धर्मस्थिते चैव हि मेषलग्ने चतुष्पदोत्थं प्रकरोति धर्मम् ।
तेषां प्रदानेन तु पोषणेन दयाविवेकेन सुपालनेन ॥१॥
वृषे च धर्मे प्रगते मनुष्यो धर्म करोत्येव धनप्रभूतम् ।
विचित्रदानैर्बहुगोप्रदानैर्विभूषणाच्छादनभोजनेन ॥२॥
तृतीयराशौ प्रकरोति धर्मे धर्माकृतिं सौम्यकृतं सदैव ।
अभ्यागतोत्थं द्विजभोजनाद्वा दीनानुकम्पाश्रयमानसेवया ॥३॥
व्रतोपवासैर्विषममैर्विचित्रैः सदैव धर्म कुरुते नरः सः ।
धर्माश्रिते चैव चतुर्थराशौ तीर्थाश्रयाद्वा वनसेवनेन ॥४॥
आसंस्थिताचार्यह ( ? ) सिंहराशौ धर्म परेषां प्रकरोति मर्त्यः ।
स्वधर्महीनाविक्रियाभिरेव सुतीर्थरुपं विनयेत् हीनम् ॥५॥
धर्माश्रितः स्याद्यदि षष्ठराशिः स्त्रीधर्मसेवां कुरुते मनुष्यः ।
विहीनभक्तिर्बहुजन्मता च पाखण्डमाश्रित्य तथान्यपक्षम् ॥६॥
तुलाधरे धर्मगते मनुष्यो धर्म करोत्येव सदा प्रसिद्धम् ।
देवद्विजानां परितोषणं च जनानुरागेण तथाद्भुतानाम् ॥७॥
धर्माश्रिते चाष्टमगे च राशौ पाखण्डधर्म कुरुते मनुष्यः ।
पीडाकरं चैव तथा जनानां भक्त्या विहीनं परपोषणेन ॥८॥
चापे तथा धर्मगते मनुष्यः करोति धर्म द्विजदेवतर्पणम् ।
स्वेच्छान्वितं शास्त्राविनिर्मितं च प्रभूततोषं प्रथितं त्रिलोके ॥९॥
धर्माश्रिते चेन्मकरे मनुष्यः पापोऽत्यधर्म कुरुते प्रतापम् ।
पश्चाद्विरक्तं च विडम्बनाभिः कौलं समाश्रित्य सदा च पक्षम् ॥१०॥
कुम्भे च धर्म प्रगतं च धर्म पुंसां विधत्ते सुरसङ्घजातम् ।
वृक्षाश्रयोत्थं च तथा शिवं च आरामवापीप्रियता सदैव ॥११॥
धर्माश्रिते चैव हि मीनराशौ करोति धर्म विविधं नृलोके ।
सत्सेवयारामतडागजातं तीर्थाटनेनार्थसुखैर्विचित्रैः ॥१२॥