संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
तद्वर्गव्रज्या

सुभाषितरत्नकोशः - तद्वर्गव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


ततस् तद्वर्गव्रज्या

देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे हर्षाद् भृङ्गिरिटाव् अयाचितगिरा चामुण्डयालिङ्गिते ।
अव्याद् वो हतदेवदुन्दुभिघनध्वानातिरिक्तस् तयोर् अन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः ५.१ ॥७१॥
योगेश्वरस्य

रक्षतु वः स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः ।
शंकरदृढकण्ठग्रहपीडनभस्माङ्गरागविच्छुरितम् ५.२ ॥७२॥

सावष्टम्भनिशुम्भसम्भ्रमनमद्भूगोलनिष्पीडन- न्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति ।
पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम् ५.३ ॥७३॥

भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः ।
ब्रह्मन्न् उन्नय दूरम् आत्मसदनं देवस्य मे नृत्यतः शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः ५.४ ॥७४॥

खेदास् ते कथम् ईदृशः प्रियतमे त्वन्नेत्रवह्नेर् विभो कस्माद् वेपितम् एतद् इन्दुवदने भोगीन्द्रभीतेर् भव ।
रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकरैर् इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ५.५ ॥७५॥
लक्ष्मीधरस्य

आर्द्रां कण्ठे मुखाब्जस्रजम् अवनमयत्य् अम्बिका जातुलम्बां स्थाने कृत्वेन्दुलेखां निबडयति जटाः पन्नगेन्द्रेण नन्दी ।
कालः कृत्तिं निबध्नात्य् उपनयति करे कालरात्रिः कपालं शम्भो नृत्यावतारे परिषद् इति पृथग्व्यापृता वः पुनातु ५.६ ॥७६॥
शतानन्दस्य

शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठग्रहेण ।
इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले पश्यन्न् अक्षैर् विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः ५.७ ॥७७॥

गौरीविभज्यमानार्ध- संकीर्णे हरमूर्धनि ।
अम्ब द्विगुणगम्भीरे भागीरथि नमो ऽस्तु वः ५.८ ॥७८॥

देवस्याम्बुजसम्भवस्य भवनाद् अम्भोधिम् आगामुका सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी ।
उद्यातान् अपहाय विग्रहम् इह स्रोतःप्रतीपान् अपि स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् ५.९ ॥७९॥

प्रातः कालाञ्जनपरिचितं वीक्ष्य जामातुर् ओष्ठं कन्यायाश् च स्तनमुकुलयोर् अङ्गुलीभस्ममुद्राः ।
प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् गौरीमातुः किम् अपि किम् अपि व्याहृतं कर्णमूले ५.१० ॥८०॥
शुभाङ्गस्य

लाक्षारागं हरति शिखराज् जाह्वनीवारि येषां ये तन्वन्ति श्रियम् अधिजटामण्डलं मालतीनाम् ।
यात्य् उत्सर्पद्विमलकिरणैर् यैस् तिरोधानम् इन्दुर् देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ५.११ ॥८१॥
दक्षस्य

मिश्रीभूतां तव तनुलतां बिभ्रतो गौरी कामं देवस्यासीद् अविरलपरिरम्भजन्मा प्रमोदः ।
किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिर् दृष्टेत्य् अन्तःअकरणम् असकृत् ताम्यति त्र्यम्बकस्य ५.१२ ॥८२॥

अव्याद् वो वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः ।
यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस् ताराचक्रम् उदक्तशीकरपृषल्लीलाम् इवाभ्यस्यति ५.१३ ॥८३॥
राजशेखरस्य

सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- त्रासान् नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।
गण्डोड्डीनालिमालामुखरितककुभस् ताण्डवे शूलपाणेर् वैनायक्यश् चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ५.१४ ॥८४॥
भवभूतेः

यद् अम्बा तातो वा द्वयम् इदम् अगाद् एकतनुतां तदर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु ।
जगत् तत् तज् जातं सकलनरनारीमयम् इति प्रतीतिं कुर्वाणो जयति शिखिभर्तुर् गजमुखः ५.१५ ॥८५॥

भवजलधिजलावलम्बयष्टिर् महिषमहासुशैलवज्रधारा ।
हरहृदयतडागराजहंसी दिशतु शिवं जगतश् चिरं भवानी ५.१६ ॥८६॥
भगीरथस्य

शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी ।
पुष्पवतीव सलज्जा हसितहरनिरीक्षिता जयति ५.१७ ॥८७॥
गोनन्दस्य

प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया दृष्टाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् ।
उन्मादस्मितरोषलज्जितम् असौ गौर्या कथंचिच् चिराद् वृद्धस्त्रीवचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ५.१८ ॥८८॥

शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् ।
ताव् अप्य् एकशरीराव् इति विषमाशश् चिरं जयति ५.१९ ॥८९॥

अम्बेयं नेयम् अम्बा न हि खरकपिशं श्मश्रु तस्या मुखार्धे तातो ऽयं नैष तातः स्तनम् उरसि पितुर् दृष्टवान् नाहम् अत्र ।
केयं को ऽयं किम् एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् ५.२० ॥९०॥

स्वेच्छारम्भं लुठित्वा पितुर् उरसि चिताभस्मधूलीचिताङ्गो गङ्गावारिण्य् अगाधे झटिति हरजटाजूटतो दत्तझम्पः ।
सद्यः शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिर् गुहो वः कम्पी पायाद् अपायाज् ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ५.२१ ॥९१॥

स्वेच्छारम्भं
स्वेच्छारम्यं

हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं बालाम् इन्दुकलां मृणालरभसाद् आन्दोलयन् पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटम् उद्घाटयन् पायाद् वः पितुर् अङ्गभाक् शिशुजनक्रीडोन्मुखः षण्मुखः ५.२२ ॥९२॥

कपोलाद् उड्डीनैर् भयवशविलोलैर् मधुकरैर् मदाम्भःसंलोभाद् उपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियम् इव दधानो ऽतिरुचिराम् अविघ्नं हेरम्बो भवदघविघातं घटयतु ५.२३ ॥९३॥
वसुकल्पस्य

एकः स एव परिपालयताज् जगन्ति गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश- देहार्धहारितवधूक इवैकदन्तः ५.२४ ॥९४॥
तस्यैव

अर्चिष्मन्ति विदार्य वक्त्रकुहराण्य् आ सृक्कणो वासुकेस् तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षड् इति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ५.२५ ॥९५॥

सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरः कृत्तं केन शिरो ऽस्य तात कथयेत्य् आक्रन्दतः शैशवात् ।
सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस् तन्मूर्धेक्षणतर्पितस्य हसितं पायात् कुमारस्य वः ५.२६ ॥९६॥

चर्चायाः कथम् एष रक्षति सदा सद्योनृमुण्डस्रजं चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि ।
इत्य् अन्तः परिभावयन् भगवतो दीर्घं धियः कौशलं कूष्माण्डो धृतिसम्भृताम् अनुदिनं पुष्णाति तुन्दश्रियम् ५.२७ ॥९७॥

स्रजं
स्रज

कस्मात् त्वं तातगेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् ।
इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषा- वैगुण्योद्वेगजन्मा जगद् अवतु चिरं हारवो भृङ्गरीटेः ५.२८ ॥९८॥
तुङ्गस्यैतौ

स्थूलो दूरम् अयं न यास्यति कृशो नैष प्रयाणक्षमस् तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परा दृश्यते ।
इत्यादौ परिचिन्तितं प्रतिमुहुस् तद् भृङ्गिकूष्णाण्डयोर् अन्योन्यप्रतिकूलम् ईशशिवयोः पाणिग्रहे पातु वः ५.२९ ॥९९॥

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- प्रेङ्खन्नखांशुचयसंवलितो ऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर- लोभभ्रमद्भ्रमरविभ्रमभृत् कटाक्षः ५.३० ॥१००॥
अचलसिंहस्य

मातस् ते ऽधरखण्डनात् परिभवः कापालिकाद् यो ऽभवत् स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति ।
गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां वैलक्ष्याच् चतुरास्यनिष्फलपरावृत्तिश् चिरं पातु वः ५.३२ ॥१०१॥

गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती ।
भर्तुर् भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्व् अद्रिसुता विवाहसमये प्रीता च भीता च वः ५.३२ ॥१०२॥

पाणिस्थाय... कण्ठे

राजशेखरस्य

दिग्वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्य् अन्योन्यविरुद्धचेष्टितम् इदं पश्यन् निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते ऽस्थिशेषं वपुः ५.३३ ॥१०३॥

इति शिवगणव्रज्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP