लाभे लये मेषगते च राशौ चतुष्पदोत्थं प्रकरोति लाभम् ।
तथा नराणां नृपसेवया च देशान्तराराधितसुप्रभूतम् ॥१॥
आयस्थिते वै वृषभे प्रलाभो भवेन्मनुष्यस्य विशिष्टजातः ।
स्त्रीणां सकाशादथ सज्जनानां कुशीलगोधर्मकृतिस्तथैव ॥२॥
तृतीयराशिः कुरुतेऽतिलाभं लाभाश्रितः स्त्रीदयितं सदैव ।
वस्त्वर्थमुख्यासनपानजातं सदा नराणां विविधप्रसिद्धम् ॥३॥
लाभो भवेल्लाभगते च राशौ सदा चतुर्थे वरजातकानाम् ।
सेवाकृषिभ्यां जनितप्रभूतः शास्त्रेण वा साधुजनैश्च पश्चात् ॥४॥
लाभाश्रिते पञ्चमगे च रौशा भवेन्मनुष्यस्य विगर्हणा च ।
नानाजनानां वधबन्धनैर्वा व्यायामदेशान्तरसंश्रयाच्च ॥५॥
कन्यात्मके लाभगते मनुष्यः प्राप्नोति लाभं विविधं सपर्याः ।
शास्त्रागमाभ्यां विनयेन पुंसां नित्याविवेकेन तथाद्भुतेन ॥६॥
तुलाधरे लाभगते मनुष्यः प्राप्नोति लाभं वणिजे विचित्रे ।
सुसाधुसेवाविनयेन नित्यं सुखं स्तुतं मुख्यमतं प्रभूतम् ॥७॥
लाभाश्रिते चाष्टमगेहराशौ प्राप्नोति लाभं मनुजोऽतिमुख्यम् ।
छलेन पापेन सुभाषणेन परस्य पैशुन्यकृतैर्विकारैः ॥८॥
लाभाश्रिते चैव धनुर्धरे च नृपं विलासान्भजते मनुष्यः ।
सत्सेवया वा निजपौरुषेण मुख्यंचराराधनवांश्च नित्यम् ॥९॥
लाभाश्रिते वेगकरेऽर्थलाभो भवेन्नराणां जनयानयोगात् ।
विदेशवासान्नृपसेवनाद्वा व्ययात्मकं भूरितरं सदैव ॥१०॥
आयुःस्थिते कुंभधरे च लाभो भवेन्मनुष्यस्य कुकर्मजातम् ।
त्यागेन धर्मेण पराक्रमेण विद्याप्रभावात्सुसमागमश्च ॥११॥
लाभाश्रिते चान्त्यगमे च राशौ प्राप्नोति लाभं विविधैर्मनुष्यः ।
मित्रोद्भवं पार्थिवमानजातं विचित्रवाक्यैः प्रणयेन नित्यम् ॥१२॥