प्राणिपत्य परं ज्योतिः सर्व च जगतीतलम् ।
तमःप्रशमनं वक्ष्ये जन्मशास्त्रप्रदीपकम् ॥१॥
लग्नाधिपतिर्लग्ने नीरोगं दीर्घजीविनं कुरुते ।
अतिबलमवनीशं वा भूलाभसमन्वितं कुरुते ।
अतिबलमवनीशं वा भूलाभसमन्वितं जातम् ॥२॥
लग्नपतिर्धनभवने धनवन्तं विपुलजीविनं स्थूलम् ।
अतिबलमवनीशं वा भूलाभं वा सुधर्मरतं कुरुते ॥३॥
सहजगतो लग्नपतिः सद्वन्धुप्रवरमित्रपरिकलितम् ।
धर्मरतं दातारं शूरं सबलं करोति नरम् ॥४॥
लग्नेशे तुर्यगते नृपप्रियं प्रचुरजीवितं कुरुते ।
सँल्लब्धपितरं पित्रोर्भक्तमबहुभोजनं कुरुते ॥५॥
पञ्चमगे लग्नपतौ सुसुतं सत्यागमीश्वरं विदितम् ।
बहुजीवितं सुगीतं सुकर्मनिरतं जनं कुरुते ॥६॥
रिपुभवने लग्नेशे नीरोगं भूमिलाभं च ।
सबलं कृपणं धनिनमरिघ्नं सुकर्मपक्षान्वितं कुरुते ॥७॥
प्रथमपतौ सप्तगमे तेजस्वी शीतवान्भवेत्पुरुषः ।
तद्भार्यापि सुशीला तेजःकलिता सुरुपा च ॥८॥
लग्नपतावष्टमगे कृपणो धनसंचकस्तु दीर्घायुः ।
क्रूरे तु खेचरे काणः सौम्यैः पुरुषो भवेत्सौम्यः ॥९॥
मूर्तिपतिर्यादि नवमे तदा भवति प्रचुरबान्धवः सुकृती ।
सममित्रस्तु सुशीलः सुकृती ख्यातः सुतेजस्वी ॥१०॥
प्रथमेशो दशमस्थो नृपलाभः पण्डितः सुशीलश्च ।
गुरुमातृपूजनमतिर्नृपप्रसिद्धः पुमान् भवति ॥११॥
एकादशस्थतनुपः सुजीवितं सुतसमन्वितं विदितम् ।
तेजःकलितं कुरुते पुरुषं बलिनं वाहनसंयुक्तम् ॥१२॥
द्वादशगे मूर्तिपतौ कटुकवत्कर्मपरोऽशुभो नीचः ।
मानी सहगोत्रीभिर्विदेशगो दत्तभुक्तनरः ॥१३॥