरायणाः ।
तेषां मन्दा मतिस्तात नानुगम्या विनाशनी ॥९॥
विवेकं परमाश्रित्य विलोक्यात्मानमात्मना ।
धिया विरागोद्धुरया संसारजलधिं तरेत् ॥१०॥
एषा सा कथिता राम नभःफलनिपातवत् ।
सुखदा ज्ञानसंप्राप्तिरज्ञानतरुशातनी ॥११॥
जनकस्येव सद्बुद्धेः स्वयमेव विलोकिनः ।
विकासमेत्ययं देही देवः प्रातरिवाम्बुजम् ॥१२॥
संसारमननं चित्रं विचारेण विलीयते ।
गलद्वशीकृतस्पर्शमातपेन हिमं यथा ॥१३॥
अयमेवाहमित्यस्या निशाया उदिते क्षये ।
स्वयं सर्वगतः स्फारः स्वालोकः संप्रवर्तते ॥१४॥
अयमेवाहमित्यस्मिन्संकोचे विलयं गते ।
अनन्तभुवनव्यापी विस्तार उपजायते ॥१५॥
जनकेन परित्यक्ता यथाहंकारवासना ।
तथा त्वमपि सद्बुद्धे विचार्यान्तः परित्यज ॥१६॥
अहंकाराम्बुदे क्षीणे चिद्व्योम्नि विमले तते ।
नूनं संप्रौढतामेति स्वालोको भास्करः परः ॥१७॥
एतावदेवातितमो यदहंभावभावनम् ।
तस्मिंश्च शममानीते प्रकाश उपजायते ॥१८॥
नाहमस्ति न चान्योस्ति नच नास्तीति भावितम् ।
मनः प्रशान्तिमायातं नोपादेयेषु मज्जति ॥१९॥
उपादेयानुपतनं हेयैकान्तविवर्जनम् ।
यदेतन्मनसो राम तद्बन्धं विद्धि नेतरत् ॥२०॥
मा खेदं भज हेयेषु नोपादेयपरो भव ।
हेयादेयदृशौ त्यक्त्वा शेषस्थः स्वच्छतां व्रज ॥२१॥
येषामिदमुपादेयमिदं हेयमिति स्थितिः ।
विलीना ते न वाञ्छन्ति त त्यजन्तीह किंचन ॥२२॥
हेयोपादेयकलने क्षीणे यावन्न चेतसः ।
न तावत्समता भातिसाभ्रे व्योम्नीवचन्द्रिका ॥२३॥
अवस्त्विदमिदं वस्तु यस्येति लुलितं मनः ।
तस्मिन्नोदेति समता शाखोट इव मञ्जरी ॥२४॥
युक्तायुक्तैषणा यत्र लाभालाभविलासिनी ।
समता स्वच्छता तत्र कुतो वैराग्यभासिनी ॥२५॥
एकस्मिन्ब्रह्मतत्त्वेऽस्मिन्विद्यमाने निरामये ।
नानाऽनानातया नित्यं किमयुक्तं क्व युक्तता ॥२६॥
ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे ।
चञ्चले स्फुरतो यस्मिन्कुतस्तस्येह सौम्यता ॥२७॥
निराशता निर्भयता नित्यता समता ज्ञता ।
निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥२८॥
धृतिर्मैत्री मतिस्तुष्टिर्मृदुता मृदुभाषिता ।
हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥२९॥
धावमानमधोभागे चित्तं प्रत्याहरेद्बलात् ।
प्रत्याहारेण पतितमधो वारीव सेतुना ॥३०॥
बाह्यानर्थानिमांस्त्यक्त्वा तिष्ठन्गच्छन्स्वपन्श्वसन् ।
सर्वथा सर्वदा सर्वानान्तरांश्च विचारय ॥३१॥
गृहीततृष्णाशफरि वासनाजालमाविलम् ।
संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥३२॥
अनया तीक्ष्णया तात च्छिन्धि बुद्धिशलाकया ।
वात्ययेवाम्बुदं काले वहन्त्या वितते पदे ॥३३॥
अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् ।
भव्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया ॥३४॥
मनसैव मनश्छित्त्वा कुठारेणेव पादपम् ।
पदं पावनमासाद्य सद्य एव स्थिरो भव ॥३५॥
मनसैव मनच्छित्त्वा विस्मृत्या चरमं मनः ।
वर्तमानमपि च्छित्त्वा च्छिन्नसंसारतां व्रज ॥३६॥
मोहो विस्मृत्य संसारं न भूयः परिरोहति ।
चित्तं विस्मृत्य संसारो न भूयः परिरोहति ॥३७॥
तिष्ठन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।
असदेवेदमित्यन्तर्निश्चित्यास्थां परित्यज ॥३८॥
समतामलमाश्रित्य संप्राप्तं कार्यमाहरन् ।
अचिन्तयंस्तथाऽप्राप्तं विहरेह हि राघव ॥३९॥
यथा शर्वोऽपि लिङ्गानि न बिभर्ति बिभर्ति च ।
त्वमेवमिह कार्याणि कुरु मा कुरु चानघ ॥४०॥
त्वमेव वेत्ता त्वमजस्त्वमात्मा त्वं महेश्वरः ।
आत्मनोऽव्यतिरिक्तः संस्त्वयेत्थमिदमाततम् ॥४१॥
येनात्मदृश्यसद्भावादभितो भावनोज्झिता ।
स न संगृह्यते दोषैर्हर्षामर्षविषादजैः ॥४२॥
रागद्वेषविनिर्मुक्तः समलोष्टाश्मकाञ्चनः ।
युक्त इत्युच्यते योगी त्यक्तसंसारवासनः ॥४३॥
स यत्करोति यद्भुङ्क्ते यद्ददाति निहन्ति यत् ।
तत्र मुक्तधियस्तस्य समता सुखदुःखयोः ॥४४॥
प्राप्तं कर्तव्यमेवेति त्यक्तेष्टानिष्टभावनः ।
प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित् ॥४५॥
चित्सत्तामात्रमेवेदमिति निश्चयवन्मनः ।
त्यक्तभोगाभिमननं शममेति महामते ॥४६॥
मनः प्रकृत्यैव जडं चित्तत्त्वमनुधावति ।
मांसगर्धेन मार्जारो वने मृगपतिं यथा ॥४७॥
सिंहवीर्यवशाल्लब्धं मांसं भुङ्क्तेऽनुगो हरेः ।
चिद्वीर्यवशतः प्राप्तं दृश्यमाश्रयते मनः ॥४८॥
मन एवमसत्कल्पं चित्प्रसादेन जीवति ।
भावयन्विश्वमेवैकं चिन्तामेत्य चिदप्युत ॥४९॥
जडं यत्किल निर्हीनं चिता दीपिकयौजसा ।
तन्मनः शवसंकाशमचिदुत्तिष्ठते कथम् ॥५०॥
चित्स्वभावपरामृष्टा स्पन्दशक्तिरसन्मयी ।
कल्पना चित्तमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः ॥५१॥
यश्चित्तफणिकूत्कारः सैवेयं कलनोच्यते ।
चिदेवाहमिति ज्ञात्वा सा चित्तामेव गच्छति ॥५२॥
चेत्येन रहिता यैषा चित्तद्ब्रह्म सनातनम् ।
चेत्येन सहिता यैषा चित्सेयं कलनोच्यते ॥५३॥
किंचिदामृष्टरूपं यद्ब्रह्म तच्च स्थिरं मनः ।
कल्पना सत्सदैवैतत्सदिवोपस्थिता हृदि ॥५४॥
चित्तमित्येव रूढेयं यदैव कलनोदिता॥
तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता ॥५५॥
संपन्ना कलनानाम्नी संकल्पानुविधायिनी ।
अवच्छेदवती वाग्रा हेयोपादेयधर्मिणी ॥५६॥
सैषा चिदेव जगतामागतेव स्वशक्तितः ।
न संप्रबोधिता यावद्रूपं तावन्न बुध्यते ॥५७॥
अतः शास्त्रविचारेण वैराग्येण परेण च ।
निग्रहेणेन्द्रियाणां च बोधयेत्कलनां स्वयम् ॥५८॥
कलना सर्वजन्तूनां विज्ञानेन शमेन च ।
प्रबुद्धा ब्रह्मतामेति भ्रमतीतरथा जगत् ॥५९॥
व्यामोहमदिरामत्तां लुठितां विषयावटे ।
आत्मावेदनसंसुप्तां कलनामेव बोधयेत् ॥६०॥
अप्रबुद्धा यदा ह्येषा न किंचिदवबुध्यते ।
संकल्पकलनेवान्तर्दृश्यमानाप्यसन्मयी ॥६१॥
तया परमया दृष्ट्या कलनैषान्तरस्थया ।
मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते ॥६२॥
तनुः संकल्पिता यैषा कलनेति जगत्त्रये ।
सा हि किंचिद्विजानाति नित्यं ज्ञानैकधर्मिणी ॥६३॥
चेतनेन जडा राम कलनोपलरूपिणी ।
पद्मिनीवातपेनासौ परेणैव प्रबोध्यते ॥६४॥
यथा शिलामयी कन्या चोदितापि न नृत्यति ।
