उपशमप्रकरणम् - सर्गः २९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अथ वर्षसहस्रेण दिव्येनासुरपुङ्गवः ।
देवदुन्दुभिनिर्घोषैर्बुबुधे भगवान्बलिः ॥१॥
बलौ प्रबुद्धे तद्बालं विरेजे नगरं तदा ।
वैरिञ्च इव सूर्यौघ उदिते कमलाकरः ॥२॥
बलिः प्रबुद्ध एवासौ यावन्नायान्ति दानवाः ।
तावत्संचिन्तयामास समाधिसदने क्षणम् ॥३॥
अहो नु रम्या पदवी शीतला पारमार्थिकी ।
अहमस्यां क्षणं स्थित्वा परां विश्रान्तिमागतः ॥४॥
तदेतामेव पदवीमवलम्ब्य करोम्यहम् ।
भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः ॥५॥
ऐन्दवेष्वपि विश्वेषु न तथानन्दवीचयः ।
तोषयन्ति यथान्तर्मे संसिद्धिभवभूतयः ॥६॥
इति भूयोऽपि विश्रान्त्यै कुर्वाणं गलितं मनः ।
बलिमावारयामासुर्दैत्याश्चन्द्रमिवाम्बुदाः ॥७॥
तानालोक्य पुनर्दध्यौ तत्प्रणामाकुलेक्षणः ।
तैः कुलाचलसंकाशैः परिवीतवपुस्त्विदम् ॥८॥
चितः क्षीणविकल्पस्य किमुपादेयमस्ति मे ।
मनस्तदभिपातित्वाद्याति तद्रसतामलम् ॥९॥
मोक्षमिच्छाम्यहं कस्माद्बद्धः केनास्मि वै पुरा ।
अबद्धो मोक्षमिच्छामि केयं बालविडम्बना ॥१०
न बन्धोस्ति न मोक्षोस्ति मौर्ख्यं मे क्षयमागतम् ।
किं मे ध्यानविलासेन किं वा ध्यानेन मे भवेत् ॥११॥
ध्यानाध्यानभ्रमौ त्यक्त्वा पुंस्त्वं स्वमवलोकयत् ।
यदायाति तदायातु न मे वृद्धिर्न वा क्षयः ॥१२॥
न ध्यानं नापि वाऽध्यानं न भोगान्नाप्यभोगिताम् ।
अभिवाञ्छामि तिष्ठामि सममेव गतज्वरः ॥१३॥
न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ ।
न मे ध्यानदशाकार्यं न कार्यं विभवेन मे ॥१४॥
नाहं मृतो न जीवामि न सन्नासन्न सन्मयः ।
नेदं मे नैव चान्यन्मे नमो मह्यमहं बृहत् ॥१५॥
इदमस्तु जगद्राज्यं तिष्ठाम्यत्र तु संस्थितः ।
नेह वास्तु जगद्राज्यं तिष्ठाम्यात्मनि शीतलः ॥१६॥
किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया ।
यदायाति तदायातु नाहं किंचन मे क्वचित् ॥१७॥
न किंचिदपि कर्तव्यं यदि नाम मयाधुना ।
तत्कस्मान्न करोमीदं किंचित्प्रकृतकर्म वै ॥१८॥
इति निर्णीय पूर्णात्मा बलिर्ज्ञानवतां वरः ।
दैत्यानालोकयामास पद्मानीव दिवाकरः ॥१९॥
दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् ।
शिरःप्रणामाञ्जग्राह पुष्पामोदानिवानिलः ॥२०॥
अथ वैरोचनिस्तत्र ध्येयत्यागमयात्मना ।
मनसा सकलान्येव राजकार्याणि संव्यधात् ॥२१॥
द्विजान्देवान्गुरूंश्चैव पूजयामास पूजया ।
संमानयामास सुहृद्बन्धुसामन्तसज्जनान् ॥२२॥
अर्थेनापूरयामास भृत्यानर्थिगणांस्तथा ।
ललना लालयामास विचित्रविभवार्पणैः ॥२३॥
इत्यसौ ववृधे तस्मिन्राज्ये सकलशासने ।
यज्ञं प्रति बभूवाथ मतिरस्य कदाचन ॥२४॥
तर्पिताशेषभुवनं देवर्षिगणपूजितम् ।
सह शुक्रादिभिर्मुख्यैः स चकार महामखम् ॥२५॥
बलिर्भोगभरस्यार्थी नेति निर्णीय माधवः ।
बलेरीहितसिद्ध्यर्थं सिद्धिदस्तन्मखं ययौ ॥२६॥
भोगैककृपणायेदं जगज्जङ्गलखण्डकम् ।
दातुं शोच्याय शक्राय वयोज्येष्ठाय कार्यवित् ॥२७॥
क्रममाणो बलेनात्र वञ्चयित्वा बलिं हरिः ।
बबन्ध पातालतले भूगेह इह वानरम् ॥२८॥
अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना ।
जीवन्मुक्तवपुः स्वस्थो नित्य ध्यानविषण्णधीः ॥२९॥
पातालकुहरे तिष्ठञ्जीवन्मुक्तमतिर्बलिः ।
आपदं संपदं दृष्ट्या समयैव स पश्यति ॥३०॥
नास्तमेति न चोदेति तत्प्रज्ञा सुखदुःखयोः ।
समा स्थिरकरा चित्रलेख्या सूर्यावलिर्यथा ॥३१॥
आविर्भावतिरोभावसहस्त्राणीह जीवताम् ।
तन्मनश्चिरमालोक्य भीमेषु विरतिं गतम् ॥३२॥
दशकोटीश्च वर्षाणामनुशास्य जगत्त्रयम् ।
अन्ते विरक्ततां प्राप्तमुपशान्तं बलेर्मनः ॥३३॥
ऊहापोहसहस्राणि भावाभावशतानि च ।
बलिना परिदृष्टानि क्व समाश्वासमेत्यसौ ॥३४॥
भोगाभिलाषं संत्यज्य बलिः संपूर्णमानसः ।
आत्मारामस्थितो नित्यं मध्ये पातालकोटरे ॥३५॥
पुनरेतेन बलिना जगदिन्द्रतयाखिलम् ।
अनुशास्यमिदं राम बहून्वर्षगणानिह ॥३६॥
न तस्येन्द्रपदप्राप्त्या तुष्टिः समुपजायते ।
न तस्य स्वपदभ्रंशादुद्वेग उपजायते ॥३७॥
समः सर्वेषु भावेषु सर्वदैवोदिताशयः ।
संप्राप्तमाहरन्स्वस्थ आकाश इव तिष्ठति ॥३८॥
बलेर्विज्ञानसंप्राप्तिरेषा ते कथिता मया ।
एतां दृष्टिमवष्टभ्य त्वमप्यभ्युदितो भव ॥३९॥
बलिवत्प्रविवेकेन नित्योऽहमिति निश्चयात् ।
पदमासादयाद्वैतं पौरुषेणैव राघव ॥४०॥
द्वे चाष्टौ चैव वर्षाणां कोटीर्भुक्त्वा जगत्त्रयम् ।
अन्ते वैरस्यमापन्नो बलिरप्यसरोत्तमः ॥४१॥
तस्मादवश्यवैरस्यं भोगभारमरिंदम ।
संत्यज्य सत्यमानन्दमवैरस्यं पदं व्रज ॥४२॥
इमा दृश्यदृशो राम नानाकारविकारदाः ।
नेह कान्ततया ज्ञेया दूराच्छैलशिला इव ॥४३॥
धावमानमिहामुत्र लुठितं लोकवृत्तिषु ।
संस्थापय निबद्ध्यैतच्चेतो हृदयकोटरे ॥४४॥
चिदादित्यो भवानेव सर्वत्र जगति स्थितः ।
कः परस्ते क आत्मीयः परिस्खलसि किं मुधा ॥४५॥
त्वमनन्तो महाबाहो त्वमाद्यः पुरुषोत्तमः ।
त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः ॥४६॥
त्वयि सर्वमिदं प्रोतं जगत्स्थावरजंगमम् ।
बोधे नित्योदिते शुद्धे सूत्रे मणिगणा यथा ॥४७॥
न जायसे न म्रियसे त्वमजः पुरुषो विराट् ।
चिच्छुद्धा जन्ममरणभ्रान्तयो मा भवन्तु ते ॥४८॥
समस्तजन्मरोगाणां प्रविचार्य बलाबलम् ।
तृष्णामुत्सृज्य भोगानां भोक्तैव भव केवलम् ॥४९॥
त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते ।
इदमाभासते सर्वं संसारस्वप्नमण्डनम् ॥५०॥
मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते ।
शुद्धचित्तोऽसि सर्वात्मा सर्ववस्त्ववभासकः ॥५१॥
पूर्वमिष्टमनिष्टं त्वमनिष्टं चेष्टमित्यपि ।
परिकल्प्य तदभ्यासात्तत्ततोऽपि परित्यज ॥५२॥
इष्टानिष्टदृशोस्त्यागे समतोदेति शाश्वती ।
तया हृदयवर्तिन्या पुनर्जन्तुर्न जायते ॥५३॥
येषु येषु प्रदेशेषु मनो मज्जति बालवत् ।
तेभ्यस्तेभ्यः समाहृत्य तद्धि तत्त्वे नियोजयेत् ॥५४॥
एवमभ्यागताभ्यासं मनोमत्तमतंगजम् ।
निबध्य सर्वभावेन परं श्रेयोऽधिगम्यते ॥५५॥
मा शरीरयथार्थज्ञैर्मिथ्यादृष्टिहताशयैः ।
धूर्तैः संकल्पविक्रीतैर्विमूढैः समतां व्रज ॥५६॥
अकिंचनात्स्वनिर्णीतौ लम्बमानात्परोक्तिषु ।
न मौर्ख्यादधिको लोके कश्चिदस्तीह दुःखदः ॥५७॥
त्वमेतदविवेकाब्भ्रमुदितं हृदयाम्बरे ।
विवेकपवनेनाशु दूरं नय महामते ॥५८॥
आत्मनैव प्रयत्नेन यावदात्मावलोकने ।
न कृतोऽनुग्रहस्तावन्न विचारोदयो भवेत् ॥५९॥
वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिरप्ययम् ।
नात्मा प्रकटतामेति यावन्न स्वमवेक्षितम् ॥६०॥
त्वमात्मन्यात्मना राम प्रसादे समवस्थितः ।
प्राप्तोऽसि विततं बोधं मद्वचस्येव बुध्यसे ॥६१॥
विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः ।
गृहीता वितता व्याप्तिर्मदुक्त्या परमात्मनः ॥६२॥
विलीनसर्वसंकल्पः शान्तसंदेहविभ्रमः ।
क्षीणकौतुकनीहारो जातोऽसि विगतज्वरः ॥६३॥
यदुपगच्छसि पासि निहंसि वा
पिबसि विस्मयसे च विवर्धसे ।
तदपि तेन तदास्तु यदा मुने
विगतबोधकलङ्कविशङ्कितः ॥६४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे बलेर्विज्ञानप्राप्तिर्नामैकोनत्रिंशः सर्गः ॥२९॥
N/A
References : N/A
Last Updated : September 21, 2021
TOP