सुभाषितरत्नकोशः - सुगतव्रज्या
विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.
नमो बुद्धाय
नानाकवीन्द्रवचनानि मनोहराणि संख्यावतां परमकण्ठविभूषणानि ।
आकम्पकानि शिरसश् च महाकवीनां तेषां समुच्चयम् अनर्घम् अहं विधास्ये ०.१ ॥१॥
सुगतव्रज्या
आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः १.१ ॥२॥
अश्वघोषस्य
नम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास् त्रयस् ते देवाः प्रतिबिम्बनात् त्रिदशतां सुव्यक्तम् आपेदिरे ।
स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान् मुदे १.२ ॥३॥
वसुकल्पस्य
कामक्रोधौ द्वयम् अपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेण ।
यस् तु क्षान्त्या शमयति शतं मन्मथाद्यान् अरातीन् कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः १.३ ॥४॥
संघश्रियः
श्रेयांसि वः स सुगतः कुरुताद् अपार- संसारसागरसमुत्तरणैकसेतुः ।
दुर्वारमारपरिवारबलावलेप- कल्पान्तसंततपयःप्रसरैर् अहार्यः १.४ ॥५॥
अपराजितरक्षितस्य
शास्ता समस्तभुवनं भगवान् अपायात् पायाद् अपास्ततिमिरो मिहिरोपमेयः ।
संसारभित्तिभिदुरो भवकन्दकन्दु- कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः १.५ ॥६॥
वसुकल्पस्य
कारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक- ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः ।
ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः १.६ ॥७॥
शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्- दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः ।
देयात् तुभ्यम् अवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् १.७ ॥८॥
एतौ श्रीधरनन्दिनः
एकस्यापि मनोभुवस् तदबलापाङ्गैर् जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् ।
यस् त्व् एनं सबलं च जेतुम् अभितस् तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस् तु तद्गुणकथा स्तम्भाय नः केवलम् १.८ ॥९॥
कुमुदाकरमतेः
प्रत्येकानन्तजातिप्रतिवपुर् अमितावृत्तिजम्भार्जितैनो- भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः ।
के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् यो भस्मासीत्कटाक्षज्वलनकणिकया द्राग् उमाकामुकस्य १.९ ॥१०॥
वल्लणस्य
पायाद् वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः क्रोधाद् यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः ।
आसीद् अद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकाम् आलोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः १.१० ॥११॥
सुभटः
सुमटः
धर
घर
श्रीपार्श्ववर्मणः
खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्- सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः ।
आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर् मिथश् चुम्बनैर् व्याकोषः कुसुमाञ्जलिर् दिशतु वः श्रेयो जिनायार्पितः १.११ ॥१२॥
जितारिनन्दिनः
दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्- मयूखान्तर्मूर्च्छद्द्युतिदशनम् उद्देशवशिनः ।
सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञानरजनी- व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप इव १.१२ ॥१३॥
त्रिलोचनस्य
कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितो ऽनयद् इति त्रासाकुलस्वान्तया ।
मारस्यापि शरैर् अभेद्यहृद् इति श्रद्धाभरप्रह्वया पायाद् वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः १.१३ ॥१४॥
तस्यैवेति श्रुतिः
पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्- नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः ।
वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव- प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः १.१४ ॥१५॥
वसुकल्पस्य
क एकस् त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तद् अपि किम् ।
इतीवैनान् नूनं य इह सुमनोस्त्रत्वम् अनयत् स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी १.१५ ॥१६॥
इति सुगतव्रज्या
N/A
References : N/A
Last Updated : November 11, 2016
TOP