भवति साहसकर्मकरो नरो रुधिरपित्तविकारकलेवरः ।
क्षितिपतिर्मतिमान्हितकृत्सदा सुसहसो महसामधिपे क्रिये ॥१॥
परिमलैर्विमलैः कुसुमासनैः सुवसनैः पशुभिः सुखमद्भुतम् ।
गविगतो हि रविर्जलभीरु तां विहितमाहितमादिशते नृणाम् ॥२॥
गणितशास्त्रकलामलशीलतसुललितोऽद्भुतवाक् प्रथितो भवेत् ।
दिनपतौ मिथुने ननु मानवो विनयतानयतातिशयान्वितः ॥३॥
सुजनतारहितः किल कालविज्जनकवाक्यविलोपकरो नरः ।
दिनकरे तु कुलीरगते भवेत्सधनताधनतासहितोऽधिकः ॥४॥
स्थिरमतिश्च पराक्रमतोऽधिको विभुतयाद्भुतकीर्तिसमन्वितः ।
दिनकरे करिवैरिगते नरो नृपरतः परितोषकरो भवेत् ॥५॥
दिनपतौ युवतौ समवस्थिते नरपतेश्च नरो द्रविणं लभेत् ।
मृदुवचाः श्रुतगेयपरायणः समहिमामहिमापहिताहितः ॥६॥
नरपतेरतिभीतिमहर्निशं जनविरोधविधानमघं दिशेत् ।
कलिमनाः परकर्मरतिर्धटे दिनमणिर्न मणिर्द्रविणादिकम् ॥७॥
कृपणतां कलहं च भृशं रुषं विषहुताशनशस्त्रभयं दिशेत् ।
अलिगतः पितृमातृविरोधितां दिनकरो न करोति समुन्नतिम् ॥८॥
स्वजनकोपमतीव महन्मतिं बहुधनं हि धनुर्धरगो रविः ।
स्वजनपूजनमादिशते नृणां सुमतितो मतितोषविवर्द्धनम् ॥९॥
अटनतानिजपक्षविपक्षतः सधनतां कुरुते सततं नृणाम् ।
मकरराशिगतो विगतोत्सवं दिनविभुर्न विभुत्वसुखं दिशेत् ॥१०॥
कलशगामिनि पङ्कजिनीपतौ शठतरो हितरो गतसौत्दृदः ।
मलिनताकलितो रहितः सदा करुणयारुणयार्तसुखी भवेत् ॥११॥
बहुधनं क्रयविक्रयतः सुखं निजजनादपि गुह्यमहाभयम् ।
दिनपतौ झपगेऽतिमतिर्भवेद्विभुतयाद्भुतयायतकीर्तिभाक् ॥१२॥