मेषे रिपुस्थे प्रभवन्ति वैरं सदा नराणां वृषभे रिपुस्थे ।
अपत्यमार्गे गतमङ्गनानां सङ्गो नितान्तं निजबन्धुवर्गे ॥१॥
तृतीयराशौ रिपुणे नराणां वैरं भवेत्स्त्रीजनितं सदैव ।
तथा नराणां न हितं च पापैर्वणिग्जनैर्नीचजनानुरक्तैः ॥२॥
कर्के रिपुस्थे सहसा भयं च भवेन्मनुष्यस्य सुतातुरस्य ।
समं द्विजेन्दैश्च नराधिपैश्च महाजनेनैव परानुरोधात् ॥३॥
सिंहे रिपुस्थे प्रभवेच्च वैर पुत्रीसमं बन्धुजनेन नित्यम् ।
धने क्षमात्तस्य विनिर्जितं च यद्वा मनुष्यस्य वराङ्गनाभिः ॥४॥
कन्यास्थिते शत्रुगृहे स्ववैररैसंयुतानि प्रभवेन्नराणाम् ।
दुश्चारिणीभिश्च सुनिम्ननाभिवेश्याभिरेवाश्रयवर्जिताभिः ॥५॥
तुलाधरे शत्रुगृहे नरस्थनिधिस्थितस्य प्रभवेच्च वैरम् ।
कार्य सुधर्मस्य नरस्य साधोः स्वबन्धुवर्गाच्च निजालयश्च ॥६॥
कौर्पे रिपुस्थे प्रभवन्ति वैरं सार्द्ध द्विजिह्वैश्च सरीसृपैश्च ।
व्यालैर्मृगैश्चोरगनैर्नराणां सर्वैः सुधान्यैश्च विलासिभिश्च ॥७॥
चापे रिपुस्थे च भवेच्च वैरं शरैः समेत च सरागकैश्च ।
सदा मनुष्यैश्च हयैश्च हस्तिभिः पुण्यैस्तथान्यैः परवञ्चनाच्च ॥८॥
मृगे रिपुस्थे च भवेच्च वैरं सदा नराणां धनसंभवं च ।
मित्रैः समं साधुजने सहाये प्रभूतकालं गृहसम्भवं च ॥९॥
कुम्भे रिपुस्थे च तथा हि तेजोनराधिपेनैव जलाश्रयैश्च ।
वापीतडागादिभिरेव नित्यं क्षेत्राधिपोच्चैः पुरुषैः सुवेलैः ॥१०॥
मीने रिपुस्थे च भवेन्नराणां वैरं च नित्यं सुतवस्त्रजातम् ।
स्त्रीहेतुकं स्वीयभवं पराणामपि प्रियाणामितरेतरं च ॥११॥