धनी सुखी कार्यविज्ञस्त्रिकोणस्थे दिवाकरे ।
चन्द्रे धनी च भोक्ता च भौमे शूरोदयः खलः ॥१॥
बुधे त्रिकोणगे विज्ञो विनोदी विजयी नरः ।
गुरौ ग्रामपुरादीनां मठस्याधिपतिः सुधीः ॥२॥
शुक्रे त्रिकोणगे सुज्ञः सुखयुक्तो महीपतिः ।
मन्दे नरो धनैः पूर्णो महाशूरः कुलन्धरः ॥३॥