मेषे व्ययस्थे च भवेन्नराणां व्ययः सुखाच्छादनभोजनेन ।
चतुष्पदानेकविवर्द्धनेन लाभेन नानाविधपौरुषेण ॥१॥
वृषे व्ययस्थे व्यय एव पुंसां भवेद्विचित्राम्बरयोषितां च ।
लाभेन राज्येन पराक्रमेण सधातुवादैर्विबुधैः सदैव ॥२॥
तृतीयराशौ व्ययगे नराणां व्ययो भवेत्स्त्रीव्यसनात्मकैश्च ।
भूतोद्भवावासततप्रभूतः कुशीलजं पापजनागजैश्च ॥३॥
कर्के व्ययस्थे द्विजदेवतानां व्ययो भवेद्यज्ञसमुद्भवैश्च ।
धर्मक्रियाभिर्विदधाति चैव प्रशंसिते साधुजनेन लोके ॥४॥
सिंहे व्ययस्थे तु भवेन्नराणामसंशयो भूरितमः सदैव ।
रुपश्च जातश्च कुकर्मणा च निन्द्यः सतां पार्थिवचौरतो वा ॥५॥
कन्यात्मके चान्त्यगते व्ययश्च भवेन्मनुष्यः स हि चाङ्गनोत्सुकः ।
विवाहमाङ्गल्याविचित्रमुख्यैः सूत्रप्रभाभिर्बहुसाधुसङ्गात् ॥६॥
तुले व्ययस्थे सुरविप्रबन्धुश्रुतिस्मृतिभ्यश्च कृतो व्ययश्च ।
भवेन्नराणां नियमैर्यमैश्च सुतार्थसेवाजनितं प्रसिद्धम् ॥७॥
अलौ व्ययस्थे च भवेद्वयस्तु पुंसां प्रदानेन विडंबनाभिः ।
कुमित्रसेवाजनितः सुनिन्द्यः कुबुद्धितश्चौरकृताधिकारात् ॥८॥
चापे व्ययस्थे परवञ्चनानि व्ययो भवेत्पापजनप्रसङ्गात् ।
सेवाकृतो जात्यधिकारिपुंसः कृषिप्रसङ्गात्परवञ्चनाद्वा ॥९॥
नृगे व्ययस्थे च भवेन्नराणां व्ययस्तु पापाशनकस्य जातः ।
स्ववर्गपूजानिरतस्तथाल्पकृषिर्विहीनश्च विगर्हितश्च ॥१०॥
घटे व्ययस्थे सुरसिद्धविप्रतपस्विनो वन्दिभवो व्ययश्च ।
पुंसां कुपुत्राशनपानजातस्तथा विवादेन विनिर्गतेन ॥११॥
ये स्थानचिन्तासु पुरा प्रदिष्टा योगा मया तान्परिगृह्य शास्त्रात् ।
योगा विचिन्त्याः सुधिया ततस्तु चार्या नराणां हि शुभाशुभैस्ते ॥१२॥