दयितेशो लग्नगतः शोकं निःस्नेहमन्यतरभार्याम् ।
भोगभुजं रुपयुतं जनयति दयितादलितचित्तम् ॥१॥
जायापतौ धनस्थे दुष्टा दयिता सुतेप्सिता भवति ।
वित्तं च कलत्रकरं सततं वसतो विसङ्गश्च ॥२॥
सप्तमपे सहजगते आत्मबलो बन्धुवत्सलो दुःखी ।
देवररता सुरुपा गृहिणी क्रूरे सुत्दृग्दृहगा ॥३॥
जायेशे तुर्यस्थे लोलः पितृवैरसाधकस्नेही ।
अस्य पिता दुर्वाक्यस्तद्भार्या पालयेत्पिता ॥४॥
सप्तमपतौ सुतस्थे सौभाग्ययुतः सुतान्वितः पुरुषः ।
प्रियसाहसदुष्टमतिस्तत्तनयः पालयेद्दयिताम् ॥५॥
रिपुगृहगः कान्तेशः प्रियया सह वैरिणं सरुग्भार्यम् ।
दयितासङ्गक्षयिणं क्रूरः कुरुते च मृत्युपदम् ॥६॥
सप्तमपतिः सप्तमगे परमायुः प्रीतिवत्सलः पुरुषः ।
निर्मलशीलसमेतस्तेजस्वी जायते जातः ॥७॥
सप्तमपतिर्निधनगतो गणिकासुतः करग्रहरहितः ।
नित्यं चिन्तायुक्तो मनुजः किल जायते दुःखी ॥८॥
सुकृतगते सप्तमपतौ तेजोवार्ञ्छालवान्र्पियाप्येवम् ।
क्रूरे षण्ढविरुपो लग्नेशो वीक्षिते नये प्रबलः ॥९॥
सप्तमपे दशमस्थे नृपदोषी लंपटः कपटचित्तः ।
क्रूरे दुःखार्त्तः स्याच्छ्वश्रूवशगो भवेत्पुरुषः ॥१०॥
लाभस्थे जायेशे भक्ता रुपान्विता सुशीला च ।
दयिता परिणीता स्यान्नरस्य तनुर्जायते सततम् ॥११॥
सप्तमपे द्वादशगे गृहबन्धू स्तो न वा भवेद्भार्या ।
सा लोला दुष्टयुता दूराच्चलति च तस्य पुरुषस्य ॥१२॥