उपशमप्रकरणम् - सर्गः ७१
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
यावत्तुर्यपरामर्शस्तावत्केवलतापदम् ।
जीवन्मुक्तस्य विषयो वचसां च रघूद्वह ॥१॥
अत ऊर्ध्वमदेहानां मुक्तानां वचसा तथा ।
विषयो न महाबाहो पुरुषाणामिवाम्बरम् ॥२॥
सा हि विश्रान्तिपदवी दूरेभ्योऽपि दवीयसी ।
गम्या विदेहमुक्तानां खलेखेव नभस्वताम् ॥३॥
सुषुप्तावस्थया कंचित्कालं भुक्त्वा जगत्स्थितिम् ।
तुर्यतामेति तदनु परमानन्दघूर्णितः ॥४॥
तुर्यातीतदशां तज्ज्ञा यथा यान्त्यात्मकोविदाः ।
तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह ॥५॥
सुषुप्तावस्थया राम भव संव्यवहारवान् ।
चित्रेन्दोरिव ते न स्तः क्षयोद्वेगावरिन्दम ॥६॥
शरीरसंनिवेशस्य क्षये स्थैर्ये च संविदः ।
मा गृहाण भ्रमो ह्येष शरीरमिति जृम्भते ॥७॥
देहनाशेन कोऽर्थस्ते कोऽर्थस्ते देहसंस्थया ।
भव त्वं प्रकृतारम्भस्तिष्ठत्वेष यथास्थितम् ॥८॥
ज्ञातवानसि तत्सत्यं बुद्धवानसि तत्पदम् ।
प्राप्तवानसि रूपं स्वं विशोको भव भूतये ॥९॥
ईप्सितानीप्सितं त्यक्त्वा शीतलालोकशोभया ।
अन्धकारात्तथाम्भोदान्मुक्तं खमिव शोभते ॥१०॥
मनस्तवात्मसंपन्नं नाधः समनुधावति ।
योगमन्त्रतपःसिद्धः पुरुषः खादिवावनिम् ॥११॥
इह शुद्धा चिदेवास्ति पारावारविवर्जिता ।
अयं सोऽहमिदं तन्म इति ते मास्तु विभ्रमः ॥१२॥
आत्मेति व्यवहारार्थमभिधा कल्पिता विभोः ।
नामरूपादिभेदस्तु दूरमस्मादलं गतः ॥१३॥
जलमेव यथाम्भोधिर्न तरङ्गादिकं पृथक् ।
आत्मैवेदं तथा सर्वं न भूतोयादिकं पृथक् ॥१४॥
यथा समस्ताज्जलधौ जलादन्यन्न लभ्यते ।
तथैव जगतः स्फारादात्मनोऽन्यन्न लभ्यते ॥१५॥
अयं सोऽहमिति प्राज्ञ क्व करोषि व्यवस्थितिम् ।
किं तत्त्वं किं च वा ते स्यात्किं तत्त्वं किं च वा न ते ॥१६॥
न द्वित्वमस्ति नो देहाः संबन्धो न च तैः स्थितः ।
संभाव्यते कलङ्को वा भानोरिव तमःपटैः ॥१७॥
द्वित्वमभ्युपगम्यापि कथयामि तवारिहन् ।
देहादिभिः सद्भिरपि न संबन्धो विभोर्भवेत् ॥१८॥
छायातपप्रसरयोः प्रकाशतमसोर्यथा ।
न संभवति संबन्धस्तथा वै देहदेहिनोः ॥१९॥
यथा शीतोष्णयोर्नित्यं परस्परविरुद्धयोः ।
न संभवति संबन्धो राम देहात्मनोस्तथा ॥२०॥
अविनाभाविनोर्यस्तु संबन्धः कथमेतयोः ।
जडचेतनयोर्देहदेहिनोरनुभूयते ॥२१॥
चिन्मात्रस्यात्मनो देहसंबन्ध इति या कथा ।
सैषा दुरवबोधार्था दावाग्नौ जलधिर्यथा ॥२२॥
सत्यावलोकनेनैषा मिथ्यादृष्टिर्विनश्यति ।
अवलोकनया साम्यमातपे जलधिर्यथा ॥२३॥
चिदात्मा निर्मलो नित्यः स्वावभासो निरामयः ।
देहस्त्वनित्यो मलवांस्तेन संबध्यते कथम् ॥२४॥
स्पन्दमायाति वातेन भूतैर्वा पीवरीकृतः ।
देहस्तेन न संबन्धो मनागेव सहात्मना ॥२५॥
सिद्धे द्वित्वेऽपि देहस्य न संबन्धस्य संभवः ।
द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः ॥२६॥
इत्येतदेव तत्सत्त्वे तत्रैवान्तःस्थितिं कुरु ।
न बन्धोऽस्ति न मोक्षोऽस्ति कदाचित्कस्यचित्क्वचित् ॥२७॥
सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम् ।
सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय ॥२८॥
सुखी दुःखी विमूढोऽस्मीत्येता दुर्दृष्टयः स्मृताः ।
आसु चेद्वस्तुबुद्धिस्ते तच्चिरं दुःखमिच्छसि ॥२९॥
यः क्रमः शैलतृणयोः कौशेयोपलयोस्तथा ।
साम्यं प्रति स एवोक्तः परमात्मशरीरयोः ॥३०॥
यथा तेजस्तिमिरयोर्न संबन्धो न तुल्यता ।
अत्यन्तभिन्नयो राम तथैवात्मशरीरयोः ॥३१॥
यथा शीतोष्णयोरैक्यं कथास्वपि न दृश्यते ।
जडप्रकाशयोः श्लेषो न तथात्मशरीरयोः ॥३२॥
देहश्चलति वातेन तेनैवायाति गच्छति ।
शब्दं करोति वातेन देहनाडीविलासिना ॥३३॥
शब्दः कचटतप्रायः स्फुरत्यन्तः समीरणैः ।
यथा प्रजायते वंशाद्देहरन्ध्रात्तथैव हि ॥३४॥
कनीनिकापरिस्पन्दश्चक्षुःस्पन्दस्य मारुतात् ।
इन्द्रियस्फुरणात्सैव संवित्केवलमात्मनः ॥३५॥
आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।
प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते ॥३६॥
शरीरालयमुत्सृज्य यत्र चित्तविहंगमः ।
स्ववासनावशाद्याति तत्रैवात्मानुभूयते ॥३७॥
यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा ।
यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा ॥३८॥
सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति ।
यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते ॥३९॥
अपामवनतं स्थानमास्पदं भूतले यथा ।
अन्तःकरणमेवात्मसंविदामास्पदं तथा ॥४०॥
सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता ।
आत्मसंवित्तनोतीदमालोकमिव सूर्यभा ॥४१॥
अन्तःकरणमेवातः कारणं भूतसंसृतौ ।
आत्मा सर्वातिगत्वात्तु कारणं सदकारणम् ॥४२॥
अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः ।
संसारसंसृतौ सारमन्तःकरणकारणम् ॥४३॥
असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् ।
संमोहबीजकणिकां तमोऽर्कादिव दृश्यते ॥४४॥
यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव ।
असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात् ॥४५॥
संसारकारणमितः स्वयं चेतो विचारयेत् ।
जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम् ॥४६॥
श्रीराम उवाच ।
एताः संज्ञाः प्रभो ब्रह्मंश्चेतसो रूढिमागताः ।
कथमित्येव कथय मयि मानद सिद्धये ॥४७॥
श्रीवसिष्ठ उवाच ।
सर्वे भावा इमे नित्यमात्मतत्वैकरूपिणः ।
चित्तात्तरङ्गकगणा जलैककलिता यथा ॥४८॥
आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् ।
तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा ॥४९॥
क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः ।
तरङ्गत्वमयातेषु जलभावो जलेष्विव ॥५०॥
तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः ।
सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः ॥५१॥
तत्र तेषु शरीरेषु सर्वशक्तिस्तदात्मनः ।
कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः ॥५२॥
तदज्ञानमनन्तात्मभूषितं जीव उच्यते॥
स संसारे महामोहमायापञ्जरकुञ्जरः ॥५३॥
जीवनाज्जीव इत्युक्तोऽहंभावः स्यात्त्वहंतया ।
बुद्धिर्निश्चायकत्वेन संकल्पकलनान्मनः ॥५४॥
प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः ।
जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया ॥५५॥
जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् ।
तदेतदेव नानात्वं नानासंज्ञाभिराततम् ॥५६॥
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।
बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ ॥५७॥
अज्ञैस्त्वेतासु संज्ञासु कुविकल्पकुतार्किकैः ।
मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः ॥५८॥
एवमेष महाबाहो जीवः संसारकारणम् ।
मूकेनातिवराकेण देहकेनेह किं कृतम् ॥५९॥
आधाराधेययोरेकनाशे नान्यस्य नष्टता ।
यथा तथा शरीरादिनाशे नात्मनि नष्टता ॥६०॥
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।
याति पर्णरसश्चार्करश्मिजालान्तरे यथा ॥६१॥
शरीरसंक्षये देही न क्षयं याति कस्यचित् ।
निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा ॥६२॥
देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः ।
मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः ॥६३॥
यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः ।
चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते ॥६४॥
मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् ।
स देशकालान्तरितो भूत्वा भूत्वानुभूयते ॥६५॥
इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।
मरणव्यपदेशासु देशकालतिरोहितैः ॥६६॥
वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् ।
कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः ॥६७॥
पुनस्तदपि संत्यज्य गच्छत्यन्यदपि क्षणात् ।
अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव ॥६८॥
इतश्चेतश्च नीयन्ते जीवा वासनया स्वया ।
चिरं तदपिजीविन्या धूर्त्या धात्र्यैव बालकाः ॥६९॥
वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।
जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः ॥७०॥
जरठजरदुपोढदुःखभाराः
परिणतिजर्जरजीविताश्च सत्यः ।
हृदयजनितवासनानुवृत्त्या
नरकभरे जनताश्चिरं पतन्ति ॥७१॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥७२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः ॥७१॥
N/A
References : N/A
Last Updated : September 22, 2021
TOP