तथेयं कलना देहे न किंचिदवबुध्यते ॥६५॥
लिपिकर्मनृपैर्युद्धं क्व कृतं घर्घरारवम् ।
क्वचिन्न चन्द्रकिरणैरोषध्यः प्रतिबोधिताः ॥६६॥
असृगालिप्तगात्रैश्च शवैः क्व परिवल्गितम् ।
क्व गीतं मधुरध्वानं वनपाषाणखण्डकैः ॥६७॥
क्व पुंसा विहितैरर्कैः क्षपितं यामिनीतमः ।
क्व संकल्पमयैश्छाया क्रियते व्योमकाननैः ॥६८॥
क्व जडैरुपलाकारैर्मिथ्याभ्रमभरोत्थितैः ।
मृगतृष्णामयैरेभिर्मनोभिः क्रियते क्रिया ॥६९॥
यथातपे क्षते स्फारे मृगतृष्णातरङ्गिणी ।
कलना तद्वदेवेयं स्फुरत्यात्मनि सत्यलम् ॥७०॥
यदेतत्स्पन्दितं नाम तन्मनोऽधिगतं शठैः ।
मरुतां विद्धि तां शक्तिमन्तः प्राणशरीरिणीम् ॥७१॥
येषां संविदनाक्रान्ता संकल्पलवनिश्चयैः ।
अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी ॥७२॥
अयं सोऽहमिदं तन्म इति या कलनाविला ।
प्राणात्मतत्त्वयोस्तस्याः संज्ञा जीवेति कथ्यते ॥७३॥
धीश्चित्तं जीव इत्येताः संकल्पस्यासतो मताः ।
संज्ञाः संकल्पितास्तज्ज्ञैर्न राम परमार्थतः ॥७४॥
मनो नो न मतिर्नापि धीरेषा न शरीरकम् ।
अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा ॥७५॥
आत्मैवेदं जगत्सर्वमात्मा कालक्रमस्तथा ।
स चाकाशादच्छतरो नास्तीवास्त्येव चामलः ॥७६॥
अच्छत्वादसदाभासः संविद्रूपतया तु सत् ।
आत्मा सर्वपदातीतः स्वानुभूत्यानुभूयते ॥७७॥
मनस्तत्र परिक्षीणं यत्र संवित्परात्मनः ।
अन्धकारक्षयस्तत्र यत्रालोकः प्रवर्तते ॥७८॥
यत्रात्मसंविदोऽच्छायाः संकल्पोत्थतया मताः ।
तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः ॥७९॥
परस्य पुंसः संकल्पमयत्वं चित्तमुच्यते ।
अचित्तत्वमसंकल्पान्मोक्षस्तेनाभिजायते ॥८०॥
एतावच्चेतसो जन्म बीजं संसारभूतये ।
संकल्पोन्मुखतां यातः संविदो वा किलात्मनः ॥८१॥
निर्विकल्पाच्चितः सत्ता संकल्पाङ्ककलङ्किता ।
कलनेत्युच्यते तेन पुंस्त्ववद्बुद्ध्यते मनः ॥८२॥
प्राणशक्तौ निरुद्धायां मनो राम विलीयते ।
द्रव्यच्छायानु तद्द्रव्यं प्राणरूपं हि मानसम् ॥८३॥
देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् ।
स्पन्दवेदनतो यत्तन्मन इत्यभिधीयते ॥८४॥
वैराग्यात्कारणाभ्यासाद्युक्तितो व्यसनक्षयात् ।
परमार्थावबोधाच्च रोध्यन्ते प्राणवायवः ॥८५॥
दृषदो विद्यते शक्तिः कदाचिच्चलनैधसाम् ।
न पुनर्मनसामस्ति शक्तिः स्पन्दावबोधने ॥८६॥
स्पन्दः प्राणमरुच्छक्तिश्चलद्रूपैव सा जडा ।
चिच्छक्तिः स्वात्मनः स्वच्छा सर्वदा सर्वगैव सा ॥८७॥
चिच्छक्तेः स्पन्दशक्तेश्च संबन्धः कल्प्यते मनः ।
मिथ्यैव तत्समुत्पन्नं मिथ्या ज्ञानं तदुच्यते ॥८८॥
एषा ह्यविद्या कथिता मायैषा सा निगद्यते ।
परमेतत्तदज्ञानं संसारादिविषप्रदम् ॥८९॥
चिच्छक्तेः स्पन्दशक्तेश्च सङ्गे संकल्पकल्पनम् ।
न कृतं चेत्परिक्षीणास्तदिमा भवभीतयः ॥९०॥
वायुतः स्पन्दशक्तिर्या सा चिता चेत्यते यदा ।
सचेत्या चित्तदैवान्तः संकल्पाद्याति चित्तताम् ॥९१॥
चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् ।
