एकत्रिपञ्चपुत्राश्च धीस्थे तुर्ये कुजे गुरौ । द्विचतुःषट्सप्तमैश्च पुत्रदो ज्ञसिते शनिः ॥१॥
सहजे च सिंहे सुतजीवकेतू षष्ठे शनिः सूर्यकलत्रसंस्थः । गर्भे च राहुर्दशमे च भौमः सन्तानहानिश्च भवेन्नराणाम् ॥२॥
ग्रहः क्रूरो व्ययाधीशो धर्मारिसहजे व्यये । दग्धे चक्री सुतस्थाने जातको म्रियते सुतः ॥३॥
यावत्संख्या ग्रहाणां सुतभवनगताः पूर्णदृष्टिर्यदा वा यावत्संख्या प्रसूतिर्भवति बलयुता पुंग्रहापुत्रकथ्यम् ।
कन्या चन्द्रस्य शुक्रे हिमसुतरविजो गर्भहार्निकरोति केचिच्चन्द्राद्विचार्य मुनिगणकथितं तद्विचिन्त्यं नवांशे ॥४॥