उपशमप्रकरणम् - सर्गः ५९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा भगवानेनं सुरघुं रघुनन्दन ।
ययौ स्वमेव रुचिरं माण्डव्यो मौनमण्डलम् ॥१॥
गते वरमुनौ राजा गत्वैकान्तमनिन्दितम् ।
धिया संचिन्तयामास को नामाहमिति स्वयम् ॥२॥
नाहं मेरुर्न मे मेरुर्जगन्नाहं न मे जगत् ।
नाहं शैला न मे शैला धरा नाहं न मे धरा ॥३॥
किरातमण्डलं नेदं मम नाहं च मण्डलम् ।
निजसंकेतमात्रेण केवलं देश एव मे ॥४॥
त्यक्तो मयैष संकेतो नाहं देशो न वैष मे ।
इदानीं नगरं शिष्टमेष एवात्र निश्चयः ॥५॥
पताकावनपङ्क्त्याढ्या भृत्योपवनसंकुला ।
गजाश्वसामन्तयुता पुरी नाहं न मे पुरी ॥६॥
व्यर्थसंकेतसंबन्धं संकेतविगमे क्षतम् ।
भोगवृन्दं कलत्रं च नाहं नैतन्ममाखिलम् ॥७॥
एवं सभृत्यं सबलं सवाहनपुरान्तरम् ।
नाहं राज्यं न मे राज्यं संकेतो ह्ययमाकुलः ॥८॥
देहमात्रमहं मन्ये हस्तपादादिसंयुतम् ।
तदिदं तावदाश्वन्तरलमालोकयाम्यहम् ॥९॥
तदत्र तावन्मांसास्थि नाहमेतदचेतनम् ।
न चैतन्मम संश्लेषमेत्यब्जस्य यथा जलम् ॥१०॥
मांसं जडं न तदहं नैवाहं रक्तमप्यलम् ।
जडान्यस्थीनि नैवाहं न चैतानि मम क्वचित् ॥११॥
कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे ।
जडं यत्किल देहेऽस्मिंस्तदहं नैव चेतनः ॥१२॥
नाहं भोगा न मे भोगा न मे बुद्धीन्द्रियाणि च ।
जडान्यसत्स्वरूपाणि न च बुद्धीन्द्रियाण्यहम् ॥१३॥
मूलं संसृतिदोषस्य मनो नाहं जडं हि तत् ।
अथ बुद्धिरहंकार इति दृष्टिर्मनोमयी ॥१४॥
मनोबुद्धीन्द्रियाद्यन्तो भूतकोशश्चलद्वपुः ।
नाहमेवं शरीरादि शिष्टमालोकयाम्यहम् ॥१५॥
शेषस्तु चेतनो जीवः स चेच्चेत्येन चेतति ।
अन्येन बोध्यमानोऽसौ नात्मतत्त्ववपुर्भवेत् ॥१६॥
एवं त्यजामि संवेद्यं चेत्यं नाहं हि तत्किल ।
शेषो विकल्परहितो विशुद्धचिदहंस्थितः ॥१७॥
चित्रमेषोऽस्मि लब्धात्मा जातः कालेन कार्यवान् ।
एष सोऽहमनन्तात्मा नान्तोऽस्य परमात्मनः ॥१८॥
ब्रह्मणीन्द्रे यमे वायौ सर्वभूतगणे तथा ।
स एष भगवानात्मा तन्तुर्मुक्तास्विव स्थितः ॥१९॥
चिच्छक्तिरमला सैषा चेत्यामयविवर्जिता ।
भरिताशेषदिक्कुञ्जा भैरवाकारधारिणी ॥२०॥
सर्वभावगता सूक्ष्मा भावाभावविवर्जिता ।
आब्रह्मभुवनान्तःस्था सर्वशक्तिसमुद्गिका ॥२१॥
सर्वसौन्दर्यसुभगा सर्वप्राकाश्यदीपिका ।
सर्वसंसारमुक्तानां तन्तुराततरूपिणी ॥२२॥
सर्वाकारविकाराढ्या सर्वाकारविवर्जिता ।
सर्वभूतौघतां याता सर्वदा सर्वतां गता ॥२३॥
चतुर्दशविधान्येषा भूतानि भुवनोदरे ।
एतन्मयीयं कलना जागती वेदनात्मिका ॥२४॥
मिथ्यावभासमात्रं तु सुखदुःखदशागतिः ।
नानाकारमयाभासः सर्वमात्मैव चित्परा ॥२५॥
सोऽयमात्मा मम व्यापी सेयं यदवबोधनम् ।
सेयमाकलिताङ्गाभा करोति नृपविभ्रमम् ॥२६॥
अस्या एव प्रसादेन मनो देहरथे स्थितम् ।
संसारजाललीलासु याति वल्गति नृत्यति ॥२७॥
इदं मनःशरीरादि न किंचिदपि वस्तुतः ।
नष्टे न किंचिदप्यस्मिन्परिनश्यति पेलवे ॥२८॥
जगज्जालमयं नृत्तमिदं चित्तनटैस्ततम् ।
एतयैवैकया बुद्ध्या दृश्यते दीपलेखया ॥२९॥
कष्टं मुधैव मे चिन्ता निग्रहानुग्रहस्थितौ ।
बभूव देहनिष्ठेह न किंचिदपि देहकम् ॥३०॥
अहो त्वहं प्रबुद्धोऽस्मि गतं दुर्दर्शनं मम ।
दृष्टं द्रष्टव्यमखिलं प्राप्तं प्राप्यमिदं मया ॥३१॥
सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् ।
चिन्निष्पन्दांशमात्रांशान्नान्यत्किंचन शाश्वतम् ॥३२॥
क्व तौ कीदृग्विधौ वापि किंनिष्ठौ वा किमात्मकौ ।
निग्रहानुग्रहौ लोके हर्षामर्षक्रमौ तथा ॥३३॥
किं सुखं किं नु वा दुःखं सर्वं ब्रह्मेदमाततम् ।
अहमासं मुधा मूढो दिष्ट्या मूढोऽस्म्यहं स्थितः ॥३४॥
किमस्मिन्नेवमालोके शोच्यते किं विमुह्यते ।
किं प्रेक्ष्यते किं क्रियते स्थीयते वाथ गम्यते ॥३५॥
किंचिदेवमिदं नाम चिदाकाशे विराजते ।
नमो नमस्ते निस्तत्त्व दिष्ट्या दृष्टोऽसि सुन्दर ॥३६॥
अहो नु संप्रबुद्धोऽस्मि सम्यग्ज्ञातमलं मया ।
नमो मह्यमनन्ताय सम्यग्ज्ञानोदयाय च ॥३७॥
विगतरञ्जननिर्विषयस्थिति-
र्गतभवभ्रमरञ्जितवर्जिते ।
स्थिरसुषुप्तकलाभिगतस्ततः
समसमं निवसाम्यहमात्मनि ॥३८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरहवृ० सुरघुविश्रान्तिर्नामैकोनषष्टितमः सर्गः ॥५९॥
N/A
References : N/A
Last Updated : September 21, 2021
TOP