तृतीयसंस्थे प्रथमे च राशौ मित्रं द्विजातिश्च भवेन्मनुष्यः ।
परोपकारैः श्रवणैः शुचिश्च प्रभूतविद्यो नृपपूजिताङ्गः ॥१॥
वृषे तृतीये लभते मनुष्यो मित्रं नरेन्द्रं प्रचुरं प्रतापम् ।
सुवित्तदं भूरियशोनिधानं सूरि कविं ब्राह्मणरक्तचित्तम् ॥२॥
तृतीयसंस्थे मिथुने च लग्ने करोति मर्त्ये वरयानयुक्तम् ।
स्त्रीवल्लभं सत्यमुदारचेष्टं कुलाधिकं पूज्यतमं नृपाणाम् ॥३॥
कुलीरराशौ सहजं प्रयाते मित्रं लभेद्वैश्यगुरुप्रवेशे ।
कृषीवलं धर्मकथानुरक्तं सदा सुशीलं मुदसंमतं च ॥४॥
सिंहे तृतीये लभते मनुष्यः शूरं कुमित्रं वरवित्तलुब्धम् ।
वधात्मकं पापकथानुरक्तं प्रचण्डवाक्यं न हि गर्वितं च ॥५॥
तृतीयभावे स्थितलग्नकन्या शस्त्रानुरक्तं मनुजं सुशीलम् ।
नानासुत्दृत्संस्तुतकल्पकोपं प्रियद्विजं देवगुरुप्रभक्तम् ॥६॥
तृतीयसंस्थे तु तुलाभिधाने मैत्री भवेत्पापपरैर्मनुष्यैः ।
लौल्यात्मको लौल्यकथानुरक्तः सार्द्ध मनुष्यस्य सुतार्द्धसुक्ते ॥७॥
अलौ तृतीये च भवेन्मनुष्यो मन्त्री सदा पापजनैर्दरिद्रैः ।
कृतघ्नघातैः कलहानुरक्तैर्व्यपेतलक्षैर्जनताविरुद्धैः ॥८॥
चापे तृतीये लभते मनुष्यो मन्त्री सुशूरो नृपसेवकश्च ।
चित्तैः स्वैरर्धर्मपदैः प्रसन्नैः कृपानुरक्तै रणकोविदैश्च ॥९॥
मक्रस्तृतीये च नरस्य यस्य करोति सौम्यं सततं सुताद्यम् ।
नित्यं सुत्दृद्देवगुरुप्रसक्तं महाधनं पण्डितमप्रमेयम् ॥१०॥
कुम्भस्तृतीये लभते मनुष्यो मैत्री व्रतज्ञैर्बहुकीर्तियुक्तैः ।
क्षमाधिकैः सत्यपरैः सुशीलैर्गीतप्रियैर्गोपपरैः खलैश्च ॥११॥
तृतीयभावे स्थितमीनराशौ नरं प्रसूतं बहुवित्तयुक्तम् ।
पुत्रान्वितं पुण्यधनैरुपेतं प्रियातिथि सर्वजनाभिरामम् ॥१२॥