संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ८५

उपशमप्रकरणम् - सर्गः ८५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
अथ किं वीतहव्यः स्वं स्थितं तस्मिन्धरोदरे ।
कथमुद्धृतवान्देहं स संपन्नश्च किं कथम् ॥१॥
श्रीवसिष्ठ उवाच ।
अनन्तरमनन्तात्म वीतहव्याभिधं मनः ।
स्वमेवात्मचमत्कारमात्रं समवबुद्धवान् ॥२॥
शार्वस्यास्य गणस्याभूत्प्राग्ज्योतिःस्मरणे स्वयम् ।
इच्छा कदाचित्सकलप्राग्जन्मालोकनोन्मुखी ॥३॥
अशेषान्स ददर्शाथ नष्टानष्टान्स्वदेहकान् ।
अनष्टानां ततो मध्यात्तत्तत्कोटरसंस्थितम् ॥४॥
यदृच्छयैव प्रोद्धर्तुं देहं तस्याभवन्मतिः ।
अपश्यत्तत्तथा तत्र पङ्के कीटमिव स्थितम् ॥५॥
शरीरं वीतहव्याख्यं धराकोटरपीडितम् ।
प्रावृडोघोपनीतं तत्पृष्ठस्थपङ्कमण्डलम् ॥६॥
तृणजालावकीर्णत्वग्देहपृष्ठमृदं तथा ।
एतद्दृष्ट्वा महातेजा धराविवरयन्त्रितम् ॥७॥
भूयोऽपि चिन्तयामास धिया परमबोधया ।
सर्वसंपीडिताङ्गत्वात्कायो मे प्राणवायुभिः ॥८॥
मुक्तश्चलितुमाकर्तुं शक्नोति न मनागपि ।
तज्ज्ञात्वा प्रविशाम्याशु देहमेवं विवस्वतः ॥९॥
तदीयः पिङ्गलो देहमुद्धरिष्यति मे ततः ।
अथवा किं ममैतेन शाम्याम्यहमविघ्नतः ॥१०॥
निर्वामि स्वं पदं यामि कोऽर्थो मे देहलीलया ।
इति संचिन्त्य मनसा वीतहव्यो महामते ॥११॥
तूष्णीं स्थित्वा क्षणं भूयश्चिन्तयामास भूतले ।
उपादेयो हि देहस्य न मे त्यागो न संश्रयः ॥१२॥
यादृशो देहसंत्यागस्तादृशो देहसंश्रयः ।
तद्यावदस्ति देहोऽयं न यावदणुतां गतः ॥१३॥
तावदेनमुपारुह्य किंचित्प्रविहराम्यहम् ।
पिङ्गलेन शरीरं स्वमुद्धर्तुं तापनं वपुः ॥१४॥
प्रविशामि नभःसंस्थं मुकुरं प्रतिबिम्बवत् ।
इत्यसौ मुनिरादित्यं विवेशानिलरूपधृक् ॥१५॥
पुर्यष्टकवपुर्भूत्वा भस्त्राखमिव चानलः ।
भगवान्मुनिरप्येनं हृद्गतं मुनिनायकम् ॥१६॥
दृष्ट्वासौ चिन्तयन्कार्यं पौर्वापर्यमुदारधीः ।
विन्ध्यभूधरभूकोशमन्तर्मुनिकलेवरम् ॥१७॥
तृणोपलपरिच्छन्नं ददर्श गतसंविदम् ।
ऋषेश्चिकीर्षितं ज्ञात्वा भानुर्गगनमध्यगः ॥१८॥
धरातो मुनिमुद्धर्तुमादिदेशाग्रगं गणम् ।
वीतहव्यमुनेः संवित्सा पुर्यष्टकरूपिणी ॥१९॥
रविं वातमयी पूज्यं प्रणनामाशु चेतसा ।
भानुनाप्यभ्यनुज्ञातो मानपूर्वकमग्रगम् ॥२०॥
विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम् ।
पिङ्गलोऽसौ नभस्त्यक्त्वा कुञ्जकुञ्जरसुन्दरम् ॥२१॥
प्राप विन्ध्यवनं प्रावृण्मत्ताभ्राम्बरभासुरम् ।
उद्दधार धराकोशान्नखनिष्कृष्टभूतलः ॥२२॥
कलेवरं मुनेः पङ्कान्मृणालमिव सारसः ।
मौनं पुर्यष्टकमथ स्वं विवेश कलेवरम् ॥२३॥
नभस्तलपरिभ्रान्तो विहङ्गम इवालयम् ।
प्रणेमतुर्मिथो मूर्तवीतहव्यनभश्चरौ ॥२४॥
बभूवतुः स्वकार्यैकतत्परौ तेजसां निधी ।
जगाम पिङ्गलो व्योम मुनिश्च विमलं सरः ॥२५॥
तारकाकारकुमुदं सूर्यांशुकवदाकृति ।
वीतहव्यो ममज्जाशु सरस्युद्भिन्नपङ्कजे ॥२६॥
पङ्कपल्वललीलान्ते वने कलभको यथा ।
तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम् ।
मनोभूषितया तन्वा पूर्ववत्पुनराबभौ ॥२७॥
मैत्र्या तया समतया परया च शान्त्या
सत्प्रज्ञया मुदितया कृपया श्रिया च ।
युक्तो मुनिः सकलसङ्गविमुक्तचेता
विन्ध्ये सरित्तटगतो दिनमेव रेमे ॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यसमाधियोगोपदेशो नाम पञ्चाशीतितमःसर्गः ॥८५॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP