गृहस्था द्वादशे भागे मित्रोच्चसमवस्थिताः । बहुस्त्रीष्वधिकारी स्यान्नानाऋद्धिसमन्वितः ॥१॥
अशीतिचतुराशीतिषडशीत्यथ सप्तकम् । अष्टौ पंचषाष्टिषट्पंचाशच्चैव सप्ततिः ॥२॥
नवत्यङ्गाधिका षष्टिषट्पंचाशच्छतं यथा । उक्तमायुःप्रमाणेन द्विरसांशैकभेदतः ॥३॥
जलेनाष्टादशे वर्षे सर्पेण नवमे पुनः । अपरेण दशमे च द्वात्रिंशे राजयक्ष्मणा ॥४॥ ( १ अष्टौ पञ्चाशीतिषष्टि षट्पञ्चाशच्च रुप्ततिः )
विंशे रक्तप्रमाणेन द्वाविंशे वह्निना तथा । अष्टाविंशतिमे वर्षे जलोदरभयं तथा ॥५॥
व्याघ्रदंष्ट्रित्रिंशत्तमे शरघातेन तत्कटे । जलेन वातपीडात्वं मरणं मकरे विधौ ॥६॥
स्त्रीकन्ये मरणं विद्यात्रिंशद्वर्षेण मज्जनम् । चक्रेण मरणं प्राहू राश्यश्चेन्मुच्यते नरः ॥७॥
पूर्वोक्तमायुःप्राप्नोति सत्यमेतन्मयोदितम् ॥८॥