अखण्डमण्डलाकारस्पन्दरूपा चिदेव यत् ॥९२॥
सैषा चित्ता तदन्येन केन संबाध्यते किल ।
अखण्डशक्तेरिन्द्रस्य केन स्यात्सह संगरः ॥९३॥
अतः संबन्धिनोऽभावात्संबन्धोऽत्र न विद्यते ।
संबन्धेन विना कस्य सिद्धं तत्कीदृशं मनः ॥९४॥
चित्स्पन्दयोरेकतायां किं नाम मन उच्यते ।
का सेना हयमातङ्गसङ्गसंघट्टनं विना ॥९५॥
तस्मान्नास्त्येव दुष्टात्म चित्तं राम जगत्त्रये ।
सैषा सम्यक्परिज्ञानाच्चेतसो जायते क्षतिः ॥९६॥
मुधा मैवमनर्थाय मनः संकल्पयानघ ।
मनो मिथ्यासमुदितं नास्त्यत्र परमार्थतः ॥९७॥
मा त्वमन्तः क्वचित्किंचित्संकल्पय महामते ।
मनः संकल्पकं राम यस्मान्नास्तीह कुत्रचित् ॥९८॥
असम्यग्ज्ञानसंभूता कल्पना मृगतृष्णिका ।
हृन्मरौ तव संशान्ता सम्यगालोकनान्मुने ॥९९॥
जडत्वान्निःस्वरूपत्वात्सर्वदैव मृतं मनः ।
मृतेन मार्यते लोकश्चित्रेयं मौर्ख्यचक्रिका ॥१००॥
यस्य नात्मा न देहोऽस्ति नाधारो नापि चाकृतिः ।
तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा ॥१०१॥
सर्वसामग्र्यहीनेन हन्यते मनसापि यः ।
नीलोत्पलदलाघातैर्मन्ये दलितमस्तकम् ॥१०२॥
जडेन मूकेनान्धेन निहतो मनसापि यः ।
मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः ॥१०३॥
विद्यमानोऽपि यः शूरो लोकस्तेनाभिभूयते ।
अविद्यमानमेवेदं हन्यते मुग्धतोदिता ॥१०४॥
मिथ्यासंकल्पकलितं मिथ्यावस्थितिमागतम् ।
अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता ॥१०५॥
अहो नु खलु चित्रेयं मायामयविधायिनी ।
चेतसाप्यतिलोलेन लोकोऽयमभिभूयते ॥१०६॥
मौर्ख्यं यदापदान्विष्टः का हि नापदजानतः ।
पश्य मौर्ख्यादियं सृष्टिरज्ञानेनैव जन्यते ॥१०७॥
हा कष्टमपि दुर्बुद्धेः सृष्टिर्मौर्ख्यवशं गता ।
असतैव यदेतेन जीवेनाप्युपपाद्यते ॥१०८॥
मन्ये मौर्ख्यमयी सृष्टिरियमत्यन्तपेलवा ।
वास्तरङ्गप्रवाहेण कणशः परिशीर्यते ॥१०९॥
नीलाञ्जनालवालेन यन्त्रेणैव विचूर्ण्यते ।
इन्दोराभोगपूर्णस्य करस्पर्शेन मुह्यति ॥११०॥
रिपुभिर्नयनोन्मुक्तैर्दृष्टः सूत्रैर्निबध्यते ।
संकल्पकृतया शूरसेनया परिभूयते ॥१११॥
तस्मात्किलेयं मनसा न स्थितेनैव कुत्रचित् ।
कल्पितेन मुधान्येन कृपणेन निहन्यते ॥११२॥
मूर्खलोकमयी सृष्टिर्मन एवासदुत्थितम् ।
यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते ॥११३॥
अभिजाताऽस्वरूपैषा प्रज्ञा क्षोदेषु न क्षमा ।
नोपदेशगिरां योग्या परिपूर्णेव संस्थिता ॥११४॥
विभेत्येषापि वीणायास्तन्त्रीगुणतनुध्वनेः ।
बन्धोरपि सनिद्रस्य विभेति वदनद्युतेः ॥११५॥
असतोऽपि जनादुच्चैर्गीताद्भीता पलायते ।
स्वेनैव मनसाप्यज्ञा किलैषा विवशीकृता ॥११६॥
सुखलवविवशा द्विषेव तप्ता
हृदयगतेन निजेन चेतसैव ।
विधुरितधिषणा न वेत्ति सत्यं
तदपि कथं परिमोहितो मुधैव ॥११७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मनोविनिवारणं नाम त्रयोदशः सर्गः ॥१३॥

N/A

References : N/A
Last Updated : September 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP