संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ९२

उपशमप्रकरणम् - सर्गः ९२

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
एतानि तानि प्रोक्तानि त्वया बीजानि मानद ।
कतमस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥१॥
श्रीवसिष्ठ उवाच ।
एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् ।
तस्य तस्य प्रयोगेण शीघ्रमासाद्यते पदम् ॥२॥
सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि ।
पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥३॥
स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् ।
क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥४॥
सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेत् ।
तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥५॥
संवित्तत्त्वे कृतध्यानो यदि तिष्ठसि चानघ ।
तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥६॥
संवेद्ये केवले ध्यानं न संभवति राघव ।
सर्वत्र संभवादस्याः संवित्तेरेव सर्वदा ॥७॥
यच्चिन्तयसि यद्यासि यत्तिष्ठसि करोषि च ।
तत्र तत्र स्थिता संवित्संविदेव तदेव सा ॥८॥
वासनासंपरित्यागे यदि यत्नं करोषि च ।
तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् ॥९॥
पूर्वेभ्यस्तु प्रयत्नेभ्यो विषमोऽयं हि संस्मृतः ।
दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि ॥१०॥
यावद्विलीनं न मनो न तावद्वासनाक्षयः ।
न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥११॥
यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ।
यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ॥१२॥
यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।
यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः ॥१३॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
मिथः कारणतां गत्वादुःसाध्यानि स्थितान्यतः ॥१४॥
तस्माद्राघव यत्नेन पौरुषेण विवेकिना ।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रयेत् ॥१५॥
सर्वथा ते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः ।
तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥१६॥
वासनाक्षयविज्ञानमनोनाशा महामते ।
समकालं चिराभ्यस्ता भवन्ति फलदा मुने ॥१७॥
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीलिता इव ॥१८॥
चिरकालोपरचिता अप्येते सुधियापि च ।
एकशः परमभ्येतुं न शक्ताः सैनिका इव ॥१९॥
सममुद्योगमानीताः सन्त एते हि धीमता ।
संसाराब्धिं निकृन्तन्ति जलान्यद्रितटानिव ॥२०॥
वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः ।
समं सेव्यास्तव चिरं तेन तात न लिप्यसे ॥२१॥
त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।
निःशेषमेव त्रुट्यन्ति विसच्छेदाद्गुणा इव ॥२२॥
जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥२३॥
गच्छन्शृण्वन्स्पृशञ्जिघ्रंस्तिष्ठञ्जाग्रत्स्वपंस्तथा ।
श्रेयसे परमायास्य त्रयस्याभ्यासवान्भव ॥२४॥
वासनासंपरित्यागसमं प्राणनिरोधनम् ।
विदुस्तत्त्वविदस्तस्मात्तदाप्येवं समाहरेत् ॥२५॥
वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् ।
प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥२६॥
प्राणायामचिराभ्यासैर्युक्त्या च गुरुदत्तया ।
आसनाशनयोगेन प्राणस्पन्दो निरुद्ध्यते ॥२७॥
यथाभूतार्थदर्शित्वाद्वासना न प्रवर्तते ।
आदावन्ते च वस्तूनामविसंवादि यत्स्थितम् ॥२८॥
रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना ।
निःसङ्गव्यवहारित्वाद्भवभावनवर्जनात् ॥२९॥
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।
वासनाविभवे नष्टे न चित्तं संप्रवर्तते ॥३०॥
संशान्ते पवनस्पन्दे यथा पांसुर्नभस्तले ।
यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि ॥३१॥
तस्माज्जगति जायन्ते पांसवोऽवकरादिव ।
प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥३२॥
उपविश्योपविश्यैकचित्तकेन मुहुर्मुहुः ।
अथवैनं क्रमं त्यक्त्वा चित्ताक्रमणमेव चेत् ॥३३॥
रोचते तत्तदाप्नोषि कालेन बहुना पदम् ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥३४॥
अङ्कुशेन विना मत्तं यथा दुष्टं मतङ्गजम् ।
अध्यात्मविद्याधिगमः साधुसङ्गम एव च ॥३५॥
वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥३६॥
याभिस्तज्जीयते क्षिप्रं धाराभिरिव भूरजः ।
सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये ॥३७॥
चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः ।
विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ॥३८॥
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ।
चित्तं चित्तस्य वाऽदूरं संस्थितं स्वशरीरकम् ॥३९॥
साधयन्ति समुत्सृज्य युक्तिं ये तान्हठान्विदुः ।
भयाद्भयमुपायान्ति क्लेशात्क्लेशं व्रजन्ति ते ॥४०॥
निर्धृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः ।
भ्रमन्ति गिरिकूटेषु फलपल्लवभोजनाः ॥४१॥
मुग्धमुग्धधियो भीता वराका हरिणा इव ।
मतिरालूनशीर्णाङ्गी तदीया पेलवाङ्गिका ॥४२॥
न क्वचिद्याति विश्वासं मृगी ग्रामगता यथा ।
कल्लोलकलितं चेतस्तेषां जल इवाऽहिते ॥४३॥
प्रोह्यते प्रपतद्दूरं तृणं गिरिनदीष्विव ।
कालं यज्ञतपोदानतीर्थदेवार्चनभ्रमैः ॥४४॥
चिरमाधिशतोपेताः क्षपयन्ति मृगा इव ।
आत्मतत्त्वं विधिवशात्कदाचित्केचिदेव ते ॥४५॥
दुःखदोषशतादग्धा विदन्ति न विदन्ति वा ।
आगमापायिनोऽनित्या नरकस्वर्गमानुषैः ॥४६॥
पातोत्पातकराकाराः क्षीयन्ते कन्दुका इव ।
इतो गच्छन्ति नरकं ततः स्वर्गमिहैव च ॥४७॥
आवृत्तिभिर्निवर्तन्ते सरसीव तरङ्गकाः ।
तस्माच्चैतां परित्यज्य दुर्दृष्टिं रघुनन्दन ॥४८॥
शुद्धां संविदमाश्रित्य वीतरागः स्थिरो भव ।
ज्ञानवानेव सुखवान्ज्ञानवानेव जीवति ।
ज्ञानवानेव बलवांस्तस्माज्ज्ञानमयो भव ॥४९॥
संवेद्यवर्जितमनुत्तममाद्यमेकं
संवित्पदं विकलनं कलयन्महात्मन् ।
हृद्येव तिष्ठ कलनारहितः क्रियां तु
कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिनिराकरणक्रमयोगोपदेशो नाम द्विनवतितमः सर्गः ॥९२॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP