मेषे धनस्थे कुरुते मनुष्यो धनं सपुण्यैर्विविधैः प्रभूतैः ।
सुनीतियुक्तं तनयं प्रसूते चतुष्पदाढ्यं बहुपण्डितज्ञम् ॥१॥
वृषे धनस्थे लभते मनुष्यः कृषिप्रसादे च धनं सदैव ।
अनाभिघातं च चतुष्पदाख्यं तथा हिरण्यं मणिमुक्तकोऽर्थम् ॥
तृतीयलग्ने धनगे मनुष्यो धनं भवेत्स्त्रीजनतश्च नित्यम् ।
रुप्यं तथा काञ्चनजं प्रभूतं हयाधिकं साधुभिरेव सख्यम् ॥३॥
चतुर्थराशिर्धनगो मनुष्यो धनं लभेद्रृक्षजमेव नित्यम् ।
जलाद्भयं यद्वनमिष्टभोज्यं नयार्जितं प्रीतिकरं सुतानाम् ॥४॥
सिंहे धनस्थे लभते मनुष्यो धनं तपोऽरण्यजनात्तु मानम् ।
सर्वोपकारं प्रवणं प्रभूतं स्वविक्रमोपार्जितमेव नित्यम् ॥५॥
कन्योदये वित्तगते मनुष्यो धनं लभेद्भूमिपतेः सकाशात् ।
हिरण्यमुक्तामणिरौप्यजालं गजाश्वनानाविधवित्तजं च ॥६॥
तुले धनस्थे बहुपुण्यजातं धनं मनुष्यो लभते प्रभूतम् ।
पाषाणजं मृन्मयमार्तिजातं सस्योद्भवं कर्मजमेव नित्यम् ॥७॥
धने त्वलिर्लग्नभवेच्च यस्य स्वधर्मशीलं प्रकरोति नित्यम् ।
विलासिनीकामपरं सदैव विचित्रवाक्यं द्विजदेवभक्तम् ॥८॥
धनुर्धरे वित्तगते मनुष्यो धनं लबेत्स्थैर्यविधानजातम् ।
चतुष्पदाढ्यं विविधं यशस्वी रसोद्भवं धर्मविधानलुब्धम् ॥९॥
मृगे धनस्थे लभते मनुष्यो धनं प्रपञ्चैर्विविधैरुपायैः ।
सेवासमुत्थं च सदा नृपाणां कृषिक्रियाभिश्च विदेशसङ्गात् ॥१०॥
घटे धनस्थे लभते मनुष्यो धनं प्रभूतं फलपुष्पजातम् ।
जनोद्भवं साधुजनस्थभोज्यं महाजनोत्थं च परोपकारी ॥११॥
मत्स्ये धनस्थे लभते मनुष्यो धनं प्रभूतैर्नियमोपवासैः ।
विद्याप्रभावान्निधिसङ्गमाच्च मातापितृभ्यां समुपार्जितं च ॥१२